विंशतिकाण्ड: - ५१ ते ५५
पैप्पलादसंहिता
५१
उत्तभ्नामि गवां क्षीरमुद्रथं रथवाहनम् ।
उत्तभ्नाम्यस्माकं वीरा मयि गावश्च गोपतौ ॥१॥
उत्तभ्नातु सविता देवो अग्निरुन्मित्रावरुणावश्विनोभा ।
सर्वान् सपत्नानवधीर्युगेन विशां पतिरुपसृतैध्यत्र ॥२॥
त्वं हि रुद्र वशिनी निर्नेषे त्वं देवेषूत मानुषेषु ।
यदीशानो नयसि यच्च हिंस्यस्माकमस्तु पितृषु स्वधावत् ॥३॥
वायवा रुन्धि नो मृगानस्मभ्यं मृगयद्भ्यः॥
स नो नेदिष्टमा कृधि वातो हि रशनाकृत: ॥४॥
उदसूर्य उदयत् कृत स्थामगच्छतु ते पुनः ।
यतो नि लयते यत् कृतं तत् प्रस्तम्भमाजतु।
मेमं पृथु प्रवर्तने जघनं स्त्वम्भनं कर ॥५॥
याः पार्श्वे संतनोति हृदयं जिह्वया सह ।
तां त्वं देवी पृथिवी हिक्कामरसां कृधि ॥६॥
अनुसृप्तां गहनेषु धूक्ष्णां पापीं शिमिद्वतीम्॥
तामेतां दस्यूनां दासीं प्र दहातश्चुकाकणि ॥७॥
प्र पपात: सुकटनाळि सुषे: कुषीतकी यथा ।
स्रक्वे ते प्रियं धक्ष्यामि सा नशिष्यसि पृत्थगि ॥८॥
यदास्याः स्रक्वे दहेद्यदा मूर्धानमग्निना ।
अथैषा दस्यूनां दासी पुत्थगि नि लयिष्यते ॥९॥
अहरहर्बलिमित् ते हरन्तो ऽश्वायेव तिष्ठते घासमग्ने ।
रायस्पोषेण समिषा मदन्तोग्ने मा ते प्रतिवेशा रिषाम ॥१o॥
५२
रात्रीं रात्रीमप्रयातं भरन्तो ऽश्वायेव तिष्ठते घासमस्मै ।
रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥१॥
अग्न आयूंषि पवस्वा सुवोर्जमिषं च न: ।
आरे बाधस्व दुच्छुनाम ॥२॥
त्रीण्यायूंषि तव जातवेदस्तिस्रो व्युष्टीरुषसस्ते अग्ने ।
तिस्रोस्ते तन्वो देवशंसितास्ताभिर्नः पाहि सदमप्रमादम् ॥३॥
पाहि नो अग्न एकया पाहि न उत द्वितीयया ।
पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥४ ॥उर्जां
समीची मघायनी पातामायुष्मत्या ऋचो मा छैत्सि ।
तनूपा: साम्नो वसुविदं लोकमनुचराणि ॥५॥
य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।
सन्धाता सन्धिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुन: ॥६ ।
भगेह्यर्वाङ् उपमामिह त्वं मदो नामासि मयि मादयामुम् ।
सुरा त एकमभवज्जनित्रमग्नेरधिजातो ऽसि ब्रह्मणाः तेजसा च ॥७॥
सहानया प्रविशेह अन्तरामाम् प्रविशेह ।
विशन्त्येहि प्रविशन्त्येह्या मा विश प्र मा विशो उप त्वाह्य उप मा ह्वयस्व ।
नरिष्ठा नाम वा असि ॥८॥
यथापः प्रवता यन्ति यथा मासा अहर्ज्जरम् ।
एवा मा ब्रह्मचारिणो धातरायन्तु सर्वदा ॥९॥
आ गन्ता मा रिषण्यत प्रस्तोतारो माप स्थात समन्यवः ।
दृढासो अमयिष्णवो मावपिष्यवः ॥१०॥
५३
धाता ते हस्तमग्रहीत् सविता ते हस्तमग्रहीत् । ..
मित्रस्त्वमसि धर्णणाग्निराचार्यस्तव ॥१॥
अग्ने ब्रह्मचार्यसि मम ब्रह्मचार्यसि ।
प्रजापतिष्टवा गोपायतु देवाय त्वा सवित्रे परि ददामि स्वस्ति चरतादिहासौ ॥२॥
विश्वमसि विश्वपते सर्वमसि सर्वपते ।
तं त्वासौ देवाय त्वा सवित्रे परि ददामि स्वस्ति चरतान्मयि ॥३॥
समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरतामिहास्तु ।
विश्वा द्वेषांसि दुरिता हित्वायं त्वनु व्रता सवितुर्दैव्यस्य ॥४॥
आ नो हस्तौ अकृतागाः स्वर्गः पुनरैतु तन्वा सम्विदानः ।
प्राणेन तेजसा हरसा बलेन मित्रो अस्मान्वरुण भयतस्पातु ॥५॥
यत् काम कामयमाना इदं कृण्मसि ते हविः ।
तन्नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा ॥६॥
यद्वर्चो द्यावापृथिव्योरथो यदाञ्जनं त्वयि ।
तेन सुचक्षार्वर्चस्यहं भूयासमाञ्जन ॥७॥
यदसृक् श्लिष्टं यद् दिवा स्वप्न यानुश्लिष्टं।
आश्लिष्टावच्छेदनमस्यभिदृष्ट वीर्यम् ॥८॥
अववारिव वारिवा अव वर्षं गिरेरिव।
अव ज्यामिव वारिवा अव वर्षं गिरेरिव।
अवज्यामिव धन्वनो हृदि श्लिष्टं छिनद्मि ते ॥९॥
यत् ते हृदि श्लिष्टं यच्चाश्लिष्टं पुरीरति ।
मध्ये सृष्ठीनां यच्छ्लिष्ट तत् पार्ष्णावछिनद्मि ते ॥१०॥
५४
यत् ते श्लिष्टं क्लोम कर्णेषु यच्च शिश्नेषु नाभ्यां । सिस्नेसु
इन्द्रस्तदब्रवीद् भिषक् पार्ष्णिराश्लिष्टावत् छेदनीम् ॥१॥
एषां वै दुष्टं हनामि पार्ष्णिराश्लिष्टावत् छेदनीम् ।
इदमहममुष्मिन्नामुष्यायणे ऽमुष्याः पुत्रस्याश्लिष्टं प्र छिनद्मि ॥२॥
विपश्चित् पुच्छमाभरत् तद्विष्णुः पुनराभरत् ।
तदग्निना मनसा संविदान पुमांसमस्यै पुत्र देहि स्वाहा ॥३॥
विपश्चित् पुच्छमाभरत् यर्ज्जरहस्ताचित्या ।
यथास्या: पुत्रो जायतां अभिभूर्णो विपश्चिता ॥४॥
अपेहीतो विपश्चित् त्वं पुमानयं जनिष्यते ।
पुमान् पुंसो अधि संभूतः स पुमानेव जायताम् ॥५॥
भद्राय कर्णः क्रोशतु भद्रायाक्षि वि वेपताम् ।
ऐंग्रा दुष्वप्न्यं सुव यद् भद्रं तन्न आ सुव ॥६॥
अक्षिवेपं दुष्वप्न्यमार्तिं पुरुषरेषिणीम् ।
तदस्मदश्विना युवमप्रिये प्रति मुञ्चतम् ॥७॥
यत् पार्श्वादुरसो मे अङ्गादङ्गादुपवेपते ।
अश्विना पुष्करस्रजा तस्मान् नः पातमंहसः ॥८॥
यदीदमृतकाम्याघंरिप्रमुपेयिम ।
अन्ध: श्रोता इव ह्रीयतां मा नोन्वांगादघं यत: ॥९॥
अरिप्रा आपो अपरिप्रमस्मत् ।
योस्मान् द्वेष्टि यं च वयं द्विष्मस्तस्मिन् दुष्वप्न्य मा सृजामि ॥१०॥
५५
अदर्शि गातुवित्तमो यस्मिन् व्रतान्यादधुः ।
उपो षु जातमार्यस्य वर्धनं सोमं गच्छन्तु नो गिर: ॥१॥
प्र दैवोदासो अग्निर्देवाङ् अच्छा न मज्मना ।
अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥२॥
यस्माद्रेजन्तु कृष्टयश्चर्कृत्यानि कृण्वतः ।
सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्दुवस्य च ॥३॥
आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् ।
भवा वाजस्य संगथे ॥४॥
आ प्यायस्व मदिन्तम सोम विश्वेभिरंशुभिः॥
भवा नः सुम्नयुः सखा वृधे ॥५॥
सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः ।
आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व ॥६॥
विद्म त्वा वयं सोमं राजानं ये त्वा न विदुः ।
तेषां चक्षुषा श्रोत्रेण प्राणेन प्रजया पशुभिर्गृहैर्धनेना प्यायस्व ॥७॥
आपीलो अस्मान् आ प्यायच्चक्षुषा श्रोत्रेण प्राणेन
प्रजया पशुभिर्गृहैर्धनेना प्यायस्व ॥८॥
यद् वेद राजा वरुणो वेद देवो बृहस्पतिः ।
इन्द्रो यद् वृत्रहा वेद तत् सत्यं चित्तमर्हणम् ॥९॥
सर्वेण नीलशिखण्डेन भवेन मरुतां पित्रा।
विरूपाक्षेण बभ्रूणा वाचं वदिष्यतो हतम् ॥१०॥
N/A
References : N/A
Last Updated : May 13, 2021
TOP