संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|एकर्चोनाम विंशतिकाण्ड| ३६ ते ४० एकर्चोनाम विंशतिकाण्ड १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ विंशतिकाण्ड: - ३६ ते ४० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ३६ ते ४० Translation - भाषांतर ३६इन्द्राणी नारी सुभगा सुपत्न्युदंशेन पतिविद्ये बिभेद ।त्रिंशद्यस्या जघनं योजनान्युपस्थ इन्द्रं स्थवीरं पिपर्त्तु ॥१॥सेनासि पृथिवी धनंजया अदितिर्विश्वरूपा सूर्यत्वक् ।इन्द्राणी प्राषाट् संजयन्ती तस्यै त एना हविषा विधेम ॥२॥अजिरोत्तिष्ठत्युत्थिताग्रे त्वरी प्राषाट् तूर्त्तमुप चरन्तीम् !प्राषाट कस्त्वियिषोग्रे त्वरिकत्स्वयिष मे स त्वा भद्रे ॥३॥पर्यावर्ते दुष्वप्न्यात् पापात् स्वप्नादभूत्याः ।ब्रह्माहमन्तरं कृण्वे परा स्वप्नमुखा: शुचः ॥४॥यत् स्वप्ने अन्नमश्नामि न प्रातरधिगम्यते ।सर्वं तदस्तु नः शिवं नहि तद् दृश्यते दिवा ॥५॥(इत्येकर्चनाम विंशतिकाण्डे षष्ठो अनुवाकः)३७विश्वं विव्यज्मि पृथिवीव पुष्टमायदायत् प्रतिगृह्णाम्यन्नम् ।वैश्वानरस्य महतो महिम्ना स्योनमस्मभ्यं मधुमत् कृणोतु ॥१॥त्रिशृङ्गमसि दुरभिधर्षमिन्द्राय ध्रियसे ।पूषा ते प्राषिता ! ॥२॥पाहि नो अग्ने तन्वं पाहि गाः पाहि यत् तनू कृतम् । ..अहुतादावमर्त्यौ तावस्मिन् पातु अंहसः ॥३॥यौ देवानामहुतादावमर्त्यौ स्वर्भानुश्च स्वर्ज्योतिश्च ।तयोस्त्वास्येन प्राश्नाम्यग्नेष्ट्वा वैश्वानरस्य त्चास्येन प्राश्नामि ॥४॥दक्षश्च त्वा मानस: प्राश्नीतां स्वर्भानुश्च मारुत: ।सा पृणन् पूर्त्वा वि राधिमो वयं प्रजया धनेन ॥५॥अनाधृष्यस्य ते पितोरनाधृष्य: शवसः ।सर्ववीरा: सर्वात्मानो भक्षं क्रियास्म ॥६॥कामो मे राज्ञः प्र विवेश त्वां तमहं निरुह्यये पुन: ।गृहेषु गोषु मे मनो अक्षोरस्तु मे भगो जिह्वायामस्तु मे रसो बाह्वोरस्तु मे बलमूर्वोरस्तु मे जव: ॥७॥वाह्वोदिवो ऽसि निर्मथितं पृथिव्या अध्युद्भृतम् ।समुद्रादुच्यसे जातमक्ष्यामय भेषजमस्याथर्वणम् ॥८॥पूषा पुरस्तादावर्तय चतस्रो भूम्यादिश: ।सगलिग पूषलिग पुनर्न नष्टमायति जीवेन भुनजामहै ॥९॥यदाभरच्छृजदग्नि: तेजने नष्टवेदनम् ।खर्गलेव पुनर्दहं पुनरस्माश्विना नष्टमाजतम् ॥१०॥३८यद्यस्यप्रियजा यदि वान्यत आभृतः ।विसल्पकस्य भेषजीर्देवीराप इमामवन् ॥१॥वयस्य पूतिकस्य दृशाम्वस्योत शर्मुत: ।तेषां समग्रभं शुष्ममाशूनान् धावतामिव ॥२॥यस्तनुः पृथुर्वीणा वधू इव प्र सर्पति ।मयूरः किल ते विषं कृक वा कृश्च जक्षतु ॥३॥उदीचीन: प्र तनोति नितत्नीर्भूम्यामधिम् । र्भुम्याओज्मानं पश्य वीरुधो मिथुना समवीवनत् ॥४॥नि त्वा तनन्नितत्निना परि त्वा गां सहीयसा ।सेनादभिद्रवीयसी सुपर्णान्नि गरीयसी ॥५॥यदत्रापि मधोरहं निरिष्टं विषमश्नुतम् ।अग्निश्च तत् सविता च पुनर्मे जठरे धत्ताम् ॥६॥अग्ने रुद्रस्य जायासि दुहितासि प्रजापतेः ।उच्चै: श्लोको दानपत्नी हवीश्रव उप त्वा ह्वयस्व उप त्वा मा हयस्व ॥७॥नरिष्टा नाम वा असि ।यासौ हरिणो वृक: उलादधि प्र स्कन्दति ।एवा नि स्कन्दति पित्र्यात् भगं जयन्ती धनं जयन्ती ॥८॥रिज्यश्वा मह्यमब्रवीत् गन्धर्वस्यानुशासनम् ।एतत्ते पतिवेदनम् ॥९॥पाटा भिनत्ति कुम्भीं पाटा कुम्भी गो दहनीम ।पाटा सर्वस्य पात्रस्य वधूं कृणोतु विश्वत: ॥१०॥३९अपेहि तक्मन्चर परो अन्यमस्मदिच्छ पुरुषं किं च दैवम् ।वेद ते तक्मन् पितरं वेद मातरम् ॥१॥शमीवान् यशसामेति शमीवानभिशोकः ।अभिशोकोहार्षणी हर्षणी जांजभि: ॥२॥यः पशूनां मार्जनीयो यं त्वमंशेन भेजिषे ।अभि हि तक्मन् न गर्दभं न मामभ्येतुमर्हति ॥३॥विस्निस नाम ते माता किकसा नाम ते पिता ।शमिदा नाम ते स्वसा ।गिरिं गच्छ गिरिजा असि गिरी ते माहिषो गृह: ॥४॥दासी चक्रमा स्थापनास्ना ते निष्क्रन्दयिष्यति ।आा वातो वात्वनघः सर्वस्य दूतो अभिशस्ति या: ॥५॥जलासमित् प्र सिञ्चतु तद्विषस्यापसिञ्चतु ।यामस्यति पृश्निबाहुरिष्टं हरिद्रुपर्ण्यम् ॥६॥तामस्य निष्खिदामसि यथा जीवासि भद्रया |अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च ॥७॥उत् कुलमुद्वहो भुवोदुह्यत् प्रतिधावतात् ॥एतं दन्तं निर्ऋत्या घोरमाहुर्यस्त आसन्नवरूढ एष: ॥८॥न्नवरुढतं दुर्हार्दे प्रहिणोमि घोरं मा नो हिंसीज्ज्यायसो मा कनीयसः । हींसीशिव: शग्म भवतु दन्त एष मा नो हिंसीज्ज्यायसो मा कनीयसः ॥९॥हींसी अघमारमघशंसं निर्ऋथं तं ते दन्तं सचतां घोर एषः ॥१०॥४०अघमारमघशंसं निर्ऋथं दुहार्दे दन्तं प्रहिणोमि घोरम् ।सो अस्यात्तु द्विपदश्चतुष्पदः शिवो अस्मभ्यं सुमना अत्स्वेषः ॥१॥शिवं ते दन्तं हविषा कृणोमि शिवो मह्यं कुर्वते दन्तो अस्तु ।शिवानि ते त्रीणि त्रिकद्रुकाणि सन्तु शिवो मह्यं नभसीरोदसीस्ताम् ॥२॥त्रिणिपुरुरूपा पृथुपेषा अरंकृद्वहतोरसि ।प्रतिष्ठासि चतुष्पदां यस्त एष पञ्चमः पादस्तं तेन प्रतिगृह्णामि ॥३॥स सर्परी रमतिं वाधमाना बृहन् मीमाय यमदग्नि दत्ता ।आ सूर्य दुहिता ततान श्रवो देष्वमृतमदुर्यम् ॥४॥स सर्परीरभरत् भूयमेभ्यो ऽधिश्रव: पाञ्चजन्याषु कृष्टिषु ।सा पक्षीया न भूमायुर्दधाना यां मे पुलस्ति यमदग्नयो ददु: ॥५॥अघ्न्ये ये दूरमुत्क्रन्दन्निपदचतुरो जहि ।अथा गो दुह: शीर्षणि शपां उरसि वा दय ॥६॥शृङ्गाभ्यामुपस्रष्टारं पदावर्तय गो दुहम् ।अथो ये अन्ये तिष्ठन्ति तान् विशूचो विनाशय ॥७॥यथानर्त्ता सक्षिकाजिं कुल्पं मभिनृत्यति ।एवा त्वमघ्न्ये पद: सर्वान् साकमुदर्दय ॥८॥उदुक्षीरमुत्तभितं स्यन्दन्तामस्य धेनव: ।असृक्तस्य गावो दुहां यो अस्मान्नापचायति ॥९॥ऋक्षीकाया यथा मनो व्याघ्रस्य यथा मन:॥एवा तस्य गवां मनो अस्मान्नापचायति ॥१०॥ N/A References : N/A Last Updated : May 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP