संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|एकर्चोनाम विंशतिकाण्ड| ११ ते १५ एकर्चोनाम विंशतिकाण्ड १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ विंशतिकाण्ड: - ११ ते १५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ११ ते १५ Translation - भाषांतर ११अति धन्वान्यत्यपस्ततर्द श्येनो नृचक्षा अवसानदर्श: । तु. शौ.सं. ४१तरन् विश्वा अवरा रजांसीन्द्रेण सख्या शिव आ जगाम ॥१॥आगन् देव: सविता सर्वादाया ऊरु ज्योतिरविदामा नवोभि: । ,महीं नाव मदितेरारुहेमं यत्र सोमं सदमित् तत्र भद्रम् ॥२॥उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥३॥पतिर्दिवः पतिरग्निः पृथिव्याः पतिर्विश्वस्य भुवनस्य राजति ।पतिर्विश्वा ओषधीराविवेश पत्नीवानग्निरिह याहि सोमम् ॥४॥सं क्रामतं मा जिहीतं शरीरं प्राणापानौ सयुजेह स्ताम् ।सप्तऋषिभ्य: परि दद्म एतं त एनं स्वस्ति जरसे नयन्तु ॥५॥यत् त आयुरतिहितं पराचैरपान: प्राणो य उ वाते परेत: ।अग्निष्टदाहार्निर्ऋतेरुपस्थात् तदात्मनि पुनरा वेशयामि ॥६॥मा त्वा प्राणो हासीद् यस्तया प्रविष्टो मा त्वापानोवहाय परा गात् ।संरभ्य जीव: शरदः सुवर्चा अग्निष्टे गोपा अधिपा वशिष्ठ: ॥७॥राकामहं सुहवां सुष्टुती हुवे शृणोतु न: सुभगा बोधतु त्मना ।सीव्यत्वप: सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥८॥यास्ते राके सुमतय: सुपेशसो याभिर्ददासि दाशुषे वसूनि ।ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥९॥या राका या सिनीवाली या गुङ्गूर्या सरस्वती ।इन्द्राणीमह्व ऊतये वरुणानीं स्वस्तये ॥१०॥या सुबाहुः स्वङ्गुरि: सुषुमा बहुसूवरी । सुषूतस्यै विशपत्न्यै हविः सिनीवाल्यै जुहोतनः ॥११॥सिनीवालि पृथुष्ठके या देवानामसि स्वसा ।जुषस्व हव्यमाहुतं प्रजां देवि दिदिडिढ़ न: ॥१२॥या विश्वत इन्द्रमसि प्रतीची सहस्रस्तुतामभियन्तु देवी । .विष्णोस्पत्नि तुभ्यं राका हवीषिं पतिं देवी राधसा चोदयस्व ॥१३॥(ड्रत्येकर्चोनाम विशांतिकाण्डे द्वितीयो ऽनुवाक: )१२उपह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् । तु. शौ.सं. ७३श्रेष्ठं सवं सविता साविषन्नो ऽभीद्धो घर्मस्तदु षु प्र वोचम् ॥१॥भिद्धो धर्महिङकृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात् ।दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥२॥गौरमीमेदभि वत्सं मिषन्तं मूर्धानं हिङ्ङ् अकृणोन् मातवा उ ।सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥३॥धर्मसूयवसाद् भगवती हि भूया अथो वयं भगवन्त: स्याम ।अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥४॥संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यन् नमस्यम्।रिरिक्वांसस्तन्वा सुम्नमायुः सखेत्सख्युर्निमिषि रक्षमाणाः ॥५॥समिद्धो अग्निरश्विना तप्तो वां घर्म आगतम् ।दुह्यन्ते नूनं वृषणेह धेनवो दस्रा वदन्ति कारव: ॥६॥समिद्धो अग्निरश्विना रथी दिवस्तप्तो घर्मो दुह्यते वामिषे मधु ।वयं हि वां पुरुदमासी अश्विना हवामहे सधमादेषु कारव: ॥७॥यदुस्त्रियास्वाहुतं घृत पयो ऽयं सो अश्विना वां भाग आ गतम् ।माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतं रोचने दिव: ॥८॥तप्तो वां घर्मो नक्षन्तु स्वहोता प्र वामध्वर्युश्चरति पयस्वान् !मधोदुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियाया: ॥९॥उप द्रव पयसा गोधुगोषमा घर्मे सिञ्च पय उस्रियाया: ।वि नाकमख्यत् सविता वरेण्यो ऽनु द्यावापृथिवी सुप्रणीति: ॥१०॥१३स्वाहाकृत: शुचिर्देवेषु घर्मो यो अश्विनोश्चमसो देवपानः ।तम् उ विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति ॥१॥सुगा वो देवा: सदना कृणोमि य आचष्टेदं सवनं जुषाणा: ।वहमाना भरमाणा अभ्रा अस्तं घर्मं तमुदातिष्ठतानु ॥२॥शिवा न: शंतमा भव सुमृडीका सरस्वति ।मा ते युयोम संदृश: ॥३॥उपैनं देवो अग्रभीच्चमसेन बृहस्पति: ।यजमानाय सुन्वते इन्द्र गीर्भिर्न आ भर ॥४॥सं मा सिञ्चन्तु मरुत: सं पूषा सं बृहस्पति: ।सं मायमग्नि: सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ! ॥५॥इडा इवास्माङ् अनु वस्तां व्रतेन यस्या: पदे पुनते देवयन्त: ।घृतपदी शक्वरी: सोमपृष्ठोप यज्ञमस्थित वैश्वदेवी ॥६॥द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्रा: ॥७॥तु. शौ.सं. १४.२८यस्ते द्रप्सः स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात् ।अध्वर्योर्वा परि वा य: पवित्रात् तं ते जुहोमि मनसा वषट्कृतम् ॥८॥यस्ते द्रप्स: पतितो ऽवश्च य: पर: स्रुचा ।अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे ॥९॥यस्ते द्रप्सः पतित: पृथिव्यां धानासोमः परीवापः करम्भः ।अयं देवो बृहस्पति: सं तं सिञ्चतु वर्चसे ॥१०॥१४पवस्वतीरोषधय: पयस्वन् मामकं वच:॥अथो पयस्वतां पय आ हरामि सहस्रश: ॥१॥अयमग्निर्वरेण्य आयुष्टे विश्वतो दधत् ।पुनस्त्वा प्राणायति परा यक्ष्मं सुवामि ते ॥२॥जनाद् विश्वजनीनां विशामुरुक्षितीनाम् ।दूरात्त्वामन्ये आभृतमीर्ष्याया नाम भेषजम् ॥३॥दूरादेतत् संभवन्ति इर्ष्याया नाम भेषजम्॥तत् संवेगस्य भेषजं तदस्ना सं गृभायिकम् ॥४॥अग्नेरिव दहतो दावस्य दहतो यथा ।एतामेतस्येर्षां हृद उद्गाग्निमिव वारये ॥५॥अपमार्ज्यपनयन् मन्यन्ते हृदयादधि ।अमुष्मिन्नीर्ष्यामादध्म स्ततो एनां नि दध्मसि ॥६॥तिरश्चिराजेरसितात् पृदाकोरधि संभृतम् ।तत् कंङ्कपर्वणो विषमियं वीरुददूदुषत् ॥७॥दूदुर्षत्इयं वीरुन् मधुजाता मधुश्चुन्मधुला मधूः ।सा वीह्रुतस्य भेषज्यथो मशकजम्भनी ॥८॥यतो दष्टं यत: पीतं ततस्त्वा निर्नयामसि ।अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ॥९॥अयं यो विख्यो विकटो विपरुर्व्यङ्गमुखान्वेषां वृजिना कृणोषि।तानि त्वं देव सवितरिषीकामिव सं नम: ॥१०॥१५यदन्नमद्मि बहुधा विरूपं हिरण्यमश्वमुत गामजामविम्। तु. शौ.सं. ६.७१यदेव किं च प्रतिजग्रहाहमग्निष्टद्विश्वादगदं कृणोतु ॥१॥यदाशसा मे चरतो जनाङ् अनु याचमानस्य वदतो विचुक्षुभे ।यन् मे तन्वो मनसो विरिष्ट सरस्वती तदा पृणातु घृतेन ॥२॥यदारिम प्रतिगृह्णन्त्व एन: शिसासन्तो बलिमग्ने चरन्त: ।त्वन्नस्तस्मादेनसो मुमुग्धि वैश्वानर: प्रति हव्या गृभाय ॥३॥चक्षुषः पाशान् मनसश्च पाशा दीक्षाया: पाशादुत शक्वरीणाम् !तस्मान् मुमुग्धि विश्वावसो त्वं नो दातॄणां दानं भुनजामहे वयम् ॥४॥भुनजाअदुर्मे विश्वे देवा ऽदात्सवितेदम् ।अदान् मे ब्रह्मणस्पति: प्रियो मित्रो अदादिदम् ॥५॥इन्द्रेण मेदिना युजा ऽपवाथे पृतन्यत: ।अधरे सन्तु शत्रव: ॥६॥अग्निरिन्द्रश्च यद्युवं हतो वृत्राण्यप्रति ।उग्रा हि वृत्र हन्तुमा ॥७॥अग्निमिन्द्रं च यद् वयं पुरोधायै हवामहे ।तौ नो मृडातीदृशे ॥८॥याभ्यां स्वरजयनग्रे या वा तस्थतुर्भुवना जुषाणः ।प्रचर्षणी वृषणा वज्रबाहू अग्निमिन्द्रं वृत्रहणा हुवेहम् ॥९॥ययोरोजसा स्तभिता रजांसि यो वीर्यैर्वीरतमा शचीभिः ।यौ पत्येते अप्रतीतौ सहोभिर्विष्णुमगन् वरुणं पूर्वहूति: ॥१०॥ N/A References : N/A Last Updated : May 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP