संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|एकर्चोनाम विंशतिकाण्ड| १ ते ५ एकर्चोनाम विंशतिकाण्ड १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ विंशतिकाण्ड: - १ ते ५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १ ते ५ Translation - भाषांतर १धीती वा ये अनयन् वाचो अग्रं मनसा वा येवदन्नृतानि । तु. शौ.सं. १तृतीयेन ब्रह्मणा वावृधानास्तुरीयेणामन्वत नाम धेनोः ॥१॥स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत् स भुवत् पुनर्मघः ।स द्यामौर्णोदन्तरिक्षं स स्वर्विश्वा भुवो अभवत् स आभवत् ॥२॥अथर्वाणं पितरं विश्वदेवं मातुर्गर्भं पितरसुं युवानम् ।य इं चिकेता अमृतस्य धामन् नित्यस्य रायः परिधीँरपश्यत् ॥३॥शिवास्त एका अशिवास्त एकाः सर्वा बिभर्ष्यहृणीयमानः ।गुहा वाच निहितास्तिस्र एता एकेदिदं वि बभूवानु सर्वे ॥४॥बभुबभु अदितिद्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्र: ।विश्वे देवा अदिति: पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥५॥दितेः पुत्राणामदितेरकार्षं महाशर्मणां महतामनर्मणाम् ।तेषां हि धाम गभिषक् समुद्रियं नैषां ये अपस: परो अस्ति किं चन ॥६॥वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे ।यस्यामिदं विश्वं भुवनमाविवेश सा नो देवी सुहवा शर्म यच्छतु ॥७॥महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हुवेम ।तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम् ॥८॥सुत्रामाणं पृथिवी द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् । सूत्रादैवीं नावं स्वरित्रामनागसो अस्रवन्तीमा रुहेमा स्वस्तये ॥९॥एकया च दशभिश्चा सुहुते द्वाभ्यामिष्टये विंशत्या च ।तिसृभिश्च वहसे त्रिंशता च वियुग्भिर्वायविह ता वि मुञ्च॥१०॥२अया विष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः । तु. शौ.सं. ३स प्रत्युदैद्धरुणे मध्वो अग्रं स्वा यत् तनू तन्वामैरयन्त ॥१॥यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवा: ॥२॥यज्ञो बभूव स आ बभूव स पृथिव्या अधिपतिर्बभूव ।स प्रत्य यज्ञे स उ वावृधे पुनः सो अस्मासु द्रविणमा दधातु ॥३॥देवा यद् देवान् हविषायजन्तामर्त्त्यान् मनसामर्त्त्येन ।ब्रवाम तत्र परमे व्योमन् पश्येम तदुदितौ सूर्यस्य ॥४॥मुग्धा देवा उत शुनायजन्तोत गोरङ्गैर्बहुधायजन्त । र्वहुय इमं यज्ञं मनसान्वविन्दत् प्र णो वोचस्तमिहेह ब्रवाम ॥५॥यत् पुरुषेण हविषा देवा यज्ञमतन्वत ।क्वस्वीत्तदद्य नो श्रेयान् यद् वि हव्येनेजिरे ॥६॥इन्द्रः सुत्रामा स्ववाङ् अवोभिः सुमृडीको भवतु विश्व वेदाः ।बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥७॥स सुत्रामा स्ववाङ् इन्द्रो अस्मदाराच्चिद् द्वेषः सनुतर्युयोतु ।तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥८॥यस्ते पृथु स्तनइत्नुर्य ऋष्वो यो दैवः केतुर्विश्वमाभूषतीदम् ।मृडया नो विद्युता देव सस्यं मोत वधी रश्मिभिः सूर्यस्य ॥९॥यस्ते स्तनः शशयुर्यो मयोभूर्यः सुम्नयुः सुहवो यः सुदक्ष: ।येन विश्वा वनसि वार्याणि सरस्वति तमिह धातवे कः ॥१०॥३इदं ते हव्यं घृतवत् सरस्वतीदं पितॄणां हविरास्यं यत् । तु. शौ.सं. ६८इमानि त उदिता शंतमानि तेभिर्वयं मघवानः स्याम ॥१॥प्रपथे पथामजनिष्ट पूषा प्रपथे दिव: प्रपथे पृथिव्या: ।उभे अभि प्रियतमे सधस्थे आा च परा च चरति प्रजानन् ॥२॥पूषेमा आशा अनु वेद सर्वाः सो अस्माङ् अभयतमेन नेषत् ।स्वस्तिदा आघृणिः सर्ववीरोप्रयुच्छन् पुर एतु प्रजानन् ॥३॥पूषा गा अन्ये तु न: पूषा रक्षत्वर्वत:॥पूषावाजां स नो तु नः ॥४॥पूषन् तव व्रते वयं न रिष्येम कदा चन । ब्रतेस्तोतारस्त इह स्मसि ॥५॥शुक्रं ते अन्यद्यजतं ते अन्यद् विषुरूपे अहनी द्यौरिवासि ।विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥६॥धाता दधातु दाशुषे प्राञ्चं जीवातुमक्षिताम् ।वयं देवस्य धीमहि सुमतिं सत्यधर्मणः ॥७॥धाता विश्वानि दाशुषे दधातु प्रजाकामाय दाशुषे दुरोणे॥तस्य प्रजा अमृताः सं व्ययन्तु विश्वे देवासो अदितिः सजोषाः ॥८॥धाताराति: सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः ।त्वष्टा पूषा प्रजया सं रराणा यजमानाय द्रविणं दधातु ॥९॥धाता प्रजानामुत राय ईशे धातेदं विश्वं भुवनं जजान ।सं दाशुषे वहतु भूरिपुष्टा तस्मै देवाय हविषा विधेम ॥१०॥४सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै ! १ तु. शौ.सं. १४अथास्मभ्यं सवितर्वार्याणि दिवे दिवे आ सुवा भूरि पश्वः ॥१॥भद्रादधि श्रेयः प्रेहि बृहस्पति: पुरएता ते अस्तु ।अथेममस्या वर आ पृथिव्या आरे शत्रुं कृणुहि सर्ववीरम् ॥२॥दमूना देवः सविता वरेण्यो दधद् रत्नं दक्षं पितृभ्य आयूंषि ।पिबात् सोमं ममददेनमिष्टे परिज्मा चित् रमते अस्य धर्मणि ॥३॥तां सवितु: सत्यसवस्य चित्रां वयं देवस्य प्रसवे मनामहे ।यामस्य कण्वो अदुहत् प्रपीनां सहस्रधारां महिषो भगाय ॥४॥को नो अस्या द्रुहोवद्यवत्या उन्नेष्यति क्षत्रियो वस्य इच्छन् ।क पूर्तिकामः क उ यज्ञकामः को देवेषु वनुते दीर्घमायुः ॥५॥कः पृश्निं धेनुं वरुणेन दत्तामथर्वणे सुदुघां नित्यवत्साम्॥तां बृहस्पतिना सख्यं दुहानो यथावशं तन्वं कल्पयाति ॥६॥न घ्रंस्तताप न हिमो जघान प्र सरस्तते पृथिवी जीरदानुः ।आपश्चिदस्मै सदमित् क्षरन्ति यत्र सोमः सदमित् तत्र भद्रम् ॥७॥यस्या उपस्थ उर्वन्तरिक्षं सा न: शर्म बहुलं नि यच्छात् ॥८॥अन्वद्य नो अनुमतिर्यज्ञं देवेषु यच्छताम् ।अग्निश्च हव्यवाहनो भवतां दाशुषे मयः ॥९॥अन्विदनुमते त्वं मंससे शं च नस्कृधि ।इषं तोकाय नो दधत् प्र ण आयुंषि तारिषन् ॥१०॥५अनु मन्यतामनुमन्यमानः प्रजावती समक्षीयमाणम् । तु. शौ.सं. २०.३तस्या वयं हेडसि मापि भूम सा नो देवी सुहवा शर्म यच्छतु ॥१॥अनुमते अनुमन्यस्वतानो या ते वयं चकृमा या तनूभिः । तनुया ते केषु तनूषु या प्रजायां या गोष्वोषधीष्वप्स्वन्त: ॥२॥आ नो देव्यनुमतिर्जगम्यात् सुक्षेत्रता वीरताया सुजाता ।भद्रा ह्यस्याः प्रमतिर्बभूव सेमं यज्ञमवतु देवजुष्टा ॥३॥अनुमतिर्विश्वमिदं जजान यदेजति चरति यच्च तिष्ठति ।तस्यास्ते देवि सुमतौ स्याम अनुमते अनु हि मंससे न: ॥४॥यत् ते नाम सुहवं सुप्रणीते अनुमते अनुमतं सुदानु ।तेन त्वं सुमतिं देव्यस्मा इषं पिन्व विश्ववारं सुवीरम् ॥५॥प्रजाभ्यस्त्वा प्रजास्त्वानुप्राणन्तु प्रजा: त्वं अनु प्राणिहि ।शुक्र ते शुक्रेण चन्द्रं चन्द्रेणामृतममृतेन प्रीणामि ॥६॥तपसस्तनूरसि प्रजापतेर्वर्णः । स्तनुपरमेण पशुना क्रीयसे ॥७॥अभि त्यं देवं सवितारमोण्यो: कविक्रतुम् ।अर्चामि सत्यसवं रत्नधामभि: प्रियं मतिम् ॥८॥ऊर्ध्वा यस्यामतिर्भा अदिद्युतत् सवीमनि।हिरण्यपाणिरमिमीत सुक्रतुः कृपात् स्वः ॥९॥अयं सहस्रमा नो दृशे कवीनां मतिर्ज्योतिर्विधर्मणि।ब्रध्न: समीचीरुषस: समीरयात् ॥१०॥ N/A References : N/A Last Updated : May 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP