N/A३१
दिवस्तार उदसिश्रसन् सप्त सूर्यस्य रश्मय: ।
धारा: समुद्रिया आपः स्तास्ते शल्यमुच्चिच्युवुः ॥१॥
ईडे अग्निं स्वावसुं नमोभिरिह प्रसक्तो वि चयत् कृतं नः ।
रथैरिव प्र भरे वाजयद्भि: प्रदक्षिणं मरुतां स्तोममृध्याम् ॥२॥
सप्त स्रवन्ति शिशवे मरुत्वते पिता पुत्रेभ्यो अप्यवीवृतन्नृतानि ।
उभे पिपृत उभे अस्य राजत उभे यतेते उभे अस्य पुष्यत: ॥३॥
वेद स्वस्तिर्द्रुघण: स्वस्ति परशुर्वेदिः परशुर्न: स्वस्ति: ।
हविष्कृतो यज्ञिया यज्ञकामास्ते देवासो हविरिदं जुषध्वम् ॥४॥
उप प्रियं पनिप्नतं युवानमाहुतीवृधम् ।
अगन्म बिभ्रतो नम: ॥५॥
इमा यास्ते शतं हिरा: सहस्रं धमनीरुत ।
तासां ते सर्वासां साकमश्मना बिलमप्यधाम् ॥६॥
इदं खनामि भेषजं मां पश्यमभिरोरुदम् ।
येना निचक्र आसुरीन्द्राणी केवलं पतिम् ॥७॥
अक्षौ मे मधुसंकाशे अनीकर्णौ समञ्जनम् ।
अन्त: कृणुष्व मां हृदि मन इन्नौ सहासती ॥८॥
त्वाष्ट्रेणाहं वचसेर्ष्यां व्यमीमदम् ।
अथो यो मन्युस्ते पते तमु ते शमयामसि ॥९॥
व्रतेन त्वं व्रतपते समक्तो हा विश्वा सुमना दीदिहीह ।
तं त्वा वयं जातवेद: समिद्धं प्रजावन्त उप सदेम सर्वे ॥१o॥

३२
प्रजावती: सुयवसे रिशन्तीर्मा वो विद्युतरन् मोतसेना ।
सुगे तीर्थे सुप्रपाणे पिबन्ती: परिवृह्य वधं गोहनं चरन्तीम् ॥१॥पिव
पदज्ञा स्थ रमतय: संहिता विश्वरूपा ।
उप नो देवीर्देवेभिरेत ।
इमं गोष्ठमिदं सदो घृतेना न: समुक्षत ॥२॥
या ग्रैव्या अपचितो अथो या उपपक्ष्या: ।
विजान्मि या अपचित: स्वयं स्रसस्ता इतो नाशयामसि ॥३॥
सान्तपना इदं हविर्मरुतस्तज्जुजुष्टन । तु. शौ.सं. ७७
युष्माकोती रिशादस: ॥४॥
यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति ।
तस्मिन्तान् पाशान् प्रति मुञ्चतां यूयं तपिष्ठेन तपसा हन्तना तम् ॥५॥
संवत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषेभ्यः ।
ते अस्मत् पाशान् प्रतिमुञ्चन्तु सर्वान् सांतपना मत्सरा मादयिष्णव: ॥६॥
धृषत् पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् ।
माध्यन्दिने सवन आ वृषस्व रयिष्ठानो रयिमस्मासु धेहि ॥७॥
युनज्मि त्वा ब्रह्मणा दैव्येना ऽस्मै क्षत्राणि धारयन्तमग्ने !
दिदिढ्यस्मभ्यं द्रविणेह भद्रं प्रेमं वोचो हविर्दां देवतासु ॥८॥
वि ते मुञ्चामि रशनां वि योक्त्रं वि नियोजनम् ।
इहैव त्वमजस्र एध्यग्ने ॥९॥
प्रजापते नहि त्वदन्यो विश्वा रूपाणि महिना यजान ।
यत्कामास्ते जुहुमोस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ॥१०॥

३३
यत् ते देवा अकृण्वन् भागधेयममावास्ये संवसन्तो महित्वा ।
सेमं यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥१॥
घृतं ते अग्ने दिव्ये सधस्थे घृतेन त्वा मनुरद्या समिन्थे।
घृतं ते देवा आप्या वहन्तु घृतं तुभ्यं दुह्रते गावो अग्रे ॥२॥
मय्यग्रे अग्निं गृह्णामि सह क्षत्रेण वर्चसा बलेन ।
मयि प्रजां मय्यायुर्दधामि स्वाहा मय्यग्निम् ॥३॥
ततो धृतव्रतो राजा सर्वा धामानि नो मुञ्च ॥४॥
धाम्नोधाम्नो राजन्नितो वरुण नो मुञ्च ।
यदापो अघ्न्या इति वरुणेति यदूचिम ।
ततो वरुण नो मुञ्च ॥५॥तु. शौ.सं. ८३
यो रुद्रो अग्नौ यो ऽप्स्वन्तर्य ओषधीर्वीरुध आविवेश ।
य इमा विश्वा भुवनानि चाक्लृपे तस्मै रुद्राय नमो अस्त्वद्य ॥६॥
अपेह्यरिरस्यरिर्वा असि ।
विषे विषमपृक्था अहिमेवाभ्यपेहि तं जहि ॥७॥
पृतनाजितं सहमानमग्निमुग्रं हुवेम परमात् सधस्थात्।
स नः पर्षदति दुर्गाणि विश्वा क्षामद् देवो ऽतिदुरितान्यग्नि: ॥८॥
यद्यन्तरिक्षे यदि वात आस यदि वृक्षेषु यदि वोलपेषु।
यदश्रवन् पशवं उद्यमानं तद् ब्राह्मणं पुनरस्मानुपैति ॥९॥

३४
शं मा वातो अभिवातु शं मे तपतु सूर्यः ।
अहानि शं भवन्तु मे शं रात्री प्रति धीयतां
शमुषा मे व्युच्छतु ॥१॥
उतिष्ठत पितरो ये पुरा स्थ यमं राजानमवशानमर्चत: ।
अयं नृणानृते यः श्रेष्ठ आगन्तस्मै लोकं कृणुता यावत्सबन्धु ॥२॥
यस्येदं शस्यं प्रतिमाकृतं देवैर्दत्तमसूर्यं च संभृतम् ।
त्रि: सप्त कृत्व ऋषयः परेता मृत्युं प्रत्यौहन् पदयोपनेन ॥३॥
अगमन् गाव: सदनमपप्तद् वसतिं वय: ।
आस्थाने पर्वता अस्थु: स्थाम्नि वृक्कावरीरमम् ॥४॥
आ गावो गोष्ठमगमन्नाग्निधानान्यग्नय: ।
आ वृक्कौ समभित्सातामुत्सक्तभेषजमसि ॥५॥
यथा द्यां च पृथिवीं चान्तस्तिष्ठति तेजनम्।
एवा रोगं चास्रावं च मुञ्जस्तिष्ठत्यन्तरा ॥६॥
अस्थादिदं विश्वं भुवनमस्थाद् वातो वनच्यवः।
अस्थुर्वृक्षा ऊर्ध्वस्वप्नास्तिष्ठाद् रोगो अयं तव ॥७॥उर्ध्व
शतं यद् भेषजानि ते सहस्रं संभृतानि च ।
तेषामसि त्वमुत्तमं अनाश्रावमरोगणम् ।
श्रेष्ठमास्राव भेषज वसिष्ठं रोग नाशनम् ॥८॥
यदद्य त्वा प्रयति यज्ञे अस्मिन् होतश्चिकित्वन्नवृणीमहीह !
ध्रुवमयो ध्रुवमुता शमिष्ठ प्रजानन् विद्वान् उप याहि सोमम् ॥९॥
समिन्द्र नो मनसा नेष गोभिः सं सूरिभिर्हरिवन् सं स्वस्त्या ।
सं ब्रह्मणा देवकृतं यदस्ति सं देवानां सुमत्या यज्ञियानाम् ॥१०॥

३५
सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन । तु. शौ.सं. ६.५३.३
त्वष्टा सुदत्रो वरिव: कृणोत्वनु नो मार्ष्टु तन्वो विरिष्टम् ॥१॥
संस्रावभागास्तविषा बृहन्तः प्रस्तरेष्ठा बर्हिषादश्च देवाः ।
इमं यज्ञमभिविश्वे गृणन्तु स्वाहा देवा अमृता मादयन्ताम् ॥२॥
यानावह उशतो देव देवांस्तान् प्रेरय पुनरग्ने स्वे सधस्थे॥
जक्षिवांस: पपिवांसो मधून्यस्मै धत्त वसवो वसूनि ॥३॥
अयन्नो यज्ञो अप्येतु देवानुत्तरां वेदिमप्येतु वेदिः। नुतरां
विमुञ्चाम्यृत्विजो दक्षिणाभिर्देवा यज्ञैश्च पुनरुत्तरावत् ॥४॥
यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ ।
स्वां योनि गच्छ स्वाहा ॥५॥
एष ते यज्ञ यजमानः सहसूक्तो नमोवाकः ।
सुवीरः स्वाहा ॥६॥
मनसस्पत इमं देव यज्ञम् ।
स्वाहा वाचि: स्वाहा वाते धा स्वाहा ॥७॥
स्वाहाहुतेभ्यो वषट् हुतेभ्य: ।
देवा गातुविदो गातुं वित्त्वा गातुमित: स्वाहा ॥८॥
सं बर्हिरक्तं हविषा घृतेन समिन्द्रेण वसुभिः सं मरुद्भि: ।
सं देवेभिर्विश्ववेदेभिरक्तमिन्द्रं गच्छतु यत् स्वाहा ॥९॥
आशासाना सौमनसं प्रजां चक्षुरथो बलम् ।
इन्द्राण्या अनुव्रता सं नह्ये अमृताय कम् ॥१०॥

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP