संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|वैराग्यप्रकरणम्| सर्गः १८ वैराग्यप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ वैराग्यप्रकरणम् - सर्गः १८ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १८ Translation - भाषांतर श्रीराम उवाच । आर्द्रान्त्रतन्त्रीगहनो विकारी परिपातवान् ।देहः स्फुरति संसारे सोऽपि दुःखाय केवलम् ॥१॥अज्ञोऽपि तज्ज्ञसदृशो वलितात्मचमत्कृतिः ।युक्त्या भव्योऽप्यभव्योऽपि न जडो नापि चेतनः॥२॥जडाजडदृशोर्मध्ये दोलायितदुराशयः ।अविवेकी विमूढात्मा मोहमेव प्रयच्छति ॥३॥स्तोकेनानन्दमायाति स्तोकेनायाति खेदिताम् ।नास्ति देहसमः शोच्यो नीचो गुणबहिष्कृतः ॥४॥आगमापायिना नित्यं दन्तकेसरशालिना ।विकासस्मितपुष्पेण प्रतिक्षणमलंकृतः ॥५॥भुजशाखो घनस्कन्धो द्विजस्तम्भशुभस्थितिः ।लोचनालिविलाक्रान्तः शिरःपीठबृहत्फलः ॥६॥श्रवदन्तरसग्रस्तो हस्तपादसुपल्लवः ।गुल्मवान्कार्यसंघातो विहङ्गमकृतास्पदः ॥७॥सच्छायो देहवृक्षोऽयं जीवपान्थगणास्पदः ।कस्यात्मीयः कस्य पर आस्थानास्थे किलात्र के ॥८॥तात संतरणार्थेन गृहीतायां पुनःपुनः ।नावि देहलतायां च कस्य स्यादात्मभावना ॥९॥देहनाम्नि वने शून्ये बहुगर्तसमाकुले ।तनूरुहासंख्यतरौ विश्वासं कोऽधिगच्छति ॥१०॥मांसस्नाय्वस्थिवलिते शरीरपटहेऽदृढे ।मार्जारवदहं तात तिष्ठाम्यत्र गतध्वनौ ॥११॥संसारारण्यसंरूढो विलसच्चित्तमर्कटः ।चिन्तामञ्जरिताकारो दीर्घदुःखघुणक्षतः ॥१२॥तृष्णाभुजङ्गमीगेहं कोप काक कृतालयः ।स्मितपुण्योद्गमः श्रीमाञ्छुभाशुभमहाफलः ॥१३॥सुस्कन्धोघलताजालो हस्तस्तबकसुन्दरः ।पवनस्पन्दिताशेषस्वाङ्गावयवपल्लवः ॥१४॥सर्वेन्द्रियखगाधारः सुजानुस्तम्भ उन्नतः ।सरसच्छायया युक्तः कामपान्थनिषेवितः ॥१५॥मूर्धसंजनिताऽऽदीर्घशिरोरुहतृणावलिः ।अहंकारगृध्रकृतकुलायः सुषिरोदरः ॥१६॥विच्छिन्नवासनाजालमूलत्वाद्दुर्लवाकृतिः ।व्यायामविरसः कायप्लक्षोऽयं न सुखाय मे ॥१७॥कलेवरमहंकारगृहस्थस्य महागृहम् ।लुठत्वभ्येतु वा स्थैर्यं किमनेन मुने मम ॥१८॥पङ्क्तिबद्धेन्द्रियपशुं वलत्तृष्णागृहाङ्गनम् ।रागरञ्जितसर्वाङ्गं नेष्टं देहगृहं मम ॥१९॥पृष्ठास्थिकाष्ठसंघट्टपरिसंकटकोटरम् ।आन्त्ररज्जुभिराबद्धं नेष्टं देहगृहं मम ॥२०प्रसृतस्नायुतन्त्रीकं रक्ताम्बुकृतकर्दमम् ।जरामङ्कोलधवलं नेष्टं देहगृहं मम ॥२१॥चित्तभृत्यकृतानन्तचेष्टावष्टब्धसंस्थिति ।मिथ्यामोहमहास्थूणं नेष्टं देहगृहं मम ॥२२॥दुःखार्भककृताक्रन्दं सुखशय्यामनोरमम् ।दुरीहादग्धदासीकं नेष्टं देहगृहं मम ॥२३॥मलाढ्यविषयव्यूहभाण्डोपस्करसंकटम् ।अज्ञानक्षारवलितं नेष्टं देहगृहं मम ॥२४॥गुल्फगुग्गुलुविश्रान्तजानूर्ध्वस्तम्भमस्तकम् ।दीर्घदोर्दारुसुदृढं नेष्टं देहगृहं मम ॥२५॥प्रकटाक्षगवाक्षान्तः क्रीडत्प्रज्ञागृहाङ्गनम् ।चिन्तादुहितृकं ब्रह्मन्नेष्टं देहगृहं मम ॥२६॥मूर्धजाच्छादनच्छन्नकर्णश्रीचन्द्रशालिकम् ।आदीर्घाङ्गुलिनिर्व्यूहं नेष्टं देहगृहं मम ॥२७॥सर्वाङ्गकुड्यसंघातघनरोमयवाङ्कुरम् ।संशून्यपेटविवरं नेष्टं देहगृहं मम ॥२८॥नखोर्णनाभिनिलयं सरमारणितान्तरम् ।भाङ्कारकारिपवनं नेष्टं देहगृहं मम ॥२९॥प्रवेशनिर्गमव्यग्रवातवेगमनारतम् ।वितताक्षगवाक्षं तन्नेष्टं देहगृहं मम ॥३०॥जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् ।दृष्टदन्तास्थिशकलं नेष्टं देहगृह मम ॥३१॥त्वक्सुधालेपमसृणं यन्त्रसंचारचञ्चलम् ।मनः सदाखुनोत्खातं नेष्टं देहगृहं मम ॥३२॥ आखुस्मितदीपप्रभोद्भासि क्षणमानन्दसुन्दरम् ।क्षणं व्याप्तं तमःपूरैर्नेष्टं देहगृहं मम ॥३३॥समस्तरोगायतनं वलीपलितपत्तनम् ।सर्वाधिसारगहनं नेष्टं देहगृहं मम ॥३४॥अक्षर्क्षक्षोभविषमा शून्या निःसारकोटरा ।तमोगहनदिक्कुञ्जा नेष्टा देहाटवी मम ॥३५॥देहालयं धारयितुं न शक्नोमि मुनीश्वर ।पङ्कमग्नं समुद्धर्तुं गजमल्पबलो यथा ॥३६॥किं श्रिया किं च राज्येन किं कायेन किमीहितैः ।दिनैः कतिपयैरेव कालः सर्वं निकृन्तति ॥३७॥रक्तमांसमयस्यास्य सबाह्याभ्यन्तरं मुने ।नाशैकधर्मिणो ब्रूहि कैव कायस्य रम्यता ॥३८॥मरणावसरे काया जीवं नानुसरन्ति ये ।तेषु तात कृतघ्नेषु कैवास्था वद धीमताम् ॥३९॥मत्तेभकर्णाग्रचलः कायो लम्बाम्बुभङ्गुरः ।न संत्यजति मां यावत्तावदेनं त्यजाम्यहम् ॥४०॥पवनस्पन्दतरलः पेलवः कायपल्लवः ।जर्जरस्तनुवृत्तश्च नेष्टो मे कटुनीरसः ॥४१॥भुक्त्वा पीत्वा चिरं कालं बालपल्लवपेलवाम् ।तनुतामेत्य यत्नेन विनाशमनुधावति ॥४२॥तान्येव सुखदुःखानि भावाभावमयान्यसौ ।भूयोऽप्यनुभवन्कायः प्राकृतो हि न लज्जते ॥४३॥सुचिरं प्रभुतां कृत्वा संसेव्य विभवश्रियम् ।नोच्छ्रायमेति न स्थैर्यं कायः किमिति पाल्यते ॥४४॥जराकाले जरामेति मृत्युकाले तथा मृतिम् ।सम एवाविशेषज्ञः कायो भोगिदरिद्रयोः ॥४५॥संसाराम्भोधिजठरे तृष्णाकुहरकान्तरे ।सुप्तस्तिष्ठति मुक्तेहो मूकोऽयं कायकच्छपः ॥४६॥दहनैकार्थयोग्यानि कायकाष्ठानि भूरिशः ।संसाराब्धाविहोह्यन्ते कंचित्तेषु नरं विदुः ॥४७॥दीर्घदौरात्म्यवलया निपातफलपातया ।न देहलतया कार्यं किंचिदस्ति विवेकिनः ॥४८॥मज्जन्कर्दमकोशेषु झटित्येव जरां गतः ।न ज्ञायते यात्यचिरात्कः कथं देहदर्दुरः ॥४९॥निःसारसकलारम्भाः कायाश्चपलवायवः ।रजोमार्गेण गच्छन्तो दृश्यन्ते नेह केनचित् ॥५०॥वायोर्दीपस्य मनसो गच्छतो ज्ञायते गतिः ।आगच्छतश्च भगवञ्छरीरस्य कदाचन ॥५१॥बद्धास्था ये शरीरेषु बद्धास्था ये जगत्स्थितौ ।तान्मोहमदिरोन्मत्तान्धिग्धिगस्तु पुनःपुनः ॥५२॥नाहं देहस्य नो देहो मम नायमहं तथा ।इति विश्रान्तचित्ता ये ते मुने पुरुषोत्तमाः ॥५३॥मानावमानबहुला बहुलाभमनोरमाः ।शरीरमात्रबद्धास्थं घ्नन्ति दोषदृशो नरम् ॥५४॥शरीरश्वभ्रशायिन्या पिशाच्या पेशलाङ्गया ।अहंकारचमत्कृत्या छलेन छलिता वयम् ॥५५॥प्रज्ञा वराका सर्वैव कायबद्धास्थयानया ।मिथ्याज्ञानकुराक्षस्या छलिता कष्टमेकिका ॥५६॥न किंचिदपि दृश्येऽस्मिन्सत्यं तेन हतात्मना ।चित्रं दग्धशरीरेण जनता विप्रलभ्यते ॥५७॥दिनैः कतिपयैरेव निर्झराम्बुकणो यथा ।पतत्ययमयत्नेन जरठः कायपल्लवः ॥५८॥कायोऽयमचिरापायो बुद्बुदोऽम्बुनिधाविव ।व्यर्थं कार्यपरावर्ते परिस्फुरति निष्फलः ॥५९॥मिथ्याज्ञानविकारेऽस्मिन्स्वप्नसंभ्रमपत्तने ।काये स्फुटतरापाये क्षणमास्था न मे द्विज ॥६०॥तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च ।स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे ॥६१॥सततभङ्गुरकार्यपरम्पराविजयिजातजयं हठवृत्तिषु ।प्रबलदोषमिदं तु कलेवरंतृणमिवाहमपोह्य सुखं स्थितः ॥६२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे कायजुगुप्सानामाष्टादशः सर्गः ॥१८॥ N/A References : N/A Last Updated : July 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP