संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|वैराग्यप्रकरणम्| सर्गः १० वैराग्यप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ वैराग्यप्रकरणम् - सर्गः १० योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १० Translation - भाषांतर वाल्मीकिरुवाच ।तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् ।संप्रहृष्टमना राममाजुहाव सलक्ष्मणम् ॥१॥दशरथ उवाच ।प्रतिहार महाबाहुं रामं सत्यपराक्रमम् ।सलक्ष्मणमविघ्नेन पुण्यार्थं शीघ्रमानय ॥२॥इति राज्ञा विसृष्टोऽसौ गत्वान्तःपुरमन्दिरम् ।मुहूर्तमात्रेणागत्य समुवाच महीपतिम् ॥३॥देव दोर्दलिताशेषरिपो रामः स्वमन्दिरे ।विमनाः संस्थितो रात्रौ षट्पदः कमले यथा ॥४॥आगच्छामि क्षणेनेति वक्ति ध्यायति चैकतः ।न कस्यचिच्च निकटे स्थातुमिच्छति खिन्नधीः ॥५॥इत्युक्तस्तेन भूपालस्तं रामानुचरं जनम् ।सर्वमाश्वासयामास पप्रच्छ च यथाक्रमम् ॥६॥कथं कीदृग्विधो राम इति पृष्टो महीभृता ।रामभृत्यजनः खिन्नो वाक्यमाह महीपतिम् ॥७॥देहयष्टिमिमां देव धारयन्त इमे वयम् ।खिन्नाः खेदे परिम्लानतनौ रामे सुते तव ॥८॥रामो राजीवपत्राक्षो यतःप्रभृति चागतः ।सविप्रस्तीर्थयात्रायास्ततःप्रभृति दुर्मनाः ॥९॥यत्नप्रार्थनयास्माकं निजव्यापारमाह्निकम् ।सोऽयमाम्लानवदनः करोति न करोति वा ॥१०॥स्नानदेवार्चनादानभोजनादिषु दुर्मनाः ।प्रार्थितोऽपि हि नातृप्तेरश्नात्यशनमीश्वरः ॥११॥लोलान्तःपुरनारीभिः कृतदोलाभिरङ्गणे ।नच क्रीडति लीलाभिर्धाराभिरिव चातकः ॥१२॥माणिक्यमुकुलप्रोता केयूरकटकावलिः ।नानन्दयति तं राजन्द्यौः पातविषयं यथा ॥१३॥क्रीडद्वधूविलोकेषु वहत्कुसुमवायुषु ।लतावलयगेहेषु भवत्यतिविषादवान् ॥१४॥यद्द्रव्यमुचितं स्वादु पेशलं चित्तहारि च ।बाष्पपूर्णेक्षण इव तेनैव परिखिद्यते ॥१५॥किमिमा दुःखदायिन्यः प्रस्फुरन्तीः पुराङ्गनाः ।इति नृत्तविलासेषु कामिनीः परिनिन्दति ॥१६॥भोजनं शयनं यानं विलासं स्नानमासनम् ।उन्मत्तचेष्टित इव नाभिनन्दत्यनिन्दितम् ॥१७॥किं संपदा किं विपदा किं गेहेन किमिङ्गितैः ।सर्वमेवासदित्युक्त्वा तूष्णीमेकोऽवतिष्ठते ॥१८॥नोदेति परिहासेषु न भोगेषु निमज्जति ।न च तिष्ठति कार्येषु मौनमेवावलम्बते ॥१९॥विलोलालकवल्लर्यो हेलावलितलोचनाः ।नानन्दयन्ति तं नार्यो मृग्यो वनतरुं यथा ॥२०॥एकान्तेषु दिगन्तेषु तीरेषु विपिनेषु च ।रतिमायात्यरण्येषु विक्रीत इव जन्तुषु ॥२१॥वस्त्रपानाशनादानपराङ्मुखतया तया ।परिव्राड्धर्मिणं भूय सोऽनुयाति तपस्विनम् ॥२२॥एक एव वसन्देशे जनशून्ये जनेश्वर ।न हसत्येकया बुद्ध्या न गायति न रोदिति ॥२३॥बद्धपद्मासनः शून्यमना वामकरस्थले ।कपोलतलमाधाय केवलं परितिष्ठति ॥२४॥नाभिमानमुपादत्ते न च वाञ्छति राजताम् ।नोदेति नास्तमायाति सुखदुःखानुवृत्तिषु ॥२५॥न विद्मः किमसौ याति किं करोति किमीहते ।किं ध्यायति किमायाति कथं किमनुधावति ॥२६॥प्रत्यहं कृशतामेति प्रत्यहं याति पाण्डुताम्।विरागं प्रत्यहं याति शरदन्त इव द्रुमः ॥२७॥अनुयातौ तथैवैतौ राजञ्छत्रुघ्नलक्ष्मणौ ।तादृशावेव तस्यैव प्रतिबिम्बाविव स्थितौ ॥२८॥भृत्यै राजभिरम्बाभिः संपृष्टोऽपि पुनः पुनः ।उक्त्वा न किंचिदेवेति तूष्णीमास्ते निरीहितः ॥२९॥आपातमात्रहृद्येषु मा भोगेषु मनः कृथाः ।इति पार्श्वगतं भव्यमनुशास्ति सुहृज्जनम् ॥३०॥नानाविभवरम्यासु स्त्रीषु गोष्ठीगतासु च ।पुरस्थितमिवास्नेहो नाशमेवानुपश्यति ॥३१॥नीतमायुरनायासपदप्राप्तिविवर्जितैः ।चेष्टितैरिति काकल्या भूयोभूयः प्रगायति ॥३२॥सम्राड्भवेति पार्श्वस्थं वदन्तमनुजीविनम् ।प्रलपन्तमिवोन्मत्तं हसत्यन्यमना मुनिः ॥३३॥न प्रोक्तमाकर्णयति ईक्षते न पुरोगतम् ।करोत्यवज्ञां सर्वत्र सुसमेत्यापि वस्तुनि ॥३४॥अप्याकाशसरोजिन्या अप्याकाशमहावने ।इत्थमेतन्मन इति विस्मयोऽस्य न जायते ॥३५॥कान्तामध्यगतस्यापि मनोऽस्य मदनेषवः ।न भेदयन्ति दुर्भेद्यं धारा इव महोपलम् ॥३६॥आपदामेकमावासमभिवाञ्छसि किं धनम् ।अनुशिष्येति सर्वस्वमर्थिने संप्रयच्छति ॥३७॥इयमापदियं संपदित्येवं कल्पनामयः ।मनसोऽभ्युदितो मोह इति श्लोकान्प्रगायति ॥३८॥हा हतोऽहमनाथोऽहमित्याक्रन्दपरोऽपि सन् ।न जनो याति वैराग्यं चित्रमित्येव वक्त्यसौ ॥३९॥रघुकाननशालेन रामेण रिपुघातिना ।भृशमित्थं स्थितेनैव वयं खेदमुपागताः ॥४०॥न विद्मः किं महाबाहो तस्य तादृशचेतसः ।कुर्मः कमलपत्राक्ष गतिरत्र हि नो भवान् ॥४१॥राजानमथवा विप्रमुपदेष्टारमग्रतः ।हसत्यज्ञमिवाव्यग्रः सोऽवधीरयति प्रभो ॥४२॥यदेवेदमिदं स्फारं जगन्नाम यदुत्थितम् ।नैतद्वस्तु नचैवाहमिति निर्णीय संस्थितः ॥४३॥नारौ नात्मनि नो मित्रे न राज्ये न च मातरि ।न संपदा न विपदा तस्यास्था न विभो बहिः ॥४४॥निरस्तास्थो निराशोऽसौ निरीहोऽसौ निरास्पदः ।न मूढो न च मुक्तोऽसौ तेन तप्यामहे भृशम् ॥४५॥किं धनेन किमम्बाभिः किं राज्येन किमीहया ।इति निश्चयवानन्तः प्राणत्यागपरः स्थितः ॥४६॥भोगेऽप्यायुषि राज्येषु मित्रे पितरि मातरि ।परमुद्वेगमायातश्चातकोऽवग्रहे यथा ॥४७॥इति तोके समायातां शाखाप्रसरशालिनीम् ।आपत्तामलमुद्धर्तुं समुदेतु दयापरः ॥४८॥तस्य तादृक्स्वभावस्य समग्रविभवान्वितम् ।संसारजालमाभोगि प्रभो प्रतिविषायते ॥४९॥ईदृशः स्यान्महासत्त्वः क इवास्मिन्महीतले ।प्रकृते व्यवहारे तं यो निवेशयितुं क्षमः ॥५०॥मनसि मोहमपास्य महामनाःसकलमार्तितमः किल साधुताम् ।सफलतां नयतीह तमो हरन्दिनकरो भुवि भास्करतामिव ॥५१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे राघवविषादो नाम दशमः सर्गः ॥१०॥ N/A References : N/A Last Updated : July 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP