संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|वैराग्यप्रकरणम्| सर्गः २९ वैराग्यप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ वैराग्यप्रकरणम् - सर्गः २९ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः २९ Translation - भाषांतर श्रीराम उवाच ।इति मे दोषदावाग्निदग्धे महति चेतसि ।प्रस्फुरन्ति न भोगाशा मृगतृष्णाः सरःस्विव ॥१॥प्रत्यहं याति कटुतामेषा संसारसंस्थितिः ।कालपाकवशाल्लोला रसा निम्बलता यथा ॥२॥वृद्धिमायाति दौर्जन्यं सौजन्यं याति तानवम् ।करञ्जकर्कशे राजन्प्रत्यहं जनचेतसि ॥३॥भज्यते भुवि मर्यादा झटित्येव दिनं प्रति ।शुष्केव माषशिम्बीका टङ्कारकरवं विना ॥४॥राज्येभ्यो भोगपूगेभ्यश्चिन्तावद्भ्यो मुनीश्वर ।निरस्तचिन्ताकलिता वरमेकान्तशीलता ॥५॥नानन्दाय ममोद्यानं न सुखाय मम स्त्रियः ।न हर्षाय ममार्थाशा शाम्यामि मनसा सह ॥६॥अनित्यश्चासुखो लोकस्तृष्णा तात दुरुद्वहा ।चापलोपहतं चेतः कथं यास्यामि निर्वृतिम् ॥७॥नाभिनन्दामि मरणं नाभिनन्दामि जीवितम् ।यथा तिष्ठामि तिष्ठामि तथैव विगतज्वरम् ॥८॥किं मे राज्येन किं भोगैः किमर्थेन किमीहितैः ।अहंकारवशादेतत्स एव गलितो मम ॥९॥जन्मावलिवरत्रायामिन्द्रियग्रन्थयो दृढाः ।ये बद्धास्तद्विमोक्षार्थं यतन्ते ये त उत्तमाः ॥१०॥मथितं मानिनीलोकैर्मनो मकरकेतुना ।कोमलं खुरनिष्पेषैः कमलं करिणा यथा ॥११॥अद्य चेत्स्वच्छया बुद्ध्या मुनीन्द्र न चिकित्स्यते ।भूयश्चित्तचिकित्सायास्तत्किलावसरः कुतः ॥१२॥विषं विषयवैषम्यं न विषं विषमुच्यते ।जन्मान्तरघ्ना विषया एकदेहहरं विषम् ॥१३॥न सुखानि न दुःखानि न मित्राणि न बान्धवाः ।न जीवितं न मरणं बन्धाय ज्ञस्य चेतसः ॥१४॥तद्भवामि यथा ब्रह्मन्पूर्वापरविदां वर ।वीतशोकभयायासो ज्ञस्तथोपदिशाशु मे ॥१५॥वासनाजालवलिता दुःखकण्टकसंकुला ।निपातोत्पातबहुला भीमरूपाऽज्ञताटवी ॥१६॥क्रकचाग्रविनिष्पेषं सोढुं शक्नोम्यहं मुने ।संसारव्यवहारोत्थं नाशाविषयवैशसम् ॥१७॥इदं नास्तीदमस्तीति व्यवहाराञ्जनभ्रमः ।धुनोतीदं चलं चेतो रजोराशिमिवानिलः ॥१८॥तृष्णातन्तुलवप्रोतं जीवसंचयमौक्तिकम् ।चिदच्छाङ्गतया नित्यं विकसच्चित्तनायकम् ॥१९॥संसारहारमरतिः कालव्यालविभूषणम् ।त्रोटयाम्यहमक्रूरं वागुरामिव केसरी ॥२०॥नीहारं हृदयाटव्यां मनस्तिमिरमाशु मे ।केन विज्ञानदीपेन भिन्धि तत्त्वविदांवर ॥२१॥विद्यन्त एवेह न ते महात्मन्दुराधयो न क्षयमाप्नुवन्ति ।ये सङ्गमेनोत्तममानसानांनिशातमांसीव निशाकरेण ॥२२॥आयुर्वायुविघट्टिताभ्रपटलीलम्बाम्बुवद्भङ्गुरंभोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः ।लोलायौवनलालनाजलरयश्चेत्याकलय्य द्रुतंमुद्रैवाद्य दृढार्पिता ननु मया चित्ते चिरं शान्तये ॥२३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे सकलपदार्थानास्थाप्रतिपादनं नामैकोनत्रिशः सर्गः ॥२९॥ N/A References : N/A Last Updated : July 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP