वैराग्यप्रकरणम् - सर्गः २२
योगवासिष्ठः
श्रीराम उवाच ।
अपर्याप्तं हि बालत्वं बलात्पिबति यौवनम् ।
यौवनं च जरा पश्चात्पश्य कर्कशतां मिथः ॥१॥
हिमाशनिरिवाम्भोजं वात्येव शरदम्बुकम् ।
देहं जरा नाशयति नदी तीरतरुं यथा ॥२॥
जर्जरीकृतसर्वाङ्गी जरा जरठरूपिणी ।
विरूपतां नयत्याशु देहं विषलवो यथा ॥३॥
शिथिलादीर्णसर्वाङ्गं जराजीर्णकलेवरम् ।
समं पश्यन्ति कामिन्यः पुरुषं करभं यथा ॥४॥
अनायासकदर्थिन्या गृहीते जरसा जने ।
पलाय्य गच्छति प्रज्ञा सपत्न्येवाहताङ्गना ॥५॥
दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहृदस्तथा ।
हसन्त्युन्मत्तकमिव नरं वार्धककम्पितम् ॥६॥
दुष्प्रेक्ष्यं जरठं दीनं हीनं गुणपराक्रमैः ।
गृध्रो वृक्षमिवादीर्घं गर्धो ह्यभ्येति वृद्धकम् ॥७॥
दैन्यदोषमयी दीर्घा हृदि दाहप्रदायिनी ।
सर्वापदामेकसखी वार्धके वर्धते स्पृहा ॥८॥
कर्तव्यं किं मया कष्टं परत्रेत्यतिदारुणम् ।
अप्रतीकारयोग्यं हि वर्धते वार्धके भयम् ॥९॥
कोऽहं वराकः किमिव करोमि कथमेव च ।
तिष्ठामि मौनमेवेति दीनतोदेति वार्धके ॥१०॥
कथं कदा मे किमिव स्वादु स्याद्भोजनं जनात् ।
इत्यजस्रं जरा चैषा चेतो दहति वार्धके ॥११॥
गर्धोऽभ्युदेति सोल्लासमुपभोक्तुं न शक्यते ।
हृदयं दह्यते नूनं शक्तिदौस्थ्येन वार्धके ॥१२॥
जराजीर्णबकी यावत्कायक्लेशापकारिणी ।
रौति रोगोरगाकीर्णा कायद्रुमशिरःस्थिता ॥१३॥
तावदागत एवाशु कुतोऽपि परिदृश्यते ।
घनान्ध्यतिमिराकाङ्क्षी मुने मरणकौशिकः ॥१४॥
सायंसंध्यां प्रजातां वै तमः समनुधावति ।
जरां वपुषि दृष्ट्वैव मृतिः समनुधावति ॥१५॥
जराकुसुमितं देहद्रुमं दृष्ट्वैव दूरतः ।
अध्यापतति वेगेन मुने मरणमर्कटः ॥१६॥
शून्यं नगरमाभाति भाति च्छिन्नलतो द्रुमः ।
भात्यनावृष्टिमान्देशो न जराजर्जरं वपुः ॥१७॥
क्षणान्निगरणायैव कासक्वणितकारिणी ।
गृध्रीवामिषमादत्ते तरसैव नरं जरा ॥१८॥
दृष्ट्वैव सोत्सुकेवाशु प्रगृह्य शिरसि क्षणम् ।
प्रलुनाति जरा देहं कुमारी कैरवं यथा ॥१९॥
सीत्कारकारिणी पांसुपरुषा परिजर्जरम् ।
शरीरं शातयत्येषा वात्येव तरुपल्लवम् ॥२०॥
जरसोपहतो देहो धत्ते जर्जरतां गतः ।
तुषारनिकराकीर्णपरिम्लानाम्बुजश्रियम् ॥२१॥
जरा ज्योत्स्नोदितैवेयं शिरःशिखरिपृष्ठतः ।
विकासयति संरब्धं वातकासकुमुद्वती ॥२२॥
परिपक्वं समालोक्य जराक्षारविधूसरम् ।
शिरःकूष्माण्डकं भुङ्क्ते पुंसां कालः किलेश्वरः ॥२३॥
जराजह्नुसुतोद्युक्ता मूलान्यस्य निकृन्तति ।
शरीरतीरवृक्षस्य चलत्यायुषि सत्वरम् ॥२४॥
जरामार्जारिका भुङ्क्ते यौवनाखुं तथोद्धता ।
परमुल्लासमायाति शरीरामिषगर्धिनी ॥२५॥
काचिदस्ति जगत्यस्मिन्नामङ्गलकरी तथा ।
यथा जराक्रोशकरी देहजङ्गलजम्बुकी ॥२६॥
कासश्वासससीत्कारा दुःखधूमतमोमयी ।
जराज्वाला ज्वलत्येषा यस्यासौ दग्ध एव हि ॥२७॥
जरसा वक्रतामेति शुक्लावयवपल्लवा ।
तात तन्वी तनुर्नृणां लता पुष्पानता यथा ॥२८॥
जराकर्पूरधवलं देहकर्पूरपादपम् ।
मुने मरणमातङ्गो नूनमुद्धरति क्षणात् ॥२५॥
मरणस्य मुने राज्ञो जराधवलचामरा ।
आगच्छतोऽग्रे निर्याति स्वाधिव्याधिपताकिनी॥३०॥
न जिताः शत्रुभिः संख्ये प्रविष्टा येऽद्रिकोटरे ।
ते जराजीर्णराक्षस्या पश्याशु विजिता मुने ॥३१॥
जरातुषारवलिते शरीरसदनान्तरे ।
शक्नुवन्त्यक्षशिशवः स्पन्दितुं न मनागपि ॥३२॥
दण्डतृतीयपादेन प्रस्खलन्ती मुहुर्मुहुः ।
कासाधोवायुमुरजा जरा योषित्प्रनृत्यति ॥३३॥
संसारसंसृतेरस्या गन्धकुट्यां शिरोगता ।
देहयष्ट्यां जरानाम्नी चामरश्रीर्विराजते ॥३४॥
जराचन्द्रोदयसिते शरीरनगरे स्थिते ।
क्षणाद्विकासमायाति मुने मरणकैरवम् ॥३५॥
जरासुधालेपसिते शरीरान्तःपुरान्तरे ।
अशक्तिरार्तिरापच्च तिष्ठन्ति सुखमङ्गनाः ॥३६॥
अभावोऽग्रेसरी यत्र जरा जयति जन्तुषु ।
कस्तत्रेह समाश्वासो मम मन्दमतेर्मुने ॥३७॥
किं तेन दुर्जीवितदुर्ग्रहेण
जरागतेनापि हि जीव्यते यत् ।
जराजगत्यामजिता जनानां
सर्वैषणास्तात तिरस्करोति ॥३८॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे जराजुगुप्सा नाम द्वाविंशतितमः सर्गः ॥२२॥
N/A
References : N/A
Last Updated : July 12, 2021
TOP