मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे| अग्रे कुरूणामथ पाण्डवानां... कृष्ण स्तोत्रे श्रीकृष्णकर्णामृतं भक्तिरसायनम् श्रीकृष्णविलासकाव्यम् श्री गणेशाय नमः । श्रीनार... श्री गणेशाय नमः । ॐ अस्य ... अग्रे कुरूनाम् अथ पाण्डवा... श्री कल्याणी देवी विरचितम... श्री गणेशाय नमः । अस्य श्... श्रीशुक उवाच -- किं जपन् ... श्रीवादिराजयति कृतम् । अ... उत्तिष्ठोत्तिष्ठ गोविन्द ... श्रियः कान्ताय कल्याण निध... महादेव उवाचः । ॐ श्रीं नम... ज्वर उवाच । नमामि त्वाऽनन... श्रीधर्म उवाच । कृष्णं व... नारायण उवाच । वरं वरेण्य... ब्रह्मोवाच कृष्णं वन्दे ... महादेव उवाच । जयस्वरुपं ... सरस्वत्युवाच । रासमण्डलम... मोहिन्युवाच । सर्वेन्द्रि... शौनक उवाच । कं मन्त्रं बा... श्रीमदानन्दतीर्थ भगवत्पाद... श्रीकृष्ण उवाच । किं ते न... देवा ऊचुः । जगद्योनिरयोनि... ॐ नमो विश्वरूपाय विश्वस्थ... श्रीनारद उवाच । नवीननीरदश... श्रीमान् वेंकटनाथार्यः कव... गोप्य ऊचुः । जयति तेऽधिकं... श्री कल्याणी देवी विरचितम... यश्चैकशैलनिकटे कमलापुरीश-... पान्त्वस्मान् पुरुहूत वैर... ओमिति ज्ञानमात्रेण रोगाजी... सखी हे केऽसि मदनमुदारम् र... कदा बृन्दारण्ये विपुलयमुन... हृदम्भोजे कृष्णस्सजलजलदश्... अग्रे पश्यामि तेजो निबिडत... नमस्ये पुरुषं त्वाद्यमीश्... श्रीकृष्णस्तोत्रम् कृष्णलीलावर्णनस्तोत्रम् दुराशोन्धोऽमुष्मिन विषय ... ईश्वरः परमः कृष्णः सच्चिद... नारायण नारायण जय गोविन्द ... अग्रे कुरूणामथ पाण्डवानां... भूपालच्छदि दुष्टदैत्यनिवह... सञ्चितयामि गुरुवायुपुरेश,... हरि नारायण गोविन्द जय नार... मङ्गलं यादवेन्द्राय महनीय... इन्द्र उवाच: कृष्ण कृष्ण... ज्ञातोऽसि देवदेवेश सर्वज्... श्रीशं कमलपत्राक्षं देवकी... शङ्खचक्रगदापाणे! द्वरकानि... नवजलधरवर्णं चम्पकोद्भासिक... सर्वमार्गेषु नष्टेषु कलौ ... वन्दे वृन्दावनचरं वल्लवीज... अग्रे पश्यामि तेजो निबिडत... हृदम्भोजे कृष्णस्सजलजलदश्... कदा बृन्दारण्ये विपुलयमुन... वन्दे नवघनश्यामं पीतकौशेय... रक्ष रक्ष हरे मां च निमग्... ब्रह्मोवाच- नौमीड्य तेऽभ... ॐ अर्चितः संस्मृतो ध्यात... प्रस्तावना कुञ्चिताधरपुटेन पूरयन् वं... अव्यादजोङघ्रिंमणिमांस्तव ... श्रृणु देवि प्रवक्ष्यामि ... ह्रदंभोजे कृष्णः सजलजलदश्... देवा ऊचुः । जगद्योनिरयोन... त्वमतींद्रियमव्यक्तमक्षरं... श्रीवेंकटेश्वराय नमः । ... यथा संरक्षितं ब्रह्मन्सर्... श्रीनारद उवाच । नवीननीर... कदाचित्कालिंदीतटविपिनसङ्ग... मोहिन्युवाच । सर्वेन... ब्रह्मोवाच । रक्ष रक्ष... वंदे नवघनश्यामं पीतकौशेयव... अस्य श्रीकृष्णाष्टोत्तरशत... इन्द्र उवाच । अक्षरं परम... विप्रपत्न्य ऊचुः । त्वं... श्रीमान् वेंकटनार्थायः कव... सत्यं ज्ञानमनन्तं नित्यमन... यस्माद्विश्वं जातमिदं चित... चतुर्मुखादिसंस्तुतं समस्त... सिंधुदेशोद्भवो विप्रो नाम... विद्राविते भूतगणे ज्वरस्त... ॥ जगन्नाथ प्रणामः॥ नीला... अग्रे कुरूणामथ पाण्डवानां... ॐ श्रीं ह्रीं क्लीं ग्लौं... अथ प्रथमस्तोत्रम् वन्दे... यश्चैकशैलनिकटे कमलापुरीश-... गोविन्ददामोदरस्तोत्रम् - अग्रे कुरूणामथ पाण्डवानां... भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu. Tags : godkrishnastotraकृष्णदेवतास्तोत्र गोविन्ददामोदरस्तोत्रम् Translation - भाषांतर अग्रे कुरूणामथ पाण्डवानां दुःशासनेनाहृतवस्त्रकेशा ।कृष्णा तदाक्रोशदनन्यनाथा गोविन्ददामोदर माधवेति ॥१॥श्री कृष्ण विष्णो मधुकैटभारेभक्तानुकम्पिन् भगवन् मुरारे ।त्रायस्व मां केशव लोकनाथ गोविन्ददामोदर माधवेति ॥२॥विक्रेतुकामाखिलगोपकन्या मुरारिपादार्पितचित्तवृत्तिः ।दध्यादिकं मोहवशादवोचद् गोविन्ददामोदर माधवेति ॥३॥उलूखले संभृततण्डुलांश्च संघट्टयन्त्योमुसलैः प्रमुग्धाः ।गायन्ति गोप्यो जनितानुरागागोविन्द दामोदर माधवेति ॥४॥काचित्करांभोजपुटे निषण्णंक्रीडाशुकं किंशुकरक्ततुण्डं ।अध्यापयामास सरोरुहाक्षी गोविन्ददामोदर माधवेति ॥५॥गृहे गृहे गोपवधू समूहः प्रतिक्षणंपिन्ञ्जरसारिकाणां ।स्खलद्गिरं वाचयितुं प्रवृत्तोगोविन्द दामोदर माधवेति ॥६॥पर्यङ्किकाभाजमलं कुमारं प्रस्वापयन्त्योऽखिलगोपकन्याः ।जगुः प्रबन्धं स्वरतालबन्धंगोविन्द दामोदर माधवेति ॥७॥रामानुजं वीक्षणकेलिलोलं गोपीगृहीत्वा नवनीतगोलं ।आबालकं बालकमाजुहाव गोविन्ददामोदर माधवेति ॥८॥विचित्रवर्णाभरणाभिरामेऽभिधेहिवक्त्रांबुजराजहंसि ।सदा मदीये रसनेऽग्ररङ्गे गोविन्ददामोदर माधवेति ॥९॥अङ्काधिरूढं शिशुगोपगूढं स्तनंधयन्तंकमलैककान्तं ।संबोधयामास मुदा यशोदा गोविन्ददामोदर माधवेति ॥१०॥क्रीडन्तमन्तर्व्रजमात्मजंस्वं समं वयस्यैः पशुपालबालैः ।प्रेम्णा यशोदा प्रजुहाव कृष्णंगोविन्द दामोदर माधवेति ॥११॥यशोदया गाढमुलूखलेन गोकण्ठपाशेननिबध्यमानः ।रुरोद मन्दं नवनीतभोजी गोविन्ददामोदर माधवेति ॥१२॥निजाङ्गणे कङ्कणकेलिलोलं गोपीगृहीत्वा नवनीतगोलं ।आमर्दयत्पाणितलेन नेत्रे गोविन्ददामोदर माधवेति ॥१३॥गृहे गृहे गोपवधूकदम्बाः सर्वेमिलित्वा समवाययोगे ।पुण्यानि नामानि पठन्ति नित्यंगोविन्द दामोदर माधवेति ॥१४॥मन्दारमूले वदनाभिरामं बिम्बाधरापूरितवेणुनादं ।गोगोपगोपीजनमध्यसंस्थं गोविन्ददामोदर माधवेति ॥१५॥उत्थाय गोप्योऽपररात्रभागेस्मृत्वा यशोदासुतबालकेलिम् ।गायन्ति प्रोच्चैर्दधि मन्थयन्त्योगोविन्द दामोदर माधवेति ॥१६॥जग्धोऽथ दत्तो नवनीतपिण्डोगृहे यशोदा विचिक्त्सयन्ती ।उवाच सत्यं वद हे मुरारे गोविन्ददामोदर माधवेति ॥१७॥अभ्यर्च्य गेहं युवतिः प्रवृद्धप्रेमप्रवाहादधि निर्ममन्थ ।गायन्ति गोप्योऽथ सखीसमेतागोविन्द दामोदर माधवेति ॥१८॥क्वचित् प्रभाते दधिपूर्णपात्रेनिक्षिप्य मन्थं युवती मुकुन्दं ।आलोक्य गानं विविधं करोति गोविन्ददामोदर माधवेति ॥१९॥क्रीडापरं भोजनमज्जनार्थं हितैषिणीस्त्री तनुजं यशोदा ।आजूहवत् प्रेमपरिप्लुताक्षीगोविन्द दामोदर माधवेति ॥२०॥सुखं शयानं निलये च विष्णुंदेवर्षिमुख्या मुनयः प्रपन्नाः ।तेनाच्युते तन्मयतां व्रजन्तिगोविन्द दामोदर माधवेति ॥२१॥विहाय निद्रामरुणोदये च विधायकृत्यानि च विप्रमुख्याः ।वेदावसाने प्रपठन्ति नित्यंगोविन्द दामोदर माधवेति ॥२२॥वृन्दावने गोपगणाश्च गोप्योविलोक्य गोविन्द वियोगखिन्नाम् ।राधां जगुः साश्रुविलोचनाभ्यांगोविन्द दामोदर माधवेति ॥२३॥प्रभातसञ्चारगता नु गावस्तद्रक्षणार्थंतनयं यशोदा ।प्राबोधयत् पाणितलेन मन्दंगोविन्द दामोदर माधवेति ॥२४॥प्रवालशोभा इव दीर्घकेशा वाताम्बुपर्णाशनपूतदेहाः ।मूले तरूणां मुनयः पठन्ति गोविन्ददामोदर माधवेति ॥२५॥एवं बृवाणा विरहातुरा भृशंव्रजस्त्रियः कृष्णविषक्तमानसाः ।विसृज्ज्य लज्जां रुरुदुः स्मसुस्वरं गोविन्द दामोदर माधवेति ॥२६॥गोपी कदाचिन्मणिपिञ्जरस्थंशुकं वचो वाचयितुं प्रवृत्ता ।आनन्दकन्द व्रजचन्द्रकृष्णगोविन्द दामोदर माधवेति ॥२७॥गोवत्सबालैः शिशुकाकपक्षं बध्नन्तमम्भोजदलायताक्षम् ।उवाच माता चिबुकं गृहीत्वागोविन्द दामोदर माधवेति ॥२८॥प्रभातकाले वरवल्लवौघा गोरक्षणार्थंधृतवेत्रदण्डाः ।आकारयामासुरनन्तमाद्यं गोविन्ददामोदर माधवेति ॥२९॥लाशये कालियमर्दनाय यदा कदम्बादपतन्मुरारिः ।गोपाङ्गनाश्चुक्रुशुरेत्य गोपागोविन्द दामोदर माधवेति ॥३०॥अक्रूरमासाद्य यदा मुकुन्दश्चापोत्सवार्थं मथुरां प्रविष्टः ।तदा स पौरैर्जयतीत्यभाषि गोविन्ददामोदर माधवेति ॥३१॥कंसस्य दूतेन यदैव नीतौ वृन्दावनान्ताद्वसुदेवसूनू ।रुरोद गोपी भवनस्य मध्ये गोविन्ददामोदर माधवेति ॥३२॥सरोवरे कालियनागबद्धं शिशुंयशोदातनयं निशम्य ।चक्रुर्लुठन्त्यः पथि गोपबालागोविन्द दामोदर माधवेति ॥३३॥अक्रूरयाने यदुवंशनाथं संगच्छमानंमथुरां निरीक्ष्य ।ऊचुर्वियोगात् किल गोपबालागोविन्द दामोदर माधवेति ॥३४॥चक्रन्द गोपी नलिनीवनान्तेकृष्णेन हीना कुसुमे शयाना ।प्रफुल्लनीलोत्पललोचनाभ्यांगोविन्द दामोदर माधवेति ॥३५॥मातापितृभ्यां परिवार्यमाणागेहं प्रविष्टा विललाप गोपी ।आगत्य मां पालय विश्वनाथ गोविन्ददामोदर माधवेति ॥३६॥वृन्दावनस्थं हरिमाशु बुद्ध्वागोपी गता कापि वनं निशायाम् ।तत्राप्यदृष्ट्वातिभयादवोचद्गोविन्द दामोदर माधवेति ॥३७॥सुखं शयाना निलये निजेऽपि नामानिविष्णोः प्रवदन्ति मर्त्याः ।ते निश्चितं तन्मयतां व्रजन्तिगोविन्द दामोदर माधवेति ॥३८॥सा नीरजाक्षीमवलोक्य राधांरुरोद गोविन्दवियोगखिन्नाम् ।सखी प्रफुल्लोत्पललोचनाभ्यांगोविन्द दामोदर माधवेति ॥३९॥जिह्वे रसज्ञे मधुरप्रिया त्वंसत्यं हितं त्वां परमं वदामि ।आवर्णयेथा मधुराक्षराणि गोविन्ददामोदर माधवेति ॥४०॥आत्यन्तिकव्याधिहरं जनानांचिकित्सकं वेदविदो वदन्ति ।संसारतापत्रयनाशबीजं गोविन्ददामोदर माधवेति ॥४१॥ताताज्ञया गच्छति रामचन्द्रेसलक्ष्मणेऽरण्यचये ससीते ।चक्रन्द रामस्य निजा जनित्रीगोविन्द दामोदर माधवेति ॥४२॥एकाकिनी दण्डककाननान्तात् सानीयमाना दशकन्धरेण ।सीता तदाऽऽक्रन्ददनन्यनाथा गोविन्ददामोदर माधवेति ॥४३॥रामाद्वियुक्ता जनकात्मजा साविचिन्तयन्ती हृदि रामरूपम् ।रुरोद सीता रघुनाथ पाहि गोविन्ददामोदर माधवेति ॥४४॥प्रसीद विष्णो रघुवंशनाथ सुरासुराणांसुखदुःखहेतो ।रुरोद सीता तु समुद्रमध्येगोविन्द दामोदर माधवेति ॥४५॥अन्तर्जले ग्राहगृहीतपादो विसृष्टविक्लिष्टसमस्तबन्धुः ।तदा गजेन्द्रो नितरां जगादगोविन्द दामोदर माधवेति ॥४६॥हंसध्वजः शङ्खयुतो ददर्श पुत्रंकटाहे प्रपतन्तमेनं ।पुण्यानि नामानि हरेर्जपन्तंगोविन्द दामोदर माधवेति ॥४७॥दुर्वाससो वाक्यमुपेत्य कृष्णासाचाब्रवीत् काननवासिनीशम् ।अन्तःप्रविष्टं मनसाऽऽजुहाव गोविन्ददामोदर माधवेति ॥४८॥ध्येयः सदा योगिभिरप्रमेयश्चिन्ताहरश्चिन्तितपारिजातः ।कस्तूरिकाकल्पितनीलवर्णो गोविन्ददामोदर माधवेति ॥४९॥संसारकूपे पतितोऽत्यगाधे मोहान्धपूर्णेविषयाभितप्ते ।करावलंबं मम देहि विष्णो गोविन्ददामोदर माधवेति ॥५०॥त्वामेव याचे मम देहि जिह्वेसमागते दण्डधरे कृतान्ते ।वक्तव्यमेवं मधुरं सुभक्त्यागोविन्द दामोदर माधवेति ॥५१॥भजस्व मन्त्रं भवबन्धमुक्त्यैजिह्वे रसज्ञे सुलभं मनोज्ञं ।द्वैपायनाद्यैर्मुनिभिः प्रजप्तंगोविन्द दामोदर माधवेति ॥५२॥गोपाल वंशीधर रूपसिन्धो लोकेशनारायण दीनबन्धो ।उच्चस्वरैस्त्वं वद सर्वदैवगोविन्द दामोदर माधवेति ॥५३॥जिह्वे सदैवं भज सुन्दराणिनामानि कृष्णस्य मनोहराणि ।समस्तभक्तार्तिविनाशनानि गोविन्ददामोदर माधवेति ॥५४॥गोविन्द गोविन्द हरे मुरारेगोविन्द गोविन्द मुकुन्द कृष्ण ।गोविन्द गोविन्द रथाङ्गपाणेगोविन्द दामोदर माधवेति ॥५५॥सुखावसाने त्विदमेव सारं दुःखावसानेत्विदमेव गेयं ।देहावसाने त्विदमेव जाप्यंगोविन्द दामोदर माधवेति ॥५६॥दुर्वारवाक्यं परिगृह्य कृष्णामृगीव भीता तु कथं कथञ्चित् ।सभां प्रविष्टा मनसाऽऽजुहाव गोविन्ददामोदर माधवेति ॥५७॥श्रीकृष्ण राधावर गोकुलेश गोपालगोवर्धननाथ विष्णो ।जिह्वे पिबस्वामृतमेतदेव गोविन्ददामोदर माधवेति ॥५८॥श्रीनाथ विश्वेश्वर विश्वमूर्तेश्रीदेवकीनन्दन दैत्यशत्रो ।जिह्वे पिबस्वामृतमेतदेव गोविन्ददामोदर माधवेति ॥५९॥गोपीपते कंसरिपो मुकुन्द लक्ष्मीपतेकेशव वासुदेव ।जिह्वे पिबस्वामृतमेतदेव गोविन्ददामोदर माधवेति ॥६०॥गोपीजनाह्लादकर व्रजेश गोचारणारण्यकृतप्रवेश ।जिह्वे पिबस्वामृतमेतदेव गोविन्ददामोदर माधवेति ॥६१॥प्राणेश विश्वंभर कैटभारे वैकुण्ठनरायण चक्रपाणे ।जिह्वे पिबस्वामृतमेतदेव गोविन्ददामोदर माधवेति ॥६२॥हरे मुरारे मधुसूदनाद्य श्रीरामसीतावर रावणारे ।जिह्वे पिबस्वामृतमेतदेव गोविन्ददामोदर माधवेति ॥६३॥श्रीयादवेन्द्राद्रिधराम्बुजाक्षगोगोपगोपीसुखदानदक्ष ।जिह्वे पिबस्वामृतमेतदेव गोविन्ददामोदर माधवेति ॥६४॥धराभरोत्तारणगोपवेष विहारलीलाकृतबन्धुशे ।जिह्वे पिबस्वामृतमेतदेव गोविन्ददामोदर माधवेति ॥६५॥बकीबकाघासुरधेनुकारे केशीतृणावर्तविघातदक्ष ।जिह्वे पिबस्वामृतमेतदेव गोविन्ददामोदर माधवेति ॥६६॥श्रीजानकीजीवन रामचन्द्र निशाचरारेभरताग्रजेश ।जिह्वे पिबस्वामृतमेतदेव गोविन्ददामोदर माधवेति ॥६७॥नारायणानन्त हरे नृसिंह प्रह्लादबाधाहरहे कृपालो ।जिह्वे पिबस्वामृतमेतदेव गोविन्ददामोदर माधवेति ॥६८॥लीलामनुष्याकृतिरामरूप प्रतापदासीकृतसर्वभूप ।जिह्वे पिबस्वामृतमेतदेव गोविन्ददामोदर माधवेति ॥६९॥श्रीकृष्ण गोविन्द हरे मुरारेहे नाथ नारायण वासुदेव ।जिह्वे पिबस्वामृतमेतदेव गोविन्ददामोदर माधवेति ॥७०॥वक्तुं समर्थोऽपि न वक्ति कश्चिदहोजनानां व्यसनाभिमुख्यम् ।जिह्वे पिबस्वामृतमेतदेव गोविन्ददामोदर माधवेति ॥७१॥ N/A References : N/A Last Updated : January 03, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP