संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|एकर्चोनाम विंशतिकाण्ड| १६ ते २० एकर्चोनाम विंशतिकाण्ड १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ विंशतिकाण्ड: - १६ ते २० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १६ ते २० Translation - भाषांतर १६ययोरप्षु न महिमा नदीषु प्ररिरिचे प्रति विरोचनायाम् ।ययोरस्त्यनुमतिर्भूयिष्टं विष्णुमगन् वरुणं पूर्वहूति: ॥१॥र्भुयिष्टंययोरिदं प्रदिशि यद् विरोचते प्र चानति वि च चष्टे शचीभिः । सचीभिःसह ऋतस्य धर्मणा युवाना विष्णुमगन् वरुणं पूर्वहूति: ॥२॥उभा जिग्यथुर्न परा जयेते न परा जिग्ये कतरश्चनैव वाम्।इन्द्रश्च विषयो यदपस्पृधेथां त्रेधा सहस्रं वि तदीरयेथाम् ॥३॥यदशुद्धं यदनृतं यच्चरामि पापया ।आपो मा तस्मादेनसो दुरितात् पान्तु विश्वत: ॥४॥दुष्वप्न्यं दुर्जीवितं रक्षो अभ्वमराय्य: ।दुर्वाच: सर्वं दुर्भूतं तदितो नाशयामसि ॥५॥दुर्भूयदवामृक्षत् कृष्णशकुनिर्मुखेन निर्ऋते तव ।अग्निष्टत्सर्वं शुन्धतु हव्यवाट् घृतसूदन: ॥६॥यदस्मान् कृष्णशकुनिर्निष्पतित आनशे !आपो मा तस्मादेनसो दुरितात् पान्तु विश्वत: ॥७॥अग्निर्मा पातु प्रथमो दुर्णाम्नो निर्ऋत्यां विश्वा दुरितानि मृज्महे ।विश्वे मा देवा मरुतः पुनन्तु वरुणो राजा सविता पवित्रै: ॥८॥अन्तरिक्षे पतति यातुधान निबोधित: ।स्तोकं यमभ्यचुच्युत तम् उ स्योनं कृणोमि ते ॥९॥यद् वा कृष्णो अभ्यरुक्षद् देवेभ्यस्परि निर्हतः ।शिवं ते तन्वे तत् कृण्मो वि ते पाशांश्चृतामसि ॥१०॥१७तृष्टिके तृष्टवन्दन उदमूं छिन्धि तृष्टिके।यथा कृतद्विष्टेदशत्सर्वस्मै शेप्यावते ॥१॥तृष्टासि तृष्टिकासि विषा विषातक्यसि ।परिवृक्ता यथासस्यृषभेण वशेव ॥२॥आ ते ददे वक्षणाभ्य आ ददे हृदयादधि ।आ ते मुखस्य यद वर्च आ पुंसो यत्र तृप्ससि ॥३॥मयि वर्चो मयि श्रवो मयि द्युम्नं मयि त्विषि: ।अहं ते वर्च आ ददे ऽहं भूयासमुत्तम: ॥४॥(इत्येकर्चोनाम विंशतिकाण्डे तृतीयो नुवाकः)१८अभि प्रागात् सहस्राक्षो युक्त्वा शपथो रथम् ।शप्तारमन्विच्छन् यातु वृक इवाविमतो गृहम् ॥१॥परि णो वृङ्धि शपथ ह्रदमग्निरिवा दहन् ।शप्तारमत्र त्वं जहि दिव्या वृक्षमिवाशनि: ॥२॥यो नः शपादशपत: शपतो यश्च न: शपात् ।वृक्ष इव विद्युता हत आ मूलादनु शुष्यतु ॥३॥तु. शौ.सं. ५९शप्तारं यन्तु शपथा य: सुहार्त्तेन नः सह !जिह्वा श्लोक्ष्णरय दुर्हार्द: पृष्टीरपि शूणीमसि ॥४॥यं द्विष्मो यश्च नो द्वेष्ट्यघायुर्यश्च न: शपात् ।शुने प्रेष्ट्रमिवा वक्षाम तं प्रत्यस्यामि मृत्यवे ॥५॥प्रेतो यन्तु व्याध्य: प्राणुध्याः प्रो अशस्तय: ।अग्नी रक्षस्विनीर्हन्तु सोमो हन्तु दुरस्यतीः ॥६॥प्र पतेत: पापि लक्ष्मि नश्येत: प्रामुत: पत: ।अयस्मयेनाङ्केन यं द्विष्मस्तस्मिन् त्वा सृजाम: ॥७॥या त्वा लक्ष्मीः पतयालुरजुष्टा अभि चस्कन्द वन्दनेव वृक्षम् ।अन्यत्रास्मत् सवितस्तामितो धा हिरण्यहस्तो वसु नो रराण:॥८॥!निररणिं सविता साविषत् पदोर्निर्हस्तयोर्वरुणो मित्रो अर्यमा ।निरादित्या अनुमती रराणा प्र ण: सुवात् सविता सौभगाय ॥९॥एकशतं लक्ष्म्य: साकं मर्त्यस्य जनुषेह जाता: ।तासां पापिष्ठा निरित: प्र हिण्म: शिवा अस्मभ्यं जातवेदो नि यच्छ ॥१०॥१९यत् त आत्मन् तन्वां घोरमस्ति यद् वा केशेषु प्रतिचक्षणे वा।तत् ते विद्वान् अपबाधे अहं प्र त्वा सुवात् सविता सौभगाय॥१॥वाधेनिर्लक्ष्म्यं ललाम्यं निररातिं सुवामसि ।यथा नो ऽस्य सीदतो रायस्पोषमिहा सुव ॥२॥अग्निमच्छा देवयतां मनांसि चक्षूंषीव सूर्यं सं चरन्ति । चक्षुंयदीं सुवाते उषसा विरूपे श्वेतो वाजी जायसे अग्रे अह्नाम् ॥३॥रुपेइन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति । तु. शौ.सं. १५ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक् ॥४॥शकुनिर्भूत्चा प्रभवस्ति पिण्पलं पत्या निविष्टा यदि वाघ पत्न्या ।भीमाघोरा लक्ष्म्यो: सह भव्यास्ता इतो हविषा निर्यजाम ॥५॥या ते गृहेषू तया धनेषु प्रजा लक्ष्मीर्यदि वा ते बभस्ति ।तां बृहस्पतिर्हविषा वाधमानो निर्ह्वय प्रदध्मादधिदूरमस्मत् ॥६॥रिश्यपदिं वृषदतीं गोषेधां विधमामुत ।विलीढयं व्याधिं ब्रह्मणा तां अनीनशम् ॥७॥प्रत्योषन्तीमुत्सङ्गिनीमुतचित्रानुतारिणीम् ।सिंहीं ज्येष्ठलक्ष्मीं व्याघ्रीं नाशयामसि ॥८॥अनुध्यायिनीं परिचरां विबद्धामुत हिंसतीम् ।रोदस्य पत्नीं रोदनां प्रपदसामलक्ष्म्य: ॥९॥वामस्पृहां पितृषदं एषन्तीं तपनीमुत ।असिद्धन्ती प्रध्वंसिनी मष्ट्रावधां च लक्ष्म्यं ब्रह्मणा तामनीनशम् ॥१०॥२०असन्मन्त्य्रां वचस्यां संपिबन्तीं शक्वरीम् ।उत् तदा जनङ्गमां प्रताधमामि लक्ष्म्य: ॥१॥या ते घोरा तन्वामाविवेश या ते लक्ष्मी: सर्वाः समक्ताः ।अग्निष्टे तास्वदत्त सौभगायापः शुन्धन्तु बृहते रणाय ॥२॥अदेवरघ्नीं वरुणापतिघ्नीं बृहस्पते।इन्द्रपुत्रघ्नीं लक्ष्मीमस्यै ता: सवित: सुव ॥३॥या ते लक्ष्मीश्चाक्षुषी यो तदस्तु या हस्तयो: स्तनयोर्योपपक्षयो: ।श्रोण्योर्भंससि या पदोष्ठे सर्वास्ता अति क्रामन् घोरा: ॥४॥ऊरुभ्यां ते अष्ठीवद्भ्यां प्रार्ष्णीभ्यां प्रपदाभ्याम् । उरु तु. शौ.सं. २०.९६.२१लक्ष्मी: श्रोणीभ्यामङ्गभ्यो या: पापीस्ता अनीनशम् ॥५॥अपाश्लीलं पृथिवी हन्तु यत् पदोरुप यो हस्तयोर्वरुणो मित्रो अर्यमा । रूपअपादित्या अनुमती रराणा प्र ण: सुवात सविता सौभगाय ॥६॥एता एना व्याकर खिले गा अदितीरिव ।रमन्तां भद्रा लक्ष्म्यो याः पापीस्ता अनीनशम् ॥७॥सायुषी नाम वा असि सहमाना सहस्वती ।गृहकपोतिमनुवर्तिनीं कुलायिनीं ता इहा वेशयामसि ॥८॥ नुबसंचारिण्युभैर्या बभूवान्या अन्यां जिन्वति भद्रपापी: ।तां लक्ष्मी निहवान यो मे भद्रां सुभद्रामपि सौभगाय ॥९॥एकशतं लक्ष्म्यास्तासां राज्ञी बभूविथ ।भद्राभिर्भद्रे संभूय भट्रेणाभि सजस्व न: ॥१०॥ N/A References : N/A Last Updated : May 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP