संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|वैराग्यप्रकरणम्| सर्गः १२ वैराग्यप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ वैराग्यप्रकरणम् - सर्गः १२ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १२ Translation - भाषांतर वाल्मीकिरुवाच ।इति पृष्टो मुनीन्द्रेण समाश्वस्य च राघवः ।उवाच वचनं चारु परिपूर्णार्थमन्थरम् ॥१॥श्रीराम उवाच ।भगवन्भवता पृष्टो यथावदधुनाऽखिलम् ।कथयाम्यहमज्ञोऽपि को लङ्घयति सद्वचः ॥२॥अहं तावदयं जातो निजेऽस्मिन्पितृसद्मनि ।क्रमेण वृद्धिं संप्राप्तः प्राप्तविद्यश्च संस्थितः ॥३॥ततः सदाचारपरो भूत्वाहं मुनिनायक ।विहृतस्तीर्थयात्रार्थमुर्वीमम्बुधिमेखलाम् ॥४॥एतावताथ कालेन संसारास्थामिमां हरन् ।समुद्भूतो मनसि मे विचारः सोऽयमीदृशः ॥५॥विवेकेन परीतात्मा तेनाहं तदनु स्वयम् ।भोगनीरसया बुद्ध्या प्रविचारितवानिदम् ॥६॥किंनामेदं बत सुखं येयं संसारसंततिः ।जायते मृतये लोको म्रियते जननाय च ॥७॥अस्थिराः सर्व एवेमे सचराचरचेष्टिताः ।आपदां पतयः पापा भावा विभवभूमयः ॥८॥अयःशलाकासदृशाः परस्परमसङ्गिनः ।श्लिष्यन्ते केवलं भावा मनःकल्पनया स्वया ॥९॥मनःसमायत्तमिदं जगदाभोगि दृश्यते ।मनश्चासदिवाभाति केन स्म परिमोहिताः ॥१०॥असतैव वयं कष्टं विकृष्टा मूढबुद्धयः ।मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव ॥११॥न केनचिच्च विक्रीता विक्रीता इव संस्थिताः ।बत मूढा वयं सर्वे जानाना अपि शाम्बरम् ॥१२॥किमेतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः ।मुधैव हि वयं मोहात्संस्थिता बद्धभावनाः ॥१३॥आ ज्ञातं बहुकालेन व्यर्थमेव वयं वने ।मोहे निपतिता मुग्धाः श्वभ्रे मुग्धा मृगा इव ॥१४॥किं मे राज्येन किं भोगैः कोऽहं किमिदमागतम् ।यन्मिथ्यैवास्तु तन्मिथ्या कस्य नाम किमागतम् ॥१५॥एवं विमृशतो ब्रह्मन्सर्वेष्वेव ततो मम ।भावेष्वरतिरायाता पथिकस्य मरुष्विव ॥१६॥तदेतद्भगवन्ब्रूहि किमिदं परिणश्यति ।किमिदं जायते भूयः किमिदं परिवर्धते ॥१७॥जरामरणमापच्च जननं संपदस्तथा ।आविर्भावतिरोभावैर्विवर्धन्ते पुनःपुनः ॥१८॥भोगैस्तैरेव तैरेव तुच्छैर्वयममी किल ।पश्य जर्जरतां नीता वातैरिव गिरिद्रुमाः ॥१९॥अचेतना इव जनाः पवनैः प्राणनामभिः ।ध्वनन्तः संस्थिता व्यर्थं यथा कीचकवेणवः ॥२०॥शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चिन्तया ।जरद्द्रुम इवोग्रेण कोटरस्थेन वह्निना ॥२१॥संसारदुःखपाषाणनीरन्ध्रहृदयोऽप्यहम् ।निजलोकभयादेव गलद्वाष्पं न रोदिमि ॥२२॥शून्या मन्मुखवृत्तीस्ताः शुष्करोदननीरसाः ।विवेक एव हृत्संस्थो ममैकान्तेषु पश्यति ॥२३॥भृशं मुह्यामि संस्मृत्य भावाभावमयीं स्थितिम् ।दारिद्र्येणेव सुभगो दूरे संसारचेष्टया ॥२४॥मोहयन्ति मनोवृत्तिं खण्डयन्ति गुणावलिम् ।दुःखजालं प्रयच्छन्ति विप्रलम्भपराः श्रियः ॥२५॥चिन्तानिचयचक्राणि नानन्दाय धनानि मे ।संप्रसूतकलत्राणि गृहाण्युग्रापदामिव ॥२६॥विविधदोषदशापरिचिन्तनै-र्विततभङ्गुरकारणकल्पितैः ।मम न निर्वृतिमेति मनो मुनेनिगडितस्य यथा वनदन्तिनः ॥२७॥खलाः कालेकाले निशि निशितमोहैकमिहिका-गतालोके लोके विषयशतचौराः सुचतुराः ।प्रवृत्ताः प्रोद्युक्ता दिशिदिशि विवेकैकहरणेरणे शक्तास्तेषां क इव विदुषःप्रोज्झ्य सुभटाः ॥२८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे प्रथमपरितापो नाम द्वादशः सर्गः ॥१२॥ N/A References : N/A Last Updated : July 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP