विंशतिकाण्ड: - ६ ते १०
पैप्पलादसंहिता
६
अरेपस: सचेतस: स्वसरे मन्युमत्तमा: ॥१॥
समेत विश्व ओजसा पतिं दिवो य एको विभूरतिथिर्जनानाम्।
स पूर्व्यो नूतनमाविवासत् तं वर्त्मनिरनु वावृत एकमित् पुरु: ॥२॥
कुहूं देवीममृतां विदानापसमस्मिन् यज्ञे सुहवा जोहवीमि । तु. शौ.सं. ४२
यो नो ददाति श्रवणं पितॄणां तस्यै ते देवि हविषा विधेम ॥३॥
कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविष: शृणोतु ।
सं दाशुषे किरतु भूरिपुष्टा रायस्पोषं चिकितुषे दधातु ॥४॥
सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् ॥५॥जानि
मित्रो व: सर्वा: सं सृजान् मयि संज्ञानमस्तु व: ॥६॥
(इत्येकर्चोनाम विंशतिकाण्डे प्रथमो ऽनुवाकः)
७
यन्नो अग्निरखनद्यन्न इन्द्रो विश्वे यद् देवा मरुतः स्वर्का । तु. शौ.सं. २४.१
तदस्मभ्यं सविता सत्यधर्मा सरस्वत्यनुमतिर्नियच्छात् ॥१॥
यूयं नो देवा उभयाय वेधसे शर्म नो यच्छत् द्विपदे चतुष्पदे।
अदत् पिबदूर्जयमानमाशितं तदस्मभ्यं शं योररपो दधात ॥२॥
बृहस्पते सवितर्बोधयैनं संशितं चित् सन्तरं सं शिशाधि ।
वर्धयैनं महते सौभगाय विश्व एनमनु मदन्ति देवा: ॥३॥
अमुत्रभूयादधि यद् यमस्य बृहस्पतिरभिशस्त्या अमुञ्चत् । मूत्र तु. शौ.सं. ५३.१
प्रति मृत्युमौहतामश्विना ते देवानामग्ने भिषजा शचीभिः ॥४॥
इन्द्रावरुणा सुतपाविमं सुतं मद्यं सोमं पिबतं धृतव्रतौ । पिव
युवो रथो अध्वरं देववीतये प्रति स्वसरमुप याति पीतये ॥५॥
इन्द्रावरुणा मधुमत्तमस्य वृष्ण: सोमस्य वृषणा वृषेथाम्॥
इदं वामस्मे परिषिक्तमन्ध आसद्यास्मिन् बर्हिषि मादयेथाम् ॥६॥वर्हि
उरु विष्णो वि क्रमस्वोरु क्षयाय नष्कृधि ।
घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥७॥
दिवो विष्ण उत वा पृथिव्या उरोर्वा विष्णो महो ऽन्तरिक्षात् ।
उभा हि हस्तौ मधुना पृणस्वाप्रयच्छ दक्षिणादोत सव्यात् ॥८॥
विष्णोर्नु कं प्र वोचं वीर्याणि य: पार्थिवानि विममे रजांसि ।
यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगाय: ॥९॥
प्र तद् विष्णुः स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥१०॥
८
अग्नाविष्णू महि धाम प्रियं वां पाथो घृतस्य गुह्यानि नाम ! तु. शौ.सं. २९
दमेदमे सप्त रत्ना दधानो उप वां जिह्वा घृतमा चरण्यात् ॥१॥
अग्नाविष्णू महि तद् वां महित्वं वीथो घृतस्य गुह्या जुषाणा ।
दमेदमे सुष्टुत्या वावृधाना प्रति वां जिह्वा घृतमुच्चरण्यात् ॥२॥
उन्नम्भय पृथिवीं भिन्द्धीदं दिव्यं नभ: ।
उद्नो दिव्यस्य नो धातरीशानो वि ष्या बिलम् ॥३॥विल
अपक्रामन् पौरुषेयाद् गृणानो दैव्यं सह: ।
प्रणीतीरभ्या वर्तस्व देवो देवानां सख्या जुषाणः ॥४॥
पितोरहं पितुपतिं तदीडे धाता विधर्त्ता भुवनेष्वेषु ।
नेमेन मह्यं मधुमाङ् इहैधि नेमेनामुष्मै विषुवाङ् वैधि ॥५॥
अयं पितोः पितुवाङ् अभृतस्वरिदं शृणोतु यदहं ब्रवीमि |
नेमेन मह्यं मधुमाङ् इहैधि नेमेनामुष्मै विषुवाङ् वैधि ॥६॥
आत्रैवैनं निर्ऋत आरभस्वात्रैवैनं निर्ऋते प्रक्षिणीह्यात्रैवैनं सर्वं वि वृश्च ।
नेमेन मह्यं मधुमाङ् इहैधि नेमेनामुष्मै विषुवाङ् वैधि ॥७॥
यत्वा पितरुप ब्रुवे तन्नो आशृण्वस्मिन्निहवे हव्यो यथास: ।
अमुं देवै निर्ऋतिः संविदानामुं सिञ्चन्तु वरुणस्य पाशात् ॥८॥
यदस्मृति चकृमा किं चिदग्ने उपारिम चरणैर्जातवेद: !
तस्मात् पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्मात् ॥९॥
अग्ने ऽध्यक्षो न एहि पाहि नो दुरितात् पाहि दुष्वप्न्यात् ।
आशन्या अजन्याद्यक्ष्मान्न: पाहि ॥१o॥
९
त्विषिरसि त्विषिवन्तो भूयास्म ।
चक्षुष्मन्तो गोमन्त: प्रजावन्तो वर्चस्विन: ॥१॥
---सिञ्चन्नतः क्षीरं भरतो दधि।
इदं तद् विश्वरूपा व: पयोहरामि वीरुधा ॥२॥
यदघ्न ओषधीभ्योऽदभ्यः संभरथा मधु ।
इदं तद विश्वरूपा व: क्षीरं हराम्योषधी ॥३॥
यो अभ्यु बभ्रुणायसि स्वपन्तमिच्छ पुरुषं शयानमकस्यलम् ।
अयस्मयेन वर्मणाऽश्ममयेन वर्मणा पर्यस्मान् वरुणो दधत् ॥४॥
ये नो गृहे ब्रह्मणा मन्यमाना घोरां वाचं मिथुया नो ब्रुवन्ति ।
ये नो रुचो बलिरुचो भवन्तु दुर्योणमस्मत् परिते हरन्तु ॥५॥
अयमग्नि: सत्पतिर्वृद्धवृष्णो रथीव पक्तीनजयत् पुरोहित: ।
नाभा पृथिव्यां निहितो दविद्युतदधस्पदं कृणुतां ये पृतन्यव: ॥६॥
अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु ।
स जास्पत्यं सुयममा कृष्णुष्व शत्रूयतामभि तिष्ठा महांसि ॥७॥
जुष्टो दमुना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् ।
विश्वा ह्यग्ने अभियुजो विहत्य शत्रूयतामा भरा भोजनानि ॥८॥
अग्ने सपत्नान् प्र णुदस्व जातान् प्रत्यजातान् जातवेदो नुदस्व ।
अधि नो बूहि सुमनस्यमानः शर्म नो यच्छ त्रिवरूथमुद्भित् ॥९॥ रुथ
प्रान्यान् सपत्नान् सहसा सहस्व प्रत्यजातान् जातवेदो श्रृणीहि ।
इदं राष्ट्रं पिपृहि सौभगायानु त्वा देवा वसवो ददन्ताम् ॥१०॥
१०
यो नो मित्रावरुणा अभिदासात् सपत्नो वोत् पिपानो बृहस्पते ।
सर्वं तमग्ने अधरं पारयास्मद् यथेन्द्राहमुत्तमश्चेतयानि ॥१॥
अहमेषामुत्तमश्चेतयानि मम वशमुपतिष्ठन्तु सर्वे ।
आजुह्वानो घृतपृष्ठ: सुवर्चा वसोर्मध्ये दीदिहि जातवेद: ॥२॥
अमुमग्ने अधरं पारयास्मज्जामय उत् पिपानं सपत्नम् ।
ये नो धूर्वानधरे ते भवन्तु विश्वा द्वेषांस्यभितो नु वृङ्धि ॥३॥
मूर्धानं दिवो अरतिं पृथिव्या विशस्त्वा सर्वा बलिहृता उपासताम्।
तासामुग्रो मध्यमेष्ठेयमस्या स्वे क्षेत्रे सवितेव वि राज: ॥४॥
आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टिपतिं रयीणाम् ।
रायस्पोषं श्रवस्युं वसानमिह हुवेम सदनं रयीणाम् ॥५॥
यस्य व्रते पशवो यन्ति सर्वे यस्य व्रत उपतिष्ठन्त आप: ।
यस्य व्रते पुष्टिपतिर्निविष्टस्तं सरस्वन्तमवसे हुवेम ॥६॥
ये ते सरस्वन्न् ऊर्मयो मधुमन्तो घृतश्चुत: ।
तेभिर्नो विता भव: ॥७॥
दिव्यं समुद्रं पायसं बृहन्तमपां गर्भं वृषभमोषधीनाम् । वृह
अभीपतो रय्या तर्पयन्तं सरस्वतं रयिष्ठां सादयेह ॥८॥ रयी
इन्द्रस्य कुक्षिरसि सोमधान आत्मा देवानामुत विश्वरूपः ।
इह प्रजा जनय यास्त आसु या अन्यत्रेह तास्ते स्वधिता गृणन्तु ॥९॥
श्येन: सुपर्णो दिव्यो नृचक्षा: सहस्रपाच्छतयोनिर्वयोधा: ।
स नो नि यच्छाद् वसुयत् पराभृतमस्माकमस्तु पितृषु स्वधावत् ॥१०॥
N/A
References : N/A
Last Updated : May 13, 2021
TOP