संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|वैराग्यप्रकरणम्| सर्गः १७ वैराग्यप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ वैराग्यप्रकरणम् - सर्गः १७ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १७ Translation - भाषांतर श्रीराम उवाच ।हार्दान्धकारशर्वर्या तृष्णयेह दुरन्तया ।स्फुरन्ति चेतनाकाशे दोषकौशिकपङ्कतयः ॥१॥अन्तर्दाहप्रदायिन्या समूढरसमार्दवः ।पङ्क आदित्यदीप्त्येव शोषं नीतोऽस्मि चिन्तया ॥२॥मम चित्तमहारण्येव्यामोहतिमिराकुले ।शून्ये ताण्डविनी जाता भृशमाशापिशाचिका ॥३॥वचोरचितनीहारा काञ्चनोपवनोज्ज्वला ।नूनं विकासमायाति चिन्ताचणकमञ्जरी ॥४॥अलमन्तर्भ्रमायैव तृष्णातरलिताशया ।आयाता विषमोल्लासमूर्मिरम्बुनिधाविव ॥५॥उद्दामकल्लोलरवा देहाद्रौ वहतीह मे ।तरङ्गतरलाकारा तरत्तृष्णातरङ्गिणी ॥६॥वेगं सरोद्धुमुदितो वात्ययेव जरत्तृणम् ।नीतः कलुषया क्वापि तृष्णया चित्तचातकः ॥७॥यां यामहमतीवास्थां संश्रयामि गुणश्रियाम् ।तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका ॥८॥पयसीव जरत्पर्णं वायाविव जरत्तृणम् ।नभसीव शरन्मेघश्चिन्ताचक्रे भ्रमाम्यहम् ॥९॥गन्तुमास्पदमात्मीयमसमर्थधियो वयम् ।चिन्ताजाले विमुह्यामो जाले शकुनयो यथा ॥१०॥तृष्णाभिधानया तात दग्धोऽस्मि ज्वालया तथा ।यथा दाहोपशमनमाशंके नामृतैरपि ॥११॥दूरं दूरमितो गत्वा समेत्य च पुनःपुनः ।भ्रमत्याशु दिगन्तेषु तृष्णोन्मत्ता तुरङ्गमी ॥१२॥जडसंसर्गिणी तृष्णा कृतोर्ध्वाधोगमागमा ।क्षुब्धा ग्रन्थिमती नित्यमारघट्टाग्ररज्जुवत् ॥१३॥अन्तर्ग्रथितया देहे सर्वदुश्छेदयाऽनया ।रज्ज्वेवाशु बलीवर्दस्तृष्णया वाह्यते जनः ॥१४॥पुत्रमित्रकलत्रादितृष्णया नित्यकृष्टया ।खगेष्विव किरात्येदं जालं लोकेषु रच्यते ॥१५॥भीषयत्यपि धीरं मामन्धयत्यपि सेक्षणम् ।खेदयत्यपि सानन्दं तृष्णाकृष्णेव शर्वरी ॥१६॥कुटिला कोमलस्पर्शा विषवैषम्यशंसिनी ।दशत्यपि मनाक्स्पृष्टा तृष्णा कृष्णेव भोगिनी ॥१७॥भिन्दती हृदयं पुंसां मायामयविधायिनी ।दौर्भाग्यदायिनी दीना तृष्णा कृष्णेव राक्षसी ॥१८॥तन्द्रीतन्त्रीगणैः कोशं दधाना परिवेष्टितम् ।नानन्दे राजते ब्रह्मंस्तृष्णा जर्जरवल्लकी ॥१९॥नित्यमेवातिमलिना कटुकोन्माददायिनी ।दीर्घतन्त्री घनस्नेहा तृष्णा गह्वरवल्लरी ॥२०॥अनानन्दकरी शून्या निष्फला व्यर्थमुन्नता ।अमङ्गलकरी क्रूरा तृष्णा क्षीणेव मञ्जरी ॥२१॥अनावर्जितचित्तापि सर्वमेवानुधावति ।न चाप्नोति फलं किंचित्तृष्णा जीर्णेव कामिनी ॥२२॥संसारवृन्दे महति नानारससमाकुले ।भुवनाभोगरङ्गेषु तृष्णा जरठनर्तकी ॥२३॥जराकुसुमितारूढा पातोत्पातफलावलिः ।संसारजंगले दीर्घे तृष्णा विषलता तता ॥२४॥यन्न शक्रोति तत्रापि धत्ते ताण्डवितां गतिम् ।नृत्यत्यानन्दरहितं तृष्णा जीर्णेव नर्तकी ॥२५॥भृशं स्फुरति नीहारे शाम्यत्यालोक आगते ।दुर्लङ्घयेषु पदं धत्ते चिन्ता चपलबर्हिणी ॥२६॥जडकल्लोलबहुला चिरं शून्यान्तरान्तरा ।क्षणमुल्लासमायाति तृष्णा प्रावृट्तरङ्गिणी ॥२७॥नष्टमुत्सृज्य तिष्ठन्तं तृष्णा वृक्षमिवापरम् ।पुरुषात्पुरुषं याति तृष्णा लोलेव पक्षिणी ॥२८॥पदं करोत्यलङ्घ्येऽपि तृप्तापि फलमीहते ।चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी ॥२९॥इदं कृत्वेदमायाति सर्वमेवासमञ्जसम् ।अनारतं च यतते तृष्णा चेष्टेव दैविकी ॥३०॥क्षणमायाति पातालं क्षणं याति नभस्थलम् ।क्षणं भ्रमति दिक्कुञ्जे तृष्णा हृत्पद्मषट्पदी ॥३१॥सर्वसंसारदोषाणां तृष्णैका दीर्घदुःखदा ।अन्तःपुरस्थमपि या योजयत्यतिसंकटे ॥३२॥प्रयच्छति परं जाड्यं परमालोकरोधिनी ।मोहनीहारगहना तृष्णा जलदमालिका ॥३३॥सर्वेषां जन्तुजातानां संसारव्यवहारिणाम् ।परिप्रोतमनोमाला तृष्णा बन्धनरज्जुवत् ॥३४॥विचित्रवर्णा विगुणा दीर्घा मलिनसंस्थितिः ।शून्या शून्यपदा तृष्णा शक्रकार्मुकधर्मिणी ॥३५॥अशनिर्गुणसस्यानां फलिता शरदापदाम् ।हिमं संवित्सरोजानां तमसां दीर्घयामिनी ॥३६॥संसारनाटकनटी कार्यालयविहंगमी ।मानसारण्यहरिणी स्मरसंगीतवल्लकी ॥३७॥व्यवहाराब्धिलहरी मोहमातङ्गश्रृङ्खला ।सर्गन्यग्रोधसुलता दुःखकैरवचन्द्रिका ॥३८॥जरामरणदुःखानामेका रत्नसमुद्गिका ।आधिव्याधिविलासानां नित्यं मत्ता विलासिनी ॥३९॥क्षणमालोकविमला सान्धकारलवा क्षणम् ।व्योमवीथ्युपमा तृष्णा नीहारगहना क्षणम् ॥४०॥गच्छत्युपशमं तृष्णा कायव्यायामशान्तये ।तमी घनतमःकृष्णा यथा रक्षोनिवृत्तये ॥४१॥तावन्मुह्यत्ययं मूको लोको विलुलिताशयः ।यावदेवानुसंधत्ते तृष्णा विषविषूचिका ॥४२॥लोकोऽयमखिलं दुःखं चिन्तयोज्झितयोज्झति ।तृष्णाविषूचिकामन्त्रश्चिन्तात्यागो हि कथ्यते ॥४३॥तृणपाषाणकाष्ठादिसर्वमामिषशङ्कया ।आददाना स्फुरत्यन्ते तृष्णा मत्स्यी ह्रदे यथा ॥४४॥रोगार्तिरङ्गनातृष्णा गम्भीरमपि मानवम् ।उत्तानतां नयन्त्याशु सूर्यांशव इवाम्बुजम् ॥४५॥अन्तःशून्या ग्रन्थिमत्यो दीर्घस्वाङ्कुरकण्टकाः ।मुक्तामणिप्रिया नित्यं तृष्णा वेणुलता इव ॥४६॥अहो बत महच्चित्रं तृष्णामपि महाधियः ।दुच्छेदामपि कृन्तन्ति विवेकेनामलासिना ॥४७॥नासिधारा न वज्रार्चिर्न तप्तायःकणार्चिषः ।तथा तीक्ष्णा यथा ब्रह्मंस्तृष्णेयं हृदि संस्थिता ॥४८॥उज्ज्वलाऽसिततीक्ष्णाग्रा स्नेहदीर्घदशा परा ।प्रकाशा दाहदुःस्पर्शा तृष्णा दीपशिखा इव ॥४९॥अपि मेरुसमं प्राज्ञमपि शूरमपि स्थिरम् ।तृणीकरोति तृष्णैका निमेषेण नरोत्तमम् ॥५०॥संस्तीर्णगहना भीमा घनजालरजोमयी ।सान्धकारोग्रनीहारा तृष्णा विन्ध्यमहातटी ॥५१॥एकैव सर्वभुवनान्तरलब्धलक्ष्यादुर्लक्ष्यतामुपगतैव वपुःस्थितैव ।तृष्णा स्थिता जगति चञ्चलवीचिमालेक्षीरोदकाम्बुतरले मधुरेव शक्तिः ॥५२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे तृष्णाभंगो नाम सप्तदशः सर्गः ॥१७॥ N/A References : N/A Last Updated : July 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP