संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|वैराग्यप्रकरणम्| सर्गः ३ वैराग्यप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ वैराग्यप्रकरणम् - सर्गः ३ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ३ Translation - भाषांतर भरद्वाज उवाच ।जीवन्मुक्तस्थितिं व्रह्मन्कृत्वा राघवमादितः ।क्रमात्कथय मे नित्यं भविष्यामि सुखी यथा ॥१॥श्रीवाल्मीकिरुवाच ।भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत्।अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् ॥२॥दृश्यात्यन्ताभावबोधं विना तन्नानुभूयते ।कदाचित्केनचिन्नाम स्वबोधोऽन्विष्यतामतः ॥३॥स चेह संभवत्येव तदर्थमिदमाततम् ।शास्त्रमाकर्णयसि चेत्तत्त्वमाप्स्यसि नान्यथा ॥४॥जगद्भ्रमोऽयं दृश्योऽपि नास्त्येवेत्यनुभूयते ।वर्णो व्योम्न इवाखेदाद्विचारेणामुनाऽनघ ॥५॥दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् ।संपन्नं चेत्तदुत्पन्ना परा निर्वाणनिर्वृतिः ॥६॥अन्यथा शास्त्रगर्तेषु लुठतां भवतामिह ।भवत्यकृत्रिमाज्ञानां कल्पैरपि न निर्वृतिः ॥७॥अशेषेण परित्यागो वासनानां य उत्तमः ।मोक्षं इत्युच्यते ब्रह्मन्स एव विमलक्रमः ॥८॥क्षीणायां वासनायां तु चेतो गलति सत्वरम् ।क्षीणायां शीतसंतत्यां ब्रह्मन्हिमकणो यथा ॥९॥अयं वासनया देहो ध्रियते भूतपञ्जरः ।तनुनान्तर्निविष्टेन मुक्तौघस्तन्तुना यथा ॥१०॥वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा ।मलिना जन्मनो हेतुः शुद्धा जन्मविनाशिनी ॥११॥अज्ञानसुघनाकारा घनाहंकारशालिनी।पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ॥१२॥पुनर्जन्माङ्कुरं त्यक्त्वा स्थिता संभृष्टबीजवत्।देहार्थं ध्रियते ज्ञातज्ञेया शुद्धेति चोच्यते ॥१३॥अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु ।वासना विद्यते शुद्धा देहे चक्र इव भ्रमः ॥१४॥ये शुद्धवासना भूयो न जन्मानर्थभाजनम् ।ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ॥१५॥जीवन्मुक्तिपदं प्राप्तो यथा रामो महामतिः ।तत्तेऽहं शृणु वक्ष्याभि जरामरणशान्तये ॥१६॥भरद्वाज महाबुद्धे रामक्रममिमं शुभम् ।शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वदा ॥१७॥विद्यागृहाद्विनिष्क्रम्य रामो राजीवलोचनः ।दिवसान्यनयद्गेहे लीलाभिरकुतोभयः ॥१८॥अथ गच्छति काले तु. पालयत्यवनिं नृपे ।प्रजासु वीतशोकासु स्थितासु विगतज्वरम् ॥१९॥तीर्थपुण्याश्रमश्रेणीर्द्रष्टुमुत्कण्ठितं मनः ।रामस्याभूद्भृशं तत्र कदाचिद्गुणशालिनः ॥२०॥राघवश्चिन्तयित्वैवमुपेत्य चरणौ पितुः ।हंसः पद्माविव नवौ जग्राह नखकेसरौ ॥२१॥श्रीराम उवाच ।तीर्थानि देवसद्मानि वनान्यायतनानि च ।द्रष्टुमुत्कण्ठितं तात ममेदं नाथ मानसम् ॥२२॥तदेतामर्थितां पूर्वां सफलां कर्तुमर्हसि ।न सोऽस्ति भुवने नाथ त्वया योऽर्थी न मानितः ॥२३॥इति संप्रार्थितो राजा वसिष्ठेन समं तदा ।विचार्यामुञ्चदेवैनं रामं प्रथममर्थिनम् ॥२४॥शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः ।मङ्गलालंकृतवपुः कृतस्वस्त्ययनो द्विजैः ॥२५॥वसिष्ठप्रहितैर्विप्रैः शास्त्रज्ञैश्च समन्वितः ।स्निग्धैः कतिपयैरेव राजपुत्रवरैः सह ॥२६॥अम्बाभिर्विहिताशीभिरालिङ्ग्यालिङ्ग्य भूषितः ।निरगात्स्वगृहात्तस्मात्तीर्थयात्रार्थमुद्यतः ॥२७॥निर्गतः स्वपुरात्पौरैस्तूर्यघोषेण वादितः ।पीयमानः पुरस्त्रीणां नेत्रैर्भृङ्गौघभङ्गुरैः ॥२८॥ग्रामीणललनालोलहस्तपद्मापनोदितैः ।लाजवर्षैर्विकीर्णात्मा हिमैरिव हिमाचलः ॥२९॥आवर्जयन्विप्रगणान्परिशृण्वन्प्रजाशिषः ।आलोकयन्दिगन्तांश्च परिचक्राम जाङ्गलान् ॥३०॥अथारभ्य स्वकात्तस्मात्क्रमात्कोशलमण्डलात् ।स्नानदानतपोध्यानपूर्वकं स ददर्श ह ॥३१॥नदीतीराणि पुण्यानि वनान्यायतनानि च ।जङ्गलानि जनान्तेषु तटान्यब्धिमहीभृताम् ॥३२॥मन्दाकिनीमिन्दुनिभां कालिन्दीं चोत्पलामलाम् ।सरस्वतीं शतद्रूं च चन्द्रभागामिरावतीम् ॥३३॥वेणीं च कृष्णवेणीं च निर्विन्ध्यां सरयूं तथा ।चर्मण्वतीं वितस्तां च विपाशां बाहुदामपि ॥३४॥प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा॥वाराणसीं श्रीगिरिं च केदारं पुष्करं तथा ॥३५॥मानसं च क्रमसरस्तथैवोत्तरमानसम्।वडवावदनं चैव तीर्थवृन्दं स सादरम् ॥३६॥अग्नितीर्थं महातीर्थमिन्द्रद्युम्नसरस्तथा॥सरांसि सरितश्चैव तथा नदह्रदावलीम् ॥३७॥स्वामिनं कार्तिकेयं च शालग्रामं हरिं तथा ।स्थानानि च चतुःषष्टिं हरेरथ हरस्य च ॥३८॥नानाश्चर्यविचित्राणि चतुरब्धितटानि च ।विन्ध्यमन्दरकुञ्जांश्च कुलशैलस्थलानि च ॥३९॥राजर्षीणां च महतां ब्रह्मर्षीणां तथैव च ।देवानां ब्राह्मणानां चे पावनानाश्रमाञ्छुभान् ॥४०॥भूयोभूयः स बभ्राम भ्रातृभ्यां सह मानदः।चतुर्ष्वपि दिगन्तेषु सर्वानेव महीतटान् ॥४१॥अमरकिन्नरमानवमानितःसमवलोक्य महीमखिलामिमाम् ।उपययौ स्वगृहं रघुनन्दनोविहृतदिक् शिवलोकमिवेश्वरः ॥४४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे तीर्थयात्राकरणं नाम तृतीयः सर्गः ॥३॥ N/A References : N/A Last Updated : July 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP