संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|वैराग्यप्रकरणम्| सर्गः ६ वैराग्यप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ वैराग्यप्रकरणम् - सर्गः ६ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ६ Translation - भाषांतर श्रीवाल्मीकिरुवाच ।इत्युक्ते मुनिनाथेन संदेहवति पार्थिवे ।खेदवत्यास्थिते मौनं किंचित्कालप्रतीक्षणे ॥१॥परिखिन्नासु सर्वासु राज्ञीषु नृपसद्मसु ।स्थितासु सावधानासु रामचेष्टासु सर्वतः ॥२॥एतस्मिन्नेव काले तु विश्वामित्र इति श्रुतः ।महर्षिरभ्यगाद्द्रष्टुं तमयोध्यानराधिपम् ॥३॥तस्य यज्ञोऽथ रक्षोभिस्तथा विलुलुपे किल ।मायावीर्यबलोन्मत्तैर्धर्मकार्यस्य धीमतः ॥४॥रक्षार्थं तस्य यज्ञस्य द्रष्टुमैच्छत्स पार्थिवम् ।नहि शक्नोत्यविघ्नेन समाप्तुं स मुनिः क्रतुम् ॥५॥ततस्तेषां विनाशार्थमुद्यतस्तपसां निथिः ।विश्वामित्रो महातेजा अयोध्यामभ्यगात्पुरीम् ॥६॥स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ।शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ॥७॥ तस्य तद्वचनं श्रुत्वा द्वास्था राजगृहं ययुः ।संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥८॥ते गत्वा राजसदनं विश्वामित्रमृषिं ततः ।प्राप्तमावेदयामासुः प्रतीहाराः पतेस्तदा ॥९॥अथास्थानगतं भूपं राजमण्डलमालिनम् ।समुपेत्य त्वरायुक्तो याष्टीकोऽसौ व्यजिज्ञपत् ॥१०॥देव द्वारि महातेजा बालभास्करभासुरः ।ज्वालारुणजटाजूटः पुमाञ्छ्रीमानवस्थितः ॥११॥सभासुरपताकान्तं साश्वेभपुरुषायुधम् ।कृतवांस्तं प्रदेशं यस्तेजोभिः कीर्णकाञ्चनम् ॥१२॥वीक्ष्यमाणे तु याष्टीके निवेदयति राजनि ।विश्वामित्रो मुनिः प्राप्त इत्यनुद्धतया गिरा ॥१३॥इति याष्टीकवचनमाकर्ण्य नृपसत्तमः ।स समन्त्री ससामन्तः प्रोत्तस्थौ हेमविष्टरात् ॥१४॥पदातिरेव सहसा राज्ञां वृन्देन मालितः ।वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः ॥१५॥जगाम तत्र यत्रासौ विश्वामित्रो महामुनिः ।ददर्श मुनिशार्दूलं द्वारभूमाववस्थितम् ॥१६॥केनापि कारणेनोर्वीतलमर्कमुपागतम् ।ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा ॥१७॥जराजरठया नित्यं तपःप्रसररूक्षया ।जटावल्या वृतस्कन्धं ससंध्याभ्रमिवाचलम् ॥१८॥उपशान्तं च कान्तं च दीप्तमप्रतिघाति च ।निभृतं चोर्जिताकारं दधानं भास्वरं वपुः ॥१९॥पेशलेनातिभीमेन प्रसन्नेनाकुलेन च ।गम्भीरेणातिपूर्णेन तेजसा रञ्जितप्रभम् ॥२०॥अनन्तजीवितदशासखीमेकामनिन्दिताम् ।धारयन्तं करे श्लक्ष्णां कुण्डीमम्लानमानसम् ॥२१॥करुणाक्रान्तचेतत्तवात्प्रसन्नैर्मधुराक्षरैः ।वीक्षणैरमृतेनेव संसिञ्चन्तमिमाः प्रजाः ॥२२॥युक्तयज्ञोपवीताङ्ग धवलप्रोन्नतस्रुवम् ।अनन्तं विस्मयं चान्तः प्रयच्छन्तमिवेक्षितुः ॥२३॥सुनिमालोक्य भूपालो दूरादेवानताकृतिः ।प्रणनाम गलन्मौलिमणिमानितभूतलम् ॥२४॥मुनिरप्यवनीनाथं भास्वानिव शतक्रतुम् ।तत्राभिवादयांचक्रे मधुरोदारया गिरा ॥२५॥ततो वसिष्ठप्रमुखाः सर्व एव द्विजातयः ।स्वागतादिक्रमेणैनं पूजयामासुरादृताः ॥२६॥दशरथ उवाच ।अशङ्कितोपनीतेन भास्वता दर्शनेन ते ।साधो स्वनुगृहीताः स्मो रविणेवाम्बुजाकराः ॥२७॥यदनादि यदक्षुण्णं यदपायविवर्जितम् ।तदानन्दसुखं प्राप्तं मया त्वद्दर्शनान्मुने ॥२८॥अद्य वर्तामहे नूनं धन्यानां धुरि धर्मतः ।भवदागमनस्येमे यद्वयं लक्ष्यमागताः ॥२९॥एवं प्रकथयन्तोऽत्र राजानोऽथ महर्षयः ।आसनेषु सभास्थानमासाद्य समुपाविशन् ॥३०॥स दृष्ट्वा मालितं लक्ष्म्या भीतस्तमृषिसत्तमम् ।प्रहृष्टवदनो राजा स्वयमर्घ्यं न्यवेदयत् ॥३१॥स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ।प्रदक्षिणं प्रकुर्वन्तं राजानं पर्यपूजयत् ॥३२॥स राज्ञा पूजितस्तेन प्रहृष्टवदनस्तदा ।कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥३३॥वसिष्ठेन समागम्य प्रहस्य मुनिपुंगवः ।यथार्हं चार्चयित्वैनं पप्रच्छानामयं ततः ॥३४॥क्षणं यथार्हमन्योन्यं पूजयित्वा समेत्य च ।ते सर्वे हृष्टमनसो महाराजनिवेशने ॥३५॥यथोचितासनगता मिथः संवृद्धतेजसः ।परस्परेण पप्रच्छुः सर्वेऽनामयमादरात् ॥३६॥उपविष्टाय तस्मै स विश्वामित्राय धीमते ।पाद्यमर्घ्यं च गां चैव भूयोभूयो न्यवेदयत् ॥३७॥अर्चयित्वा तु विधिवद्विश्वामित्रमभाषत ।प्राञ्जलिः प्रयतो वाक्यमिदं प्रीतमना नृपः ॥३८॥यथाऽमृतस्य संप्राप्तिर्यथा वर्षमवर्षके । -यथान्धस्येक्षणप्राप्तिर्भवदागमनं तथा ॥३९॥यथेष्टदारसंपर्कात्पुत्रजन्माऽप्रजावतः ।स्वप्नदृष्टार्थलाभश्च भवदागमनं तथा ॥४०॥यथेप्सितेन संयोग इष्टस्यागमनं यथा ।प्रणष्टस्य यथा लाभो भवदागमनं तथा ॥४१॥यथा हर्षो नभोगत्या मृतस्य पुनरागमात् ।तथा त्वदागमाद्ब्रह्मन्स्वागतं ते महामुने ॥४२॥ब्रह्मलोकनिवासो हि कस्य न प्रीतिमावहेत् ।मुने तवागमस्तद्वत्सत्यमेव ब्रवीमि ते ॥४३॥कश्च ते परमः कामः किं च ते करवाण्यहम् ।पात्रभूतोऽसि मे विप्र प्राप्तः परमधार्मिकः ॥४४॥पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ।ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि भगवन्मया ॥४५॥गङ्गाजलाभिषेकेण यथा प्रीतिर्भवेन्मम ।तथा त्वद्दर्शनात्प्रीतिरन्तः शीतयतीव माम् ॥४६॥विगतेच्छाभयक्रोधो वीतरागो निरामयः ।इदमत्यद्भुतं ब्रह्मन्यद्भवान्मामुपागतः ॥४७॥शुभक्षेत्रगतं चाहमात्मानमपकल्मषम् ।चन्द्रबिम्ब इवोन्मग्नं वेदवेद्यविदांवर ॥४८॥साक्षादिव ब्रह्मणो मे तवाभ्यागमनं मतम् ।पूतोऽस्म्यनुगृहीतश्च तवाभ्यागमनान्मुने ॥४९॥त्वदागमनपुण्येन साधो यदनुरञ्जितम् ।अद्य मे सफलं जन्म जीवितं तत्सुजीवितम् ॥५०॥त्वामिहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च ।आत्मन्येव नमाम्यन्तर्दृष्ट्वेन्दुं जलधिर्यथा ॥५१॥यत्कार्यं येन वार्थेन प्राप्तोऽसि मुनिपुङ्गव ।कृतमित्येव तद्विद्धि मान्योऽसीति सदा मम ॥५२॥स्वकार्ये न विमर्शं त्वं कर्तुमर्हसि कौशिक ।भगवन्नास्त्यदेयं मे त्वयि यत्प्रतिपद्यते ॥५३॥कार्यस्य न विचारं त्वं कर्तुमर्हसि धर्मतः ।कर्ता चाहमशेषं ते दैवतं परमं भवान् ॥५४॥इदमतिमधुरं निशम्य वाक्यं श्रुतिसुखमात्मविदा विनीतमुक्तम् ।प्रथितगुणयशागुणैर्विशिष्टं मुनिवृषभः परमं जगाम हर्षम् ॥५५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे विश्वामित्राभ्यागमनं नाम षष्ठः सर्गः ॥६॥ N/A References : N/A Last Updated : July 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP