वैराग्यप्रकरणम् - सर्गः २८
योगवासिष्ठः
श्रीराम उवाच ।
यच्चेदं दृश्यते किंचिज्जगत्स्थावरजंगमम् ।
तत्सर्वमस्थिरं ब्रह्मन्स्वप्नसंगमसंनिभम् ॥१॥
शुष्कसागरसंकाशो निखातो योऽद्य दृश्यते ।
स प्रातरभ्रसंवीतो नगः संपद्यते मुने ॥२॥
यो वनव्यूहविस्तीर्णो विलीढगगनो महान् ।
दिनैरेव स यात्युर्वीसमतां कूपतां च वा ॥३॥
यदङ्गमद्य संवीतं कौशेयस्रग्विलेपनैः ।
दिगम्बरं तदेव श्वो दूरे विशरिताऽवटे ॥४॥
यत्राद्य नगरं दृष्टं विचित्राचारचञ्चलम् ।
तत्रैवोदेति दिवसैः संशून्यारण्यधर्मता ॥५॥
यः पुमानद्य तेजस्वी मण्डलान्यधितिष्ठति ।
स भस्मकूटतां राजन्दिवसैरधिगच्छति ॥६॥
अरण्यानी महाभीमा या नभोमण्डलोपमा ।
पताकाच्छादिताकाशा सैव संपद्यते पुरी ॥७॥
या लतावलिता भीमा भात्यद्य विपिनावली ।
दिवसैरेव सा याति पुनर्मरुमहीपदम् ॥८॥
सलिलं स्थलतां याति स्थलीभवति वारिभूः ।
विपर्यस्यति सर्वं हि सकाष्ठाम्बुतृणं जगत् ॥९॥
अनित्यं यौवनं बाल्यं शरीरं द्रव्यसंचयाः ।
भावाद्भावान्तरं यान्ति तरङ्गवदनारतम् ॥१०॥
वातान्तर्दीपकशिखालोलं जगति जीवितम् ।
तडित्स्फुरणसंकाशा पदार्थश्रीर्जगत्र्त्रये ॥११॥
विपर्यासमियं याति भूरिभूतपरम्परा ।
बीजराशिरिवाजस्रं पूर्यमाणः पुनःपुनः ॥१२॥
मनःपवनपर्यस्तभूरिभूतरजःपटा ।
पातोत्पातपरावर्तपराभिनयभूषिता ॥१३॥
आलक्ष्यते स्थितिरियं जागती जनितभ्रमा ।
नृत्तावेशविवृत्तेव संसारारभटीनटी ॥१४॥
गन्धर्वनगराकारविपर्यासविधायिनी ।
अपाङ्गभङ्गुरोदारव्यवहारमनोरमा ॥१५॥
तडित्तरलमालोकमातन्वाना पुनःपुनः ।
संसाररचना राजन्नृत्तसक्तेव राजते ॥१६॥
दिवसास्ते महान्तस्ते संपदस्ताः क्रियाश्च ताः ।
सर्वं स्मृतिपथं यातं यामो वयमपि क्षणात् ॥१७॥
प्रत्यहं क्षयमायाति प्रत्यहं जायते पुनः ।
अद्यापि हतरूपाया नान्तोऽस्या दग्धसंसृतेः ॥१८॥
तिर्यक्त्वं पुरुषा यान्ति तिर्यञ्चो नरतामपि ।
देवाश्चादेवतां यान्ति किमिवेह विभो स्थिरम् ॥१९॥
रचयन्रश्मिजालेन रात्र्यहानि पुनःपुनः ।
अतिवाह्य रविः कालो विनाशावधिमीक्षते ॥२०॥
ब्रह्मा विष्णुश्च रुद्रश्च सर्वा वा भूतजातयः ।
नाशमेवानुधावन्ति सलिलानीव वाडवम् ॥२१॥
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
विनाशवाडवस्यैतत्सर्वं संशुष्कमिन्धनम् ॥२२॥
धनानि बान्धवा भृत्या मित्राणि विभवाश्च ये ।
विनाशभयभीतस्य सर्वं नीरसतां गतम् ॥२३॥
स्वदन्ते तावदेवैते भावा जगति धीमते ।
यावत्स्मृतिपथं याति न विनाशकुराक्षसः ॥२४॥
क्षणमैश्वर्यमायाति क्षणमेति दरिद्रताम् ।
क्षणं विगतरोगत्वं क्षणमागतरोगताम् ॥२५॥
प्रतिक्षणविपर्यासदायिना निहतात्मना ।
जगद्भ्रमेण के नाम धीमन्तो हि न मोहिताः ॥२६॥
तमःपङ्कसमालब्धं क्षणमाकाशमण्डलम् ।
क्षण कनकनिष्यन्दकोमलालोकसुन्दरम् ॥२७॥
क्षणं जलदनीलाब्जमालावलितकोटरम् ।
क्ष्रणमुड्डामररवं क्षणं मूकमिव स्थितम् ॥२८॥
क्षणं ताराविरचितं क्षणमर्केण भूषितम् ।
क्षणमिन्दुकृताह्लादं क्षणं सर्वबहिष्कृतम् ॥२९॥
आगमापायपरया क्षणसंस्थितिनाशया ।
न बिभेति हि संसारे धीरोऽपि क इवानया ॥३०॥
आपदः क्षणमायान्ति क्षणमायान्ति संपदः ।
क्षणं जन्म क्षणं मृत्युर्मुने किमिव न क्षणम् ॥३१॥
प्रागासीदन्य एवेह जातस्त्वन्यो नरो दिनैः ।
सदैकरूपं भगवन्किंचिदस्ति न सुस्थिरम् ॥३२॥
घटस्य पटता दृष्टा पटस्यापि घटस्थितिः ।
न तदस्ति न यद्दृष्टं विपर्यस्यति संसृतौ ॥३३॥
तनोत्युत्पादयत्यत्ति निहत्यासृजति क्रमात् ।
सततं रात्र्यहानीव निवर्तन्ते नरं प्रति ॥३४॥
अशूरेण हतः शूर एकेनापि हतं शतम् ।
प्राकृताः प्रभुतां याताः सर्वमावर्त्यते जगत् ॥३५॥
जनतेयं विपर्यासमजस्रमनुगच्छति ।
जडस्पन्दपरामर्शात्तरङ्गाणामिवावली ॥३६॥
बाल्यमल्पदिनैरेव यौवनश्रीस्ततो जरा ।
देहेऽपि नैकरूपत्वं कास्था बाह्येषु वस्तुषु ॥३७॥
क्षणमानन्दितामेति क्षणमेति विषादिताम् ।
क्षणं सौम्यत्वमायाति सर्वस्मिन्नटवन्मनः ॥३८॥
इतश्चान्यदितश्चान्यदितश्चान्यदयं विधिः ।
रचयन्वस्तुनायाति खेदं लीलास्विवार्भकः ॥३९॥
चिनोत्युत्पादयत्यत्ति निहत्यासृजति क्रमात् ।
सततं रात्र्यहानीव निवर्तन्ते नरं प्रति ॥४०॥
आविर्भावतिरोभावभागिनो भवभागिनः ।
जनस्य स्थिरतां यान्ति नापदो न च संपदः ॥४१॥
कालः क्रीडत्ययं प्रायः सर्वमापदि पातयन् ।
हेलाविचलिताशेषचतुराचारचञ्चुरः ॥४२॥
समविषमविपाकतो विभिन्ना-
स्त्रिभुवनभूतपरम्पराफलौघाः ।
समयपवनपातिताः पतन्ति
प्रतिदिनमाततसंसृतिद्रुमेभ्यः ॥४३॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे सर्वभावाऽविरतविपर्यासप्रतिपादनं नामाष्टाविंशः सर्गः ॥२८॥
N/A
References : N/A
Last Updated : July 12, 2021
TOP