मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
इन्द्र उवाच: कृष्ण कृष्ण...

इन्द्रकृतश्रीकृष्णस्तुतिः - इन्द्र उवाच: कृष्ण कृष्ण...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.

इन्द्र उवाच:

कृष्ण कृष्ण शृणुष्वेदं यदर्थमहमागतः ।
त्वत्समीपं महाबाहो नैतच्चिन्त्यं त्वयान्यथा ॥१॥

भारावतरणार्थाय पृथिव्याः पृथिवीतले ।
अवतीर्णॊऽखिलाधारत्वमेव परमेश्वर ॥२॥

मखभंगविरोधेन मया गोकुलनाशकाः ।
समादिष्टा महामेघास्तैश्चेदं कदनं कृतम् ॥३॥

त्रातास्ताश्च त्वया गावस्समुत्पाट्य महीधरम् ।
तेनाहं तोषितो वीरकर्मणात्यद्भुतेन ते ॥४॥

साधितं कृष्ण देवानामहं मन्ये प्रयोजनम् ।
त्वयायमद्रिप्रवरः करेणैकेन यद्धृतः ॥५॥

गोभिश्च चोदितः कृष्ण त्वत्सकाशमिहागतः ।
त्वया त्राताभिरत्यर्थं युष्मत्सत्कारकारणात् ॥६॥

स त्वां कृष्णाभिषेक्ष्यामि गवां वाक्यप्रचोदितः ।
उपेन्द्रत्वे गवामिन्द्रो गोविन्दस्त्वं भविष्यसि ॥७॥

श्रीपराशर उवाच:

अथोपवाह्यादादाय घण्टामैरावताद्गजात् ।
अभिषेकं तया चक्रे पवित्रजलपूर्णया ॥८॥

क्रियमाणेऽभिषेके तु गावः कृष्णस्य तत्क्षणात् ।
प्रस्रवोद्भूतदुग्धार्द्रां सद्यश्चक्रुर्वसुन्धराम् ॥९॥

अभिषिच्य गवां वाक्यादुपेन्द्रं वै जनार्दनम् ।
प्रीत्या सप्रश्रयं वाक्यं पुनराह शचीपतिः ॥१०॥

गवामेतत्कृतं वाक्यं तथान्यदपि मे शृणु ।
यद्ब्रवीमि महाभाग भारावतरणेच्छया ॥११॥

ममांशः पुरुषव्याघ्र पृथिव्यां पृथिवीधरः ।
अवतीर्योऽर्जुनो नाम संरक्ष्यो भवता सदा ॥१२॥

भारावतरणे साह्यं स ते वीरः करिषयति ।
संरक्षणीयो भवता यथात्मा मधुसूदन ॥१३॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP