मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे| श्रीमान् वेंकटनार्थायः कव... कृष्ण स्तोत्रे श्रीकृष्णकर्णामृतं भक्तिरसायनम् श्रीकृष्णविलासकाव्यम् श्री गणेशाय नमः । श्रीनार... श्री गणेशाय नमः । ॐ अस्य ... अग्रे कुरूनाम् अथ पाण्डवा... श्री कल्याणी देवी विरचितम... श्री गणेशाय नमः । अस्य श्... श्रीशुक उवाच -- किं जपन् ... श्रीवादिराजयति कृतम् । अ... उत्तिष्ठोत्तिष्ठ गोविन्द ... श्रियः कान्ताय कल्याण निध... महादेव उवाचः । ॐ श्रीं नम... ज्वर उवाच । नमामि त्वाऽनन... श्रीधर्म उवाच । कृष्णं व... नारायण उवाच । वरं वरेण्य... ब्रह्मोवाच कृष्णं वन्दे ... महादेव उवाच । जयस्वरुपं ... सरस्वत्युवाच । रासमण्डलम... मोहिन्युवाच । सर्वेन्द्रि... शौनक उवाच । कं मन्त्रं बा... श्रीमदानन्दतीर्थ भगवत्पाद... श्रीकृष्ण उवाच । किं ते न... देवा ऊचुः । जगद्योनिरयोनि... ॐ नमो विश्वरूपाय विश्वस्थ... श्रीनारद उवाच । नवीननीरदश... श्रीमान् वेंकटनाथार्यः कव... गोप्य ऊचुः । जयति तेऽधिकं... श्री कल्याणी देवी विरचितम... यश्चैकशैलनिकटे कमलापुरीश-... पान्त्वस्मान् पुरुहूत वैर... ओमिति ज्ञानमात्रेण रोगाजी... सखी हे केऽसि मदनमुदारम् र... कदा बृन्दारण्ये विपुलयमुन... हृदम्भोजे कृष्णस्सजलजलदश्... अग्रे पश्यामि तेजो निबिडत... नमस्ये पुरुषं त्वाद्यमीश्... श्रीकृष्णस्तोत्रम् कृष्णलीलावर्णनस्तोत्रम् दुराशोन्धोऽमुष्मिन विषय ... ईश्वरः परमः कृष्णः सच्चिद... नारायण नारायण जय गोविन्द ... अग्रे कुरूणामथ पाण्डवानां... भूपालच्छदि दुष्टदैत्यनिवह... सञ्चितयामि गुरुवायुपुरेश,... हरि नारायण गोविन्द जय नार... मङ्गलं यादवेन्द्राय महनीय... इन्द्र उवाच: कृष्ण कृष्ण... ज्ञातोऽसि देवदेवेश सर्वज्... श्रीशं कमलपत्राक्षं देवकी... शङ्खचक्रगदापाणे! द्वरकानि... नवजलधरवर्णं चम्पकोद्भासिक... सर्वमार्गेषु नष्टेषु कलौ ... वन्दे वृन्दावनचरं वल्लवीज... अग्रे पश्यामि तेजो निबिडत... हृदम्भोजे कृष्णस्सजलजलदश्... कदा बृन्दारण्ये विपुलयमुन... वन्दे नवघनश्यामं पीतकौशेय... रक्ष रक्ष हरे मां च निमग्... ब्रह्मोवाच- नौमीड्य तेऽभ... ॐ अर्चितः संस्मृतो ध्यात... प्रस्तावना कुञ्चिताधरपुटेन पूरयन् वं... अव्यादजोङघ्रिंमणिमांस्तव ... श्रृणु देवि प्रवक्ष्यामि ... ह्रदंभोजे कृष्णः सजलजलदश्... देवा ऊचुः । जगद्योनिरयोन... त्वमतींद्रियमव्यक्तमक्षरं... श्रीवेंकटेश्वराय नमः । ... यथा संरक्षितं ब्रह्मन्सर्... श्रीनारद उवाच । नवीननीर... कदाचित्कालिंदीतटविपिनसङ्ग... मोहिन्युवाच । सर्वेन... ब्रह्मोवाच । रक्ष रक्ष... वंदे नवघनश्यामं पीतकौशेयव... अस्य श्रीकृष्णाष्टोत्तरशत... इन्द्र उवाच । अक्षरं परम... विप्रपत्न्य ऊचुः । त्वं... श्रीमान् वेंकटनार्थायः कव... सत्यं ज्ञानमनन्तं नित्यमन... यस्माद्विश्वं जातमिदं चित... चतुर्मुखादिसंस्तुतं समस्त... सिंधुदेशोद्भवो विप्रो नाम... विद्राविते भूतगणे ज्वरस्त... ॥ जगन्नाथ प्रणामः॥ नीला... अग्रे कुरूणामथ पाण्डवानां... ॐ श्रीं ह्रीं क्लीं ग्लौं... अथ प्रथमस्तोत्रम् वन्दे... यश्चैकशैलनिकटे कमलापुरीश-... गोपालविंशतिस्तोत्रम् - श्रीमान् वेंकटनार्थायः कव... भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu. Tags : godgoddesskrishnaprayerstotraकृष्णदेवतादेवीस्तोत्र श्रीगणेशाय नमः । Translation - भाषांतर श्रीमान् वेंकटनार्थायः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा ह्रदि ॥ १ ॥ वंदे वृन्दावनचरं बल्लवीजनवल्लभम् । जयंतीसंभवं धाम वैजयंतीविभूषणम् ॥ २ ॥ वाचं निजाङकरसिकां प्रसमीक्षमाणो वक्त्रारविदविनिवेशितपाञ्चजन्यः । वर्णत्रिकोणरुचिरे वरपुंडरिके बद्धासनो जयति बल्लभचक्रवर्ती ॥ ३ ॥ आम्नायगंधरुचिरस्फुरिताधरोष्ठमस्त्राविलेक्षणमनुक्षणमंदहासम् । गोपालडिंभवपुषं कुहनाजनन्याः प्राणस्तनंधयमवैमि परं पुमांसम् ॥ ४ ॥ आविर्भवत्यनिभृतभरणं पुरस्तादाकुंचितैकचरणं निहितान्यपादम् । राधानिबद्धमुकुरेण निबद्धतालं नाथस्य नन्दभवने नवनीतनाट्यम् ॥ ५ ॥ कुंदप्रसूनविशदैर्दशनैश्चतुर्भिः संदश्य मातुरनिशं कुचचूचुकाग्रम् । नंदस्य वक्त्रमवलोकयतो मुरारेर्मदस्मितं मम मनीषितमातनोतु ॥ ६ ॥ हर्तु कुम्भे विनिहितकरः स्वादु हैयङ्गवीनं दृष्ट्वा दामग्रहणचटुलां मातरं जातरोषम् । पायादीषत्प्रचलितपदो नापगच्छन्नतिष्ठन्मिथ्यागोपाः सपदि नयने मीलयन् विश्वगोप्ता ॥ ७ ॥ व्रजयोषिदपांगवेदनीयं मथुराभाग्यमनन्यभोग्यमीडे । वसुदेववधूस्तनंधयं तत् किमपि ब्रह्म किशोरभावदृश्यम् ॥ ८ ॥ परिवर्तितकंधरं भयेन स्मितफुल्लाधरपल्लवं स्मरामि । विटपित्वनिरासककयोश्चिद्विपुलोलूखलकर्षकं कुमारम् ॥ ९ ॥ निकटेषु निशामयामि नित्यं निगमांतैरधुनापि मृग्यमाणम् । यमलार्जुनदृष्टबालकेलिं यमुनासाक्षिकयौवतं युवानम् ॥ १० ॥ पदवीमदवीयसीं विमुक्तेरटवीसंपदमंबु वाहयंतीम् । अरुणाधरसाभिलाषवंशां करुणां कारणमानुषं भजामि ॥ ११ ॥ अनिमेषनिषेवणीयमक्ष्णोरजहद्योवनमाविरस्तु चित्ते । कलहायितकुन्तलं कलापैः करुणोन्मादकविग्रहं मनो मे ॥ १२ ॥ अनुयायिमनोज्ञवंशनालैरवतु स्पर्शितबल्लवीविमोघैः । अनघस्मितशीतलौरसौ मामनुकंपासरिदंबुजैरपाङ्गैः ॥ १३ ॥ अधराहितचारुवंशनाला मुकुटालंबिमयूरपिच्छमालाः । हरिनीलशिलाविहंगलीलाः प्रतिभासंतु ममांतिमप्रयाणे ॥ १४ ॥ अखिलानवलोकयामि कालान्महिलादीनभुजांतरस्य यूनः । अभिलाषपदं ब्रजांगनानामभिलापक्रमदूरमाभिरूप्यम् ॥ १५ ॥ महसे महिताय मौलिना विनतेनांजलिमंजनन्त्विषे । कलयामि विदग्धबल्लवीवलयाभाषितमंजुवेणवे ॥ १६ ॥ जयतु ललितकृतं शिक्षको बल्लवीनांशिथिलवलयसिजाशीतलैर्हस्ततालैः । अखिलभुवनरक्षागोपवेषस्य विष्णोरधरमणिसुधाया वंशवान्वंशनालः ॥ १७ ॥ चित्राकल्पश्रवसि कलयँल्लांगलीकर्णपूरं बर्होत्तंसस्फुरितचिकुरो बंधुजीवं दधानः । गुंजाबद्धामुरसि ललितां धारयन् हारयष्टिं गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी ॥ १८ ॥ लीलायाष्टिं करकिसलये दक्षिणे न्यस्य धन्यामंसे देव्याः पुलकनिविडे सन्निविष्टान्यबाहुः । मेघश्यामो जयति ललितं मेखलादत्तवेणुर्गुंजापीडस्फुरितचिकुरो गोपकन्या भुजङ्गः ॥ १९ ॥ प्रत्यालीढस्मृतिमधिगतां प्राप्तगाढांगपालीं पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः । भस्त्रायंत्रप्रणिहितकरो भक्तिजीवातुरव्याद्वारिक्रीडानिबिडवसनो बल्लवीवल्लभो नः ॥ २० ॥ वासो ह्रत्वा दिनकरसुतासंनिधौ वल्लवीनां लीलास्मेरो जयति ललितामास्थितः कुन्दशाखाम् । सव्रीडाभिस्तदनु वसनं ताभिरभ्यर्थ्यमानः कामी कश्चित्करकमलयोरंजलिं याचमानः ॥ २१ ॥ इत्यनन्यमनसा विनिर्मितां वेंकटेशकविना स्तुतिं पठन । दिव्यबेणुरसिकैः समीक्षते दैवतं किमपि यौवतप्रियम् ॥ २२ ॥ इति गोपालविंशतिस्तोत्रं संपूर्णम् । N/A References : N/A Last Updated : July 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP