संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|एकर्चोनाम विंशतिकाण्ड| २१ ते २५ एकर्चोनाम विंशतिकाण्ड १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ विंशतिकाण्ड: - २१ ते २५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता २१ ते २५ Translation - भाषांतर २१दिवस्पृथिव्या: पर्यन्तरिक्षाद् वातात् पशुभ्यो अध्योषधीभ्यः। पयर्न्त तु. शौ.सं. १३यतो लक्ष्मी वृजिना: संबभूव सा ब्रह्मणा प्रच्युता दूरमेतु ॥१॥वालदुच्छस्य च गन्धेन हिरण्यवर्चसेन च ।आ तु पुष्करिण्या यो गन्धो भगो मा तेन जिन्वतु ॥२॥यदिन्द्रो अग्रे असुरान् जघान यतो लक्ष्मीर्न्यदधुर्मर्त्येषु ।तासां पापिष्ठा निरित: सुवाम: शिवा अस्यै जातवेदो नि यच्छ ॥३॥या त्वा लक्ष्मीर्देवरघ्नी या पतिघ्नी गृहेभ्यस्त्चा नुदते या व्याडाः ।अतस्त्वमेनसो मुच्यमानोत्तरेमा: स्रोत्या: सप्तसाकम् ॥४॥निपिशन्तीं नितुदन्तीं संपिबन्तीं न्यक्वरी ।प्रभङ्गा भ्रूणघ्नीं लक्ष्मीं ब्रह्मणा ता अनीनशम् ॥५॥उदोजिष्ठां सहस्रां जयन्तीमपराजिताम् ।लक्ष्मीर्याः पुण्या: कल्याणीस्ता अस्यै सवित: सुव ॥६॥अलक्ष्मी: समलिप्सत समलिप्सत लक्ष्म्य: ।अजैषुर्भद्रा लक्ष्मी: परा पापीरजेषत ॥७॥लक्ष्मीणां लक्ष्मीतमे लक्ष्मीणामधिपा असि ।तं चाहं शुद्धो गोप्स्यामि देवजा हि बभूविथ ॥८॥सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ सचेतसौ ।येन संगच्छादुप मा स तिष्ठादन्तर्वदामि हृदये जनानाम् ॥९॥सभा सेना समितिश्वावतां प्रजापतेर्दुहितर: सचेतस: ।येन वदाम्युप मा स शिक्षादन्तर्वदामि हदये जनानाम् ॥१०॥२२मां वदन्तु मानु सर्वे वदन्तु मां प्राणन्तु मानु प्राणन्तु भयेमां विशन्तु मानु सर्वे विशन्तु मयि देवा एकव्रता भवन्तु ॥१॥सूर्यो मा चक्षुष: पातु बृहस्पतिर्वाच: सोमो राजा सभाया: |इन्द्रो वो दृशे भवामि ॥२॥वेद वै ते सभे नाम सुभद्रासि सरस्वति ।अथो ये ते सभासदस्ते मे सन्तु सुवाचस: ॥३॥इमा या ब्रह्मणस्पते विषूचीर्वात ईरते । इरसध्रीचीरिन्द्र ता: कृत्वा महां शिवतमा: कृधि ॥४॥अहमेषां हस्तिरसमहं विज्ञान मा ददे ।सर्वस्या: अस्या: संमदो ऽहं भूयासमुत्तम: इन्द्रो योगायथामिव ॥५॥उत्तममवोत्तमे कृध्युत्तमा हि बभूविथ ।यां त्वा भुरण्युरुन्वैच्छन् गन्धर्व शारदः शतम् ॥६॥अभिभूरहमागममहं भूयासमुत्तम: ।इदं प्रतिप्रवादिनं द्विषन्तमवधून्वे ॥७॥उरुष्टे वस्तिर्भवतु समुद्रस्य बिलं यथा ।पुरोदकमिव सिच्य तं मूत्रन्ते तन्वस्परि ॥८॥यथा वातो यथोदकं यथा समुद्र एजति ।एवा ते गर्भ एजतु निरैतु दशमास्यो बहिर्जरायुणा सह ॥९॥इदमुच्छ्रेयो ऽवसानमागां शिवे मे द्यावापृथिवी अभूताम् ।असपत्ना: प्रदिशो मे भवन्तु न वै त्वा द्विष्मो अभयं नो अस्तु ॥१०॥॥२३वास्तोष्पत इह नः शर्म यच्छ भद्राच्छ्रेयो अभि नो नेषस्व ।अरिष्टा वीरा इह मे भवन्तु द्विपाच्चतुष्पान् मय्यस्तु पृष्टम् ॥१॥अनमीवो वास्तोष्पते विश्वारूपाण्याविशन् । स्तष्पसखा सुशेव एधि नः ॥२॥ऋतेन स्थूणा अघि रोह वंशोग्रो विराजोन्नप वृङ्क्ष्व शत्रून् ।मा ते रिषन्नुपसत्तारो अत्र विराजां जीवात् शरद: शतानि ॥३॥आरोहतं पक्षावमृतं वसानौ दंपत्यो: कृणुतं दीर्घमायु: ।तत्र नारी पुत्रिणी जीवपत्नीदं कुलायमुप संविशाति ॥४॥अग्निर्मा विश्वाद् दुरितात् पुनातु मातरिश्वा पवमान: पुरस्तात्।सोमो मा पातु मरुतो बृहस्पतिर्वायुश्च मा पवमान: पुनीतां ॥५॥त्वया सत्यं वि जयन्ते तव सत्यं वि वाचनम् ।अग्रे वृक्षस्य जायस इमं जनय पौरुषम् ॥६॥वृक्षस्य शतशाखस्य मा धुन्तस्य निकृन्त नः ।बिभीतकस्य यत् फलं तेन त्वोन्मादयामसि ॥७॥विभीपूर्वे वातात् प्र पततं पूर्वे पततमश्विभ्याम् ।ईमेन्वर्वणी अहमुह्ने वाग्निमवीवरे ॥८॥मा यक्ष्ममिह हाशिष्ट मारिष्वन्तो विगातु नः ।सुभूतमस्मभ्यं धत्त युष्मानन्वेतु किल्बिषम् ॥९॥किल्विइह वर्च इह पय इह चक्षुरुप ह्वये ।इहेन्द्रियं दधातन ॥१o॥२४आ हि हरि अवाप्ततामिमं वत्संवनादियम् ।आपकामं ह्यघ्न्ये वत्सो देवीममारते ॥१॥ये त्वोप विदुर्विदुन् निजवत् शेप दोहस्व ।अहं ते वेद: सं मन: संवननस्य वेदते ॥२॥एष ते अघ्न्ये वत्सस्तं वाञ्छ: ।तं सत्योक्तिं ब्रूम: ॥३॥या सरस्वती गोवननी सा वामेनां कसान्येत्य । गोबननीइमां गां वानयतु स्वाहा ॥४॥ड़्त्येकर्चनाम विंशतिकाण्डे चतुर्थो ऽनुवाक:२५दूराद् भेषजमाभृतम् बहून्यतियोजना: ।अपश्यमस्यन्तं रुद्रं अदुष्टं दुष्कृतं करत् ॥१॥दूष्टंभिनद्मि ते परावतो वत्सस्य शेप्यामिव ।वृषेदसो यथा मयि कृष्णो विषाणवाङ् इव ॥२॥सर्वा गाव: संमनसः सत्सभय: सनाभयः ।समानं बिभ्रतीर्नावं वत्सान् उज्जिहतामिथ: ॥३॥इन्द्रस्त्वाग्रे अवानयत् सविता त्वोतो ऽपर: ।तृतीयमश्विना त्वाघ्न्ये वांञ्छ: ॥४॥आ ते नयतु सविता सविता नयतु बृहस्पतिः।पतिर्य: पतिकाम्यस्तमस्मै धेह्योषधे ॥५॥इन्द्रं वयमनुराधं हवामहे अनु राध्यास्म द्विपदा चतुष्पदा ।मा नः सेना अररुषीरुप गुर्विषूचीरिन्द्र द्रुहो वि नाशय ॥६॥भग प्रेहि प्रथमोनु त्वा वयमेमसि ।इन्द्राग्नी ब्रह्मणास्मान् स्वस्ति नयतां पथा ॥७॥अदितिः प्रैतु प्रथमा बृहस्पति: पुरयेता ते अस्तु ।इन्द्रोभयान् व्यस्यतु शूद्रांश्च न आर्याश्च ॥८॥इमे ये अनसि युक्ता उष्टारा उत्त पील्वा: ।तेषां समग्रभं पद: समीर्मान् समुसक्थ्य: ॥९॥विमध्यमा अप्रोषत गर्दभा क्षिपिता इव !अथासुरस्य मायया न इदं स्थापयामसि ॥१०॥ N/A References : N/A Last Updated : May 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP