विंशतिकाण्ड: - ६१ ते ६५
पैप्पलादसंहिता
६१
व्याघ्रायोभयादते यथाहमकरं नमः॥
नमस्ते पथ्ये रेवति स्वस्तिमा परां णय स्वस्ति पुनरानय ॥१॥
अथो स्वस्ति निष्कृधि जीवा ज्योतिरशीमहि ।
आ मनं यजामहे सत्यं प्राशं पुरोहितम् ॥२॥
तं देवं प्रथमं यजेद् व्योम्ना मनसं करत् ॥३॥
आमनस्क देवकारो रुवत्कदेवक ।
अर्वाचावस्तरं कृधि यमहं कामये प्रियम् ॥४॥
अयं नो अग्निरध्यक्षो ऽयं नो वसुवित्तम: ।
अस्योपसद्ये मा रिषामायं रक्षतु नः प्रजाम् ॥५॥
अस्मिन् सहस्रं पुष्यास्मैधमानाः स्वे गृहे ।
इमं समिन्धिषीमह्यायुष्मन्तः सुवर्चसः ॥६॥
शुद्धवाता कृष्णफला कब्रू बलासभेषजी ।
शुक्ति वल्गस्य नाशनी देवीर्ददातु भेषजम् ॥७॥
अश्वत्थो देव सदनास्तृतीयस्यामितो दिवि॥
तत्र लोहित वृक्षोजातः शिश्रु: क्षिप्त भेषजः ॥८॥
न तत्र भवो हन्ति न शर्व इषुमस्यति । ईषु
यत्र त्वं देवतम्वुरो पर्वतेषु वि रोहति ॥९॥
कृष्यामन्यो वि रोहति गिरेरन्यो ऽधिपक्षसि ।
त्रातारौ सश्वदामिमावा गन्तां शिश्रुतुम्वुरु ॥१०॥
६२
यावत् पर्णं यावत् फलं यावन्तो अध्यरुक्षराः ।
तावन्तः शुष्मास्तुम्वुरोस्तदु ते विषदूषणीः ॥१॥
रुद्र जलासभेषजे ऽमुं रोगमशीशमो जिज्वलन्निति ॥२॥
आस्थाद्योरस्थात् पृथिव्यस्थादिदमुर्वमन्तरिक्षम् । -
ऋषभस्येव कनिष्क्रदतो हृदयं शमयामि ते ॥३॥रुष
सं मा सिञ्चन्तु मरुतः सं मा सौ रोहिणीदिवः ।
सं मायमग्नि: सिञ्चन्तु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ॥४॥
नक्तं हरि मृगयेते दिवा सुपर्णा रोहितौ ।
भवाय च शर्वाय चोभाभ्यामकरं नम: ॥५॥
नमो भवाय नमः शर्वाय नमः कुमारसत्रवे ।
नमो नीलशिखण्डाय नम: सभाप्रपादिने ॥६॥खिश
यस्य हरी अश्वतरौ गर्दभावभितः सरौ ।
तस्मै नीलशिखण्डाय नम: सभाप्रपादिने ॥७॥खिश
असावेति शिशुमारो असावेति पुलिकया।
कुमारसत्रोवराहोदकं परिवाचनम् ॥८॥
यथेदमभ्रमर्भकं पर्जन्यादपसीयते।
एवा मे अश्विना मुखादभिल्यमपसीयताम् ॥९॥
अभील नश्येतः परस्तृचं मे माभिर्मिम्लपः।
अगस्त्यस्य ब्रह्मणाभीलीन् नाशयामसि ॥१०॥
६३
सेसिचामुपत्वचां नाशया पुरुरूपादभील्यं मुखात ।
यन् मे ऽकृतादभिप्रियादारुरोहमलं मुखम् ॥१॥
अपां वात इव शीफालं सूर्यस्तदपलुंपतु ।
अप मे ऽभीलि पतत् त्वां वात हृदं यथा ॥२॥
आ मा सुपर्णं गच्छन्तु सुभागमस्तु मे मुखम्।
यथा सूर्यस्यो पादये हिरण्यं प्रतिरोचते ॥३॥
एवा मे मश्विना मुखं सुपर्ण प्रतिरोचताम् ।
प्रयद्गावो नभ्यूर्णयस्त्वेषावयांस्यक्रमन् ॥४॥
घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।
इन्द्रेण प्रेषित उलूक सं पचामि ते ॥५॥
घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।
सोमेन प्रेषित उलूक सं पचामि ते ॥६॥
घ्नन्तु कृष्णामुप त्वचं सुभागमस्तु मे मुखम् ।
सूर्यण प्रेषित उलूक सं पचामि ते ॥७॥
घ्नन्तु कृष्णामुप त्वचं सुभागमस्तु मे मुखम् ।
बृहस्पतिना प्रेषित उलूक सं पचामि ते ॥८॥
घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।
प्रजापतिना प्रेषित उलूक सं पचामि ते ॥९॥
६४
घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।
ग्राह्या दूतो ऽस्युलूक सं पचामि ते ॥१॥
घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम ।
निऋत्या दूतो ऽस्युलूक सं पचामि ते ॥२॥
घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।
वरुणस्य दूतो ऽस्युलूक सं पचामि ते ॥३॥
घ्नन्तु कृष्णामुप त्वचं सुभागमस्तु मे मुखम् ।
मृत्योर्दूतो ऽस्युलूक सं पचामि ते ॥४॥
घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।
यमस्य दूतो ऽस्युलूक सं पचामि ते ॥५॥
राजा त्वा वरुणो अखनदत्तां सोमेन बभ्रुणा ।
तां त्वा विद्म प्रपातिकां प्रामुष्य हृदयं तव ॥६॥
नि शोचयैनं प्रपतैनं समेनं तक्मना सृज ।
यथास्य दह्यमानस्याग्निः पर्वाण्यन्वयत् हृदयं परिवर्जयाक्षी कामेन शोचया मूर्तं मामपश्यत ॥७॥
अयमित्वाग्निरानयत् वातस्त्वा त उद्यमात् ।
यं त्वमेनं निर्वर्त्तया असौ हा इह ते मनः ॥८॥
अग्निष्ट्वा तपतु सूर्यस्त्वा तपतु वातस्त्वा युङ्क्तां मरुतश्च युञ्जताम् ।
अर्वाङ् एहि समश्नुव आ नो मरिचिभिः ॥९॥
वृहामि ते लोमान्यङ्गेभ्य: पचामि मांसं ज्वलयाम्यस्थि।
इह ते रमतां मनो मयि ते रमतां मन: ॥१०॥
६५
अयं पिण्ड: कर्करः पिण्ड: स्मरः पाञ्चालः संतपनः करंकरः ।
अमुष्य हृदयं तपो यमहं कामये प्रियम् ॥१॥
यथायमग्निस्तपति यथा तपति सूर्यः ।
एवा ते तप्यतां मनो हृदयमङ्गमङ्गं परुष्परुर्मां
कामेन नरमासा अत्र ॥२॥
यथा तपन्ति परशुं यथा वासि नि खादिरम् ।
यथा सूर्य उद्यन् सर्वं संतपन्ति ॥३॥
एवा ते तप्यतां मनो हृदयमङ्गमङ्ग परुष्परुर्मां कामेन नरमासा अत्र ॥४॥
स त्वा द्यौश्च पृथिवी च तपतां मां कामेन नरमासा अत्र ॥५॥
स्मरहै स्मरतादमुमङ्गज्वरेणो छोचनीनाम् ।
तक्मनैनं संसृज विश्वशारदेन मम। कामेन ॥६॥
अष्टाशीति सहस्राण्येत्यवादीद् वचो मम ।
इहारेहमवादिषुमत्रारे प्रायस्वस्तम् ॥७॥
यं सुमित्रः सुमित्रायै चक्रेवासास्मरम् ।
यथा सा तस्य कामेन न सुष्वाप कदा चन ॥८॥
एवासौ मम कामेन माव स्वप्सीत् कदा चन ।
पर्यग्निरापस्तपति परिद्यामेति सूर्यः ॥९॥
परि वामिन्द्रो वृत्रहा मह्यं तपतु सर्वतः ।
यथा वातो न्यावाति यथा तपति सूर्यः ॥१o॥
एवा त्वमिन्द्र वृत्रहनमुं मह्यमिहानय।
शालाला त्वं संवननं वनाद् वननमा भृतम् ॥११॥
येन पयो गन्धर्वो अप्सरसां समवानयत् ।
तेनाहममुं मयि वा नयाम्यामृत्योरा परावत: ॥१२॥
(ड्रत्येकर्चनाम विंशतिकाण्डे दशमो ऽनुवाकः )
इत्यथर्ववेदे पैप्पलादसंहितायां एकर्चोनाम विंशतिकाण्डः समाप्तः
N/A
References : N/A
Last Updated : May 13, 2021
TOP