संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|वैराग्यप्रकरणम्| सर्गः ३३ वैराग्यप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ वैराग्यप्रकरणम् - सर्गः ३३ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ३३ Translation - भाषांतर सिद्धा ऊचुः ।पावनस्यास्य वचसः प्रोक्तस्य रघुकेतुना ।निर्णयं श्रोतुमुचितं वक्ष्यमाणं महर्षिभिः ॥१॥नारदव्यासपुलहप्रमुखा मुनिपुङ्गवाः ।आगच्छताश्वविघ्नेन सर्व एव महर्षयः ॥२॥पतामः परितः पुण्यामेतां दाशरथीं सभाम् ।नीरन्ध्रां कनकोद्योतां पद्मिनीमिव षट्पदाः ॥३॥श्रीवाल्मीकिरुवाच ।इत्युक्ता सा समस्तैव व्योमवासनिवासिनी ।तां पपात सभां तत्र दिव्या मुनिपरम्परा ॥४॥अग्रस्थितमनुत्सृष्टरणद्वीणं मुनीश्वरम् ।पयः पीनघनश्यामं व्यासमेव किलान्तरा ॥५॥भृग्वंगिरःपुलस्त्यादिमुनिनायकमण्डिता ।च्यवनोद्दालकोशीरशरलोमादिमालिता ॥६॥परस्परपरामर्शदुःसंस्थानमृगाजिना ।लोलाक्षमालावलया सुकमण्डलुधारिणी ॥७॥तारावलिरिव व्योम्नि तेजःप्रसरपाटला ।सूर्यावलिरिवान्योन्यं भासिताननमण्डना ॥८॥रत्नावलिरिवान्योन्यं नानावर्णकृतांगिका ।मुक्तावलिरिवान्योन्यं कृतशोभातिशायिनी ॥९॥कौमुदीवृष्टिरन्येव द्वितीयेवार्कमण्डली॥संभृतेवातिकालेन पूर्णचन्द्रपरम्परा॥१०॥ताराजाल इवाम्भोदो व्यासो यत्र विराजते ।तारौघ इव शीतांशुर्नारदोऽत्र विराजते ॥११॥देवेष्विव सुराधीशः पुलस्त्योऽत्र विराजते ।आदित्य इव देवानामंगिरास्तु विराजते ॥१२॥अथास्यां सिद्धसेनायां पतन्त्यां नभसो रसाम् ।उत्तस्थौ मुनिसंपूर्णा तदा दाशरथी सभा ॥१३॥मिश्रीभूता विरेजुस्ते नभश्चरमहीचराः ।परस्परवृतांगाभा भासयन्तो दिशो दश ॥१४॥वेणुदण्डावृतकरा लीलाकमलधारिणः ।दूर्वांकुराक्रान्तशिखाः सचूडामणिमूर्धजाः ॥१५॥जटाजूटैश्च कपिला मौलिमालितमस्तकाः ।प्रकोष्ठगाक्षवलया मल्लिकावलयान्विताः ॥१६॥चीरवल्कलसंवीताः स्रक्कौशेयावगुण्ठिताः ।विलोलमेखलापाशाश्चलन्मुक्ताकलापिनः ॥१७॥वसिष्ठविश्वामित्रौ तान्पूजयामासतुः क्रमात् ।अर्घ्यैः पाद्यौर्वचोभिश्च सर्वानेव नभश्चरान् ॥१८॥वसिष्ठविश्वामित्रौ ते पूजयामासुरादरात् ।अर्घ्यैः पाद्यैर्वचोभिश्च नभश्चरमहागणाः ॥१९॥सर्वादरेण सिद्धौघं पूजयामास भूपतिः ।सिद्धौघो भूपतिं चैव कुशलप्रश्नवार्तया ॥२०॥तैस्तैः प्रणयसंरम्भैरन्योन्यं प्राप्तसत्क्रियाः ।उपाविशन्विष्टरेषु नभश्चरमहीचराः ॥२१॥वचोभिः पुष्पवर्षेण साधुवादेन चाभितः ।रामं ते पूजयामासुः पुरः प्रणतमास्थितम् ॥२२॥आसांचक्रे च तत्रासौ राज्यलक्ष्मीविराजितः ।विश्वामित्रो वसिष्ठश्च वामदेवोऽथ मन्त्रिणः ॥२३॥नारदो देवपुत्रश्च व्यासश्च मुनिपुंगवः ।मरीचिरथ दुर्वासा मुनिरांगिरसस्तथा ॥२४॥क्रतुः पुलस्त्यः पुलहः शरलोमा मुनीश्वरः ।वात्स्यायनो भरद्वाजो वाल्मीकिर्मुनिपुंगवः ॥२५॥उद्दालक ऋचीकश्च शर्यातिश्च्यवनस्तथा ॥२६॥एते चान्ये च बहवो वेदवेदांगपारगाः ।ज्ञातज्ञेया महात्मान आस्थितास्तत्र नायकाः ॥२७॥वसिष्ठविश्वामित्राभ्यां सह ते नारदादयः ।इदमूचुरनूचाना राममानमिताननम् ॥२८॥अहो बत कुमारेण कल्याणगुणशालिनी ।वागुक्ता परमोदारा वैराग्यरसगर्भिणी ॥२९॥परिनिष्ठितवक्तव्यं सबोधमुचितं स्फुटम् ।उदारं प्रियमार्यार्हमविह्नलमपि स्फुटम् ॥३०॥अभिव्यक्तपदं स्पष्टमिष्टं स्पष्टं च तुष्टिमत् ।करोति राघवप्रोक्तं वचः कस्य न विस्मयम् ॥३१॥शतादेकतमस्यैव सर्वोदारचमत्कृतिः ।ईप्सितार्थार्पणैकान्तदक्षा भवति भारती ॥३२॥कुमार त्वां विना कस्य विवेकफलशालिनी ।परं विकासमायाति प्रज्ञाशरलतातता ॥३३॥प्रज्ञादीपशिखा यस्य रामस्येव हृदि स्थिता ।प्रज्वलत्यसमालोककारिणी स पुमान्स्मृतः ॥३४॥रक्तमांसास्थियन्त्राणि बहून्यतितराणि च ।पदार्थानभिकर्षन्ति नास्ति तेषु सचेतनः ॥३५॥जन्ममृत्युजरादुःखमनुयान्ति पुनःपुनः ।विमृशन्ति न संसारं पशवः परिमोहिताः ॥३६॥कथंचित्क्वचिदेवैको दृश्यते विमलाशयः ।पूर्वापरविचारार्हो यथायमरिमर्दनः ॥३७॥अनुत्तमचमत्कारफलाः सुभगमूर्तयः ।भव्या हि विरला लोके सहकारद्रुमा इव ॥३८॥सम्यग्दृष्टजगद्यात्रा स्वविवेकचमत्कृतिः ।अस्मिन्मान्यमतावन्तरियमद्येव दृश्यते ॥३९॥सुभगाः सुलभारोहाः फलपल्लवशालिनः ।जायन्ते तरवो देशे न तु चन्दनपादपाः ॥४०॥वृक्षाः प्रतिवनं सन्ति नित्यं सफलपल्लवाः ।नत्वपूर्वचमत्कारो लवङ्गः सुलभः सदा ॥४१॥ज्योत्स्नेव शीता शशिनः सुतरोरिव मञ्जरी ।पुष्पादामोदलेखेव दृष्टा रामाच्चमत्कृतिः ॥४२॥अस्मिन्नुद्दामदौरात्म्यदैवनिर्माणनिर्मिते ।द्विजेन्द्रा दग्धसंसारे सारो ह्यत्यन्तदुर्लभः ॥४३॥यतन्ते सारसंप्राप्तौ ये यशोनिधयो धियः ।धन्या धुरि सतां गण्यास्त एव पुरुषोत्तमाः ॥४४॥न रामेण समोऽस्तीह दृष्टो लोकेषु कश्चन ।विवेकवानुदारात्मा न भावी चेति नो मतिः ॥४५॥सकललोकचमत्कृतिकारिणो-ऽप्यभिमतं यदि राघवचेतसः ।फलति नो तदिमे वयमेव हिस्फुटतरं मुनयो हतबुद्धयः ॥४६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे नभश्चरमहीचरसंमेलनं नाम त्रयस्त्रिंशः सर्गः ॥३३॥ N/A References : N/A Last Updated : July 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP