संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|एकर्चोनाम विंशतिकाण्ड| ४१ ते ४५ एकर्चोनाम विंशतिकाण्ड १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ विंशतिकाण्ड: - ४१ ते ४५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ४१ ते ४५ Translation - भाषांतर ४१उत्तमो अस्योषधीनां वीरुधां बलवतम: । तु. शौ.सं. ६.१५स स्यन्दन त्वमोषधे सर्वा स्यन्दन गा इमा: ॥१॥अरन्तुरथन्तुम् ।वनेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद् वर: ॥२॥अकृदश्वो अकृत् खरो अकृदश्वतरो हरिः ।एवासि बाह्लिके तव भसन्नदत्याशिता ॥३॥ बाल्हियथा नदति गर्दभो एवानदति ते भसत् ।व्रीहेर्यवस्य माषस्येतत् पश्याभि दर्शनम् ॥४॥उद्भरे द्यावापृथिवी उदाप उदग्निमुदिन्द्रमुत्सूर्यमुद्रात्रीमुदह: ॥५॥नमस्कृत्य द्यावापृथिवीभ्यामन्तरिक्षाय मृत्यवे ।मेक्ष्वाम्यूर्ध्वस्तिष्ठन् मा मा हिंसीत्षुरीश्वरा: ॥६॥हींसियन् मेस्त्वा यदप्सरसः पयो देवीरहृषत् ।तदिहोपह्वयामहे चक्षुषे च बलाय च देवानां देवहूत्या मयि त्वा देवता: पुन: ॥७॥यास्य दोषा रसस्य मे त्वं देवी तत् अर्पिथ ।नाराशंसेन स्तोमेनाहं त्वत् पुनराददे युष्मदप्सरसस्परि ॥८॥यन् मे तन्वो रसं वयमुदप्सरसस्परि ।नाराशंसेन स्तोमेन प्रजामाप्यायामहे ॥९॥यन् मे पयो विषिषिचे जाग्रतः स्वपतश्चयत् ।पुनस्तदद्य मे देवा आसिञ्चतु तनू अधि ॥१०॥४२यदद्य दुग्धं पृथवीमसक्तं यदोषधीरप्यसरद्यदाप: ।वत्से पयो गवि पयो यदस्मा अस्मत् सृजतां पय: ॥१॥परापतन्त्वाशवोऽश्वा अथो धुरं यथा ।एवा मूत्र प्रभिद्यस्व वि वस्तेरा सं सृज ॥२॥विषितं ते वस्थिबिलं समुद्रस्योदधेरिव॥प्रते भिनद्मि मेहनं वर्त्तं वेशन्त्या इव ॥३॥अस्य पारे समुद्रस्य शुक्रं ज्योतिरमर्त्यम् ।तं न: पात्त्वं हसस्तन्नः पातु विश्वत: ।आ नो मेधा सुमतिर्विश्वरूपा हिरण्यवर्णा जगती जगम्यात् ॥४॥सा नो अग्ने मेधा जुषतामिह प्रचेता: ।निष्क्रामत्वृषिर्यो अत्र प्रविष्टो वयांश्च सयुजा या विहस्त: ॥५॥सप्तऋषीणांस्यूमरश्म पथैतु अश्वान् मृगान् पुनरप्येतु कृष्ण: ।सप्तऋषीन् गच्छस्यूमरश्म ये मृगान् कृष्ण: सृजतां वाजो अश्वम् ॥६॥ईडे अस्मान् सुप्रजस: सुवीरान् सह यज्ञेन पयसा सजाते ।नमोऽस्त्वृषये स्यूमरश्मये नम: कृष्णायोत यो वाजी अस्य ॥७॥स्युमनमो देवायार्वतेषु जिष्णवे यं नो वाजी प्रतिरात्यायु: !अतियन्त्यहान्यति रात्रि रत्युषस: ॥८॥आपो अन्तर्ध्वावरीस्ताभिरन्तर्दधे त्वा ।यथा नैवाघ्न्येमासि बह्वीः शुष्यन्त्वोषधीः ॥९॥वह्वीःएवा प्रशुष्यमामनु यच्च पश्यामि यच्च न ।पाटा बिभर्त्यङ्कुशं हिरण्यवन्तमङ्किनम्। विभर्त्यतेनाहं मन्वेषां स्त्रीयं आ लुन्यामि ममेदसून् ॥१०॥(इत्येकर्चनाम विंशतिकाण्डे सप्तमो अनुवाकः)४३इन्द्र जीव सूर्य जीव देवा जीवा जीव्यासमहं ।सर्वमायुर्जीव्यासम् ॥१॥अनाभूरस्मि नहि भवे तन्त्यां बद्धो दिवा विश्रित: ।आहात्वा निर्ऋतये ॥२॥रन्तिरसि रमतिरसि ।सं श्रुतेन राधिषीय मा श्रुतेन वि राधिषि ॥३॥धिषिदर्शो ऽसि दर्शतो ऽसि विश्वतः संदृष्ट: ।सोमो ऽसि रुद्रो ऽसि ॥४॥तं त्वा यं देवा अंशुमाप्यायन्ति तं त्वा यमादित्या अंशुमाप्यायन्ति ।तं त्वा यमक्षितमक्षित ये पिबन्तिस नः सोमः प्रतिरद् दीर्घमायुः ॥५॥अन्येषां प्राणेना प्यायस्व मास्माकं प्राणेन ।यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तस्य प्राणेना प्यायस्व ॥६॥चिदसि समुद योनिः श्वेन ऋतावान्।सोमपीथोप न एह्यर्वाङ् रायस्पोषेण प्रजया धनेन ॥७॥स्वरव स्थ नमो वो महतामूर्जायै। मुर्जापर्णामावगाम् ॥८॥प्रजापतिः परमेष्ठी नारदो नाम वा असि।बृहस्पतिः प्रजापतिर्नारदो ब्रह्मचारिणः ॥९॥अपश्चाद् दग्धान्नस्य भूयासम् ।अन्नादायान्नपतये ये रुद्राय नमो अग्नये ॥१०॥या ते वसोवात इषुः सा त एषा ।तया नो मृड ॥११॥४४अग्निस्तक्मानमपबाधतामितो वरुणो ग्रावा मरुतः पूतदक्षा: । वाध तु. शौ.सं. ५.२२बर्हिषदः समिधः शोशुचानास्तक्मनः शोमां अभिनिर्नुदन्तु ॥१ ॥वर्हियो अद्य बभृणायसि स्वपन्तमिष्वारुषं शयानमकोविदम् ।स नः सहस्रवीर्यानुष्ठीत: शिवो भव ॥२॥देवोयातुरसि मृडो ऽसि ।मृडास्माकं द्विपदे चतुष्पदे मा तस्य मामृडो द्विपदे चतुष्पदे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म: ॥३॥अनुयातुरसि मृडो ऽसि ।मृडास्माकं द्विपदे चतुष्पदे मा तस्य मामृडो द्विपदे चतुष्पदे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥४॥ब्रह्मयातुरसि मृडो ऽसि ।मृडास्माकं द्विपदे चतुष्पदे मा तस्य मामृडो द्विपदे चतुष्पद यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म: ॥५॥मनुष्ययातुरसि मृडो ऽसि ।मृडास्माकं द्विपदे चतुष्पदे मा तस्य मामृडो द्विपदे चतुष्पदे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म: ॥६॥परेतयातुरसि मृडो ऽसि ।मृडास्माकं द्विपदे चतुष्पदे मा तस्य मामृडो द्विपदे चतुष्पदे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥७॥अवभरणो नामसि देवत्राणो अक्षमाप: ।यीस्मां द्वेष्टि यं द्विष्मस्तत आसन्नपि दध्म: ॥८॥यददोस्नाना आसुरो दीक्षितो चरत् ।तस्य यन् मलमवाश्रवत्स हि नासीतावदनुष्ट्या त्वा विद्मा रसं वृश्चिक ते विषम् ॥९॥केतुलुङ्गा नाम ते माता कर्कट: पिता ।तात् सत्यमरसमभग ते विषम् ॥१०॥ते उभे अरसे ॥११॥४५विश्व वित्तं नष्टमनु पश्यसि।अदो मे नष्टं तन् मे पुनर्धेहि ॥१॥विश्वकर्मन् तत् त्वमुपगच्छसि ।विश्वव्यचस्तत्वय्यद्धाहितम् ॥२॥अदो मे नष्टं तन्मे पुनर्धेहि ।परि पूषा पुरस्ताद्धस्तं दधातु दक्षिणम् ।पुनर्नो नष्टमाजति जीवेन भुनजामहै ॥३॥इन्द्रस्त्वाभ्यैत् सर्पतु त्वाग्रेष्ठा: दधात् ।तदास्रावस्य भेषजं तदु रोगमनीनशत् ॥४॥विष्णोर्मनसा पूतो स्थ देवो वा सवितोत् पुनातु ।विष्णोर्मनसा पूतमसि देवस्त्वा सवितोत् पुनातु ।अच्छिद्रेण पवित्रेण सहस्रधारेण सुप्लवा ॥५॥हृदा पूतं मनसा जातवेदो विश्वानि देवो वयुनानि विद्वान् ।सप्तास्यानि तव यान्यग्ने तेभ्यो जुहोमि जुषस्व हव्यम् ॥६॥अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः ।तस्मै जुहोमि हविषा घृतेन मा देवानां योयुवद् भागधेयम् ॥७॥यस्ते केशाङ् अवाचीनान् क्रिमिर्बृहति मूर्धत: ।प्राणं तस्योप दाशया वीरुध: खनति भेषजी ॥८॥वेद वै ते भगन्नाम भूरिर्नामासि रयिर्नाम ।तं त्वा भग प्र विशामि स मा भग प्र विश ॥२॥तस्मिन् सहस्र काण्डे नि मृजे भग त्वयि ॥१०॥ N/A References : N/A Last Updated : May 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP