संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वामित्रसंहिता| तृतीयोऽध्याय: विश्वामित्रसंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदर्शोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: विश्वामित्रसंहिता - तृतीयोऽध्याय: विश्वामित्रसंहिता Tags : samhitavishwamitra samhitaविश्वामित्र संहितासंहिता तृतीयोऽध्याय: Translation - भाषांतर काश्ययप:----गुरुरेवं त्वया प्रोको प्रोक्तो मुने किंलक्षण: स्मृत: ।[किं वा योनि:समाचार](किंयोनिर्वा किमाचार:)सत्च्छिष्यश्चापिकीट्टश: ॥१॥विश्वामित्र:---श्रूयतामभिधास्यामि गुरोर्लेक्षणमुत्तमम् ।ब्राह्मण्यां ब्राह्मणाज्जातो यथावत् साङ्गवेदवित् ॥२॥कृतश्रम: शब्दशास्त्रे बहुश: प्रयतात्मवान्न्यायशास्त्रे च निष्णातो वैशेषिकविचक्षण: ॥३॥मीमांसापारट्टश्वा च सांख्ये योगे च निष्ठित: ।ज्योतिषामयने कल्पे शीक्षायां च विशारद: ॥४॥निरुक्ते छन्दसां शास्त्रे वास्तुशास्त्रे तथौव च ।सर्वशास्त्रार्थतत्त्वज्ञ: प्रतिभानसमन्वित: ॥५॥वेदान्तविश्रन्तमना: कर्मणां च प्रयोगवित् ।पञ्चरात्रार्थनिष्णात: पञ्चकालपरायण: ॥६॥सृष्टिसंहारतत्त्वज्ञो लोकानां करुणाकर: ।स्थिरघीर्मधुराभाषी विनीत: सत्यसंगर: ॥७॥विमत्सर: प्रसन्नात्मा साधुर्वाग्मी जितेन्द्रिय: ।[उपेन्द्रिय:](?) पण्डितश्च पुण्यापुण्यविवेकभाक् ॥८॥प्रासादप्रतिमादीनां गुणदोषविशेषवित् ।नित्यस्त्रायी शुद्धवासा: शुद्धवेष: शुभाश्रय: ॥९॥दोषाभिप्वङ्गरहितो ज्ञानी नित्यं जितेन्द्रिय: ।विष्णोराराधनपरो ?हुताग्रिर्मन्त्रवित्तम: ॥१०॥सर्वसंशयसंछेत्ता शिप्याणां शान्?तमानस: ।वैष्णवानागतान् टृष्ट्वा ह्मभ्युत्थानाभिवादनै: ॥११॥प्रतिग्रहीतार्चनाभिरर्घ्याद्याभि: कुतूहलात् ।अनन्यचेता: सततं विष्णोर्भजनतत्पर: ॥१२॥समयाचारनिरत: संविद्वाग्मी गुरो: प्रिय: ।प्रेष्यवर्गाशनात् पश्चात् स्वयं भोक्ता सतां मत: ॥१३॥पराङ्मुखो निषिद्धेषु परमास्तिक्यसंयुत: ।धृतोर्ध्वपुण्ङ्ग: सततं शस्तया श्वेतमृत्स्रया ॥१४॥शङ्खचकादिभिश्रिहै: स्वेषु स्थानेषु ला?ञ्छत: ।अन्यूनानतिरिक्तैश्च सर्वाङैग: समनङ्कृत: ॥१५॥आभिरूप्यगुणोपेते: प्रजारञ्जनतत्पर: ।एवं लक्षणसंयुक्तो य: स आचार्य उच्यते ॥१६॥शिष्याणां लक्षणं वच्मि तच्छृणुप्व साहित: ।त्रिषु वर्णेषु संभूत: प्रशस्तकुलसंभव:॥ १७॥अधतसाङ्गवेदश्च नित्यस्त्रायी जितेन्द्रिय: ।श्रुतवृत्तोपसंपन्न: सत्यवाक् पाठतत्पर: ॥१८॥आचर्यभक्तियुक्तश्च सुशील: शाठ्यवर्जित: ।अलुब्ध: संविभागी च कृतज्ञ: सज्जनाटृत: ॥१९॥खदारमात्रसंतुष्ट: शास्त्रश्रवणतत्पर: ।संवत्सरै?स्त्रिभिर्वापि द्वाभ्यां वैकेन वा द्विज ॥२०॥परीक्षित: प्रसन्नात्मा विष्णुभक्तिसमन्वित: ।अपर्युषितभोक्ता च जिह्वाचापलवर्जित: ॥२१॥संनिधौ च गुरोर्मौनी भूमावेवोपवेशक: ।मातापित्रोष्च शुश्रूषु: श्रौतस्मार्तक्रियापर: ॥२२॥गुरो: पत्नयां गुरो: पुत्रे गुरुवद्वृत्तिसंयुत: ।मित्राणामनभिद्रेही द्वेष्यसंगविवर्जित: ॥२३॥निषिद्धाचारविमुखो वृद्धानामभिवादक: ।अग्रिकार्ये च निरतो गुरो र्वेश्मन्यतन्द्रित: ॥२४॥आराधको वैष्णवानां वेद्यानां शुभलक्ष्ण: ।धृतोर्ध्वपुण्ड्रतिकल: सदा द्वादशनामभि: ॥२५॥प्रशस्तोज्जवलवेषश्च शङ्खचक्रादिलाञ्छित: ।एवमादिगुणैयुंक्त: स्थिरधी: शिष्य उच्यते ॥२६॥स्त्रिय: शूद्राश्चानुलोमा: कल्याणगुणसंयुता: ।यदि तानपि शिष्यत्वे गृह्णीयात् कृपया गुरु: ॥२७॥बाधिर्यादिभिराचार्यो दोषै: कैश्चिद्युतो यदि ।न स त्याज्यो भवेदेष दीक्षितश्चक्रमण्डले ॥२८॥तद्ग्रतं ज्ञानपौष्कल्यं दौषांश्च गुणतां नयेत् ।इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां[गुरुशिष्यलक्षणं नाम] तृतीयोऽध्याय:॥ N/A References : N/A Last Updated : January 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP