विश्वामित्रसंहिता - द्वादशोऽध्याय:
विश्वामित्रसंहिता
विश्वामित्र:---
नित्योत्सवविर्धि ब्रह्मन् प्रवक्ष्यामि शृणुष्व(?)तम् ।
उत्सवं(व:?) त्रिविधं ( ध:?) प्रोक्तं (क्त:?) तन्त्रेऽस्मिन् ब्रह्मणा पुरा ॥१॥
पात्रस्थे तण्डुले प्रातरावाह्म परमेश्वरम् ।
परिक्रमेद् द्वादशभि: शक्तिभि: सहितो मुने ॥२॥
अह्मे (न्ने?)मध्याहसमये सायं कुसुमसंचये ।
अथावा त्रिषु कालेषु बल्यर्थं चारयेद् द्विज ॥३॥
बलिप्रदानस्य कृते सर्वेष्वावरणेष्वपि ।
ध्रुवादावह्म देवेशं बलिबिम्बे निवेश्य च ॥४॥
अर्चयेदर्ध्यपूर्वाभि: सपर्याभिर्द्विजोत्तम ।
तत: शुचिं द्विजवरं श्वेतवस्त्रोपधारिणम् ॥५॥
सोत्तरीयं च सोष्णीषं धृतद्वादशपुण्ड्रकम् ।
वैष्णवं सुमुखं दान्तं युवानं जपतत्परम् ॥६॥
गरुत्मन्तं भावयित्वा [तन्मूर्ध्रि विनिवेशयेत्] (बलिं तन्मूर्ध्रि विन्यसेत् ?) ।
शङ्खकाहलनादाढ्यं तूर्यघोषपुर:सरम् ॥७॥
अन्येन स्वर्णभृङ्गारं धारयेद्वण्टया सह ।
अपरो धारयेत् पात्रं बलिद्रव्येण संयुतम् ॥८॥
गर्भगेहद्वारपाश्वमार्श्वसाद्याथ उदुम्बरे ।
दक्षिणे वास्तुनाथस्तु द्विभुजो रक्तपात्रधृक् ॥९॥
श्वेतवस्त्रधरो हस्ते दक्षिणे सुरसंश्रय: ।
गदोद्यतकरो वास्तुनाथो ध्येयो द्विजोत्तम ॥१०॥
क्षेत्रनाथं वण्डहस्तं नीलनीमूतसंनिभम् ।
समुष्टिकं वामहस्तं दधानं वामपार्श्वगम् ॥११॥
वीक्षमाणं विभोर्वक्त्रं ध्यात्वा द्वौ पूजयेद् द्विज ।
ऊर्ध्वोदुम्बरमध्यस्थां सर्वाभरणभूषिताम् ॥१२॥
तप्तकार्तस्वरनिभां विद्रुमप्रतिमाग्बराम् ।
पह्मकुम्भकरां पह्मसंसथां द्वारश्रियं यजेत् ॥१३॥
बाह्मे गर्भगृहद्वारशाखानूले तु दक्षिणे ।
बद्धोष्णीषं सोर्ध्वपुण्ड्रं शुक्लाम्बरधरं द्विज ॥१४॥
हारकेयूरकटककुण्डलादिविभूषितम् ।
तरुणादित्यवर्णाभं चतुर्बाहुं च दक्षिणे ॥१५॥
भुज(हस्त ?)द्वये चक्रधरमूर्ध्वहस्ते(?)गदामपि ।
श्रोणीतटनिषण्णां च विश्रान्ताग्रां भुक्स्तले ॥१६॥
ज्वलन्तं दधतं वामे शङ्खमूर्ध्वेऽक्षसूत्रकम् ।
अधश्च चण्डं ध्यात्वैवं पूजयेद् द्विजसतम ॥१७॥
व्यत्यस्तभुजयुग्मं च प्रचण्डमपि पूजयेत् ।
गरुडं काञ्चननिभं कुटिकभ्रूयुगोज्जवलम् ॥१८॥
लम्बोदरं च वृत्ताक्षं सर्वाभरणभूषितम् ।
नीलाम्बरं पक्षयुग्ममण्डलेन विराजितम् ॥१९॥
कृताञ्जलिं देवदेवसुमुखं(संमुखे ?) सम्यगर्चयेत् ।
अथाग्रमण्डपद्वारशाखाद्वयसुसंस्थितौ ॥२०॥
पह्मगर्भनिभौ चण्डप्रचण्डसटृशौ भुजे ।
रक्ताम्बरादिसहितौ पूजयेद् गणनायकौ ॥२१॥
उभौ धातृविधातारौ प्रथमावरणे तथा ।
कुमुदं पूर्वदिग्भागे नानावस्रादिभूषितम् ॥२२॥
चतुर्भुजं दक्षिणकरद्वन्द्वे श्वेतं च चामरम् ।
मुद्रामभयसंज्ञां च सव्ये हारस्त्रजं तथा ॥२३॥
तूष्णी [मानम]संज्ञां च दधानं च सभाजयेत् ।
कुमुदाक्षं वह्निकोण व्यत्यस्तुभुजयुग्मकम् ॥२४॥
दक्षिणे पुडरीकं च कह्नचाभं गरुडध्वजम् ।
दधानं नैऋर्ते चैव वामनंतद्वदर्चयेत् ॥२५॥
पश्चिमे शङ्कुकर्णं च पञ्चरागशरीरकम् ।
मायूरपिञ्छव्यजनधारिणं वायुकोणगम् ॥२६॥
सर्पनेत्रं च विधिवदर्चयेद् द्विजपुंगव ।
सोमे सुमुखसंज्ञं च श्यामं छत्रधरं भजेत् ॥२७॥
सुप्रतिष्ठं तथेशाने ध्यात्वैवं च सभाजयेत् ।
अनुक्तं शेषमेतेषां कुमुदस्येव काश्यप ॥२८॥
ऊर्ध्वपुण्ड्रेण सर्वेऽपि ललाटस्थेन शोभिता: ।
तद्बाह्मद्वारपार्श्वस्थं जयं सविजयें यजेत् ॥२९॥
चण्डप्रचण्सटृशावुभावेतौ चतुर्भुजौ ।
पीतमाल्याम्बरधरौ [पीतोष्णीषशिरी] (धरौ?) मुने ॥३०॥
पश्चादुपेन्द्रं प्राग्भागे वह्निकोणे च सत्तम ।
तेजोधरं दक्षिणे च दुरतिक्रमसंज्ञितम् ॥३१॥
नैऋर्ते पश्चिमे चैव महाकर्ममहाह्नदौ ।
अगृह्मं वायुकोणेच वसुरेतसमुत्तरे ॥३२॥
वर्धमानं तथेशाने साक्षिणं गगनोपरि ।
अधोभागे च सर्वस्य आधारनिल्यं क्रमात् ॥३३॥
एतान् स्फटिकवर्णाभान् वराभयकरान् यजेत् ।
अथवाक्षस्त्रजं चक्रं शङ्खं चगदया सह ॥३४॥
करैश्चतुर्भिर्दधतो मकुटादिविभूषितान् ।
ततस्तृ?तीयावरणद्वारपार्श्वस्थितावुभौ ॥३५॥
यजेदभद्रं सुभद्रं च यथा चण्डप्रचण्डकौ ।
इन्द्रं यजेत तदनु श्यामर्णं चतुर्भुजम् ॥३६॥
सिद्विपस्थं कुलिशं बिभ्रतं तीक्ष्णधारकम् ।
[अजारुसं] (अजारूढं ?) रक्तवर्णं हुताशं शक्तिहस्तकम् ॥३७॥
यमं महिषसंस्थं तु कृष्णं दण्डकरं यजेत् ।
प्रेतासनं खङ्गधरं निऋर्तिं चासितद्युतिम् ॥३८॥
वरुणं मकरारूढं मुक्ताभं पाशधारिणम् ।
वायुं हरिणमारूढं कृष्णध्वजपदाङ्कितम् ॥३९॥
शशिनं शशकारूढं श्वेतं शिशिरपर्वतम् ।
वृषारूढं प्रवालाभं शूलिनं त्र्यम्बलं यजेत् ॥४०॥
कूर्मारूढं हलधरमधस्तान्नागराजकम् ।
ब्रह्माणं हंससंस्थं च चतुर्ववक्त्रं स्मरन् यजेत् ॥४१॥
चतुर्भुजा: सर्व एतेसाक्षमाला: परं विभुम् ।
ध्यायन्त इति संस्मृत्य वराभयकरान् यजेत् ॥४२॥
अमरेशविरूपाक्षौ तथा गोपुरपार्श्वगौ ।
इष्ट्वा चतुर्थावरणे चक्राद्यायुध्संहतिम् ॥४३ ।
वज्रं शक्तिं च दण्डंच खङ्गं पाशं ध्वजं तथा ।
शिशिरास्त्रं त्रिशूलं च क्रमेणैतानि पूजयेत् ॥४४॥
महागोपुरपार्श्वस्थौ शूङ्खपह्मनिधी उभौ ।
शङ्खपह्मसमानाभौ शुक्लमाल्याम्बरावृतौ ॥४५॥
निधिभाण्डसमारूढौ हस्वपाणिपदौ यजेत् ।
शङ्खपह्मधरावेतौ निधिहस्तावथापि वा ॥४६॥
इष्ठ्वा भगवतो हेतीरष्टदिक्षवदिक्ष्वभिपूजयेत् ।
शङ्खं समुसलं चैव चक्रं नन्दकमेव च ॥४७॥
गदां शार्ङ्गं च पह्मं च वनमालां क्रमाद्यजेत् ।
देवमारोप्य शिबिकां बलिदानाय नाथयेत् ॥४८॥
बलिप्रदानसमये तत्तद्रागांश्च गायकै: ।
गापयित्वा नर्तकीभिस्तत्तन्नृत्तं च दर्शयेत् ॥४९॥
शङ्खकाहलभेरीभिस्तूर्यषोषेण सर्वत: ।
बधिरीकृत्य ककुभो बलिदानविधिं चरेत् ॥५०॥
ध्वजैशछत्रैश्च विविधैस्तालवृन्तगणैरपि ।
चामरैर्धार्यमाणैश्च संछादितदिगन्तरम् ॥५१॥
कन्यकाभिर्विचित्राभिर्भूषिताभिश्च सर्वत: ।
वसानाभिश्च वासांति पट्टांशुकमयान्यपि ॥५२॥
गन्धर्वराजसंकाशैर्गायकानां गणैरपि ।
पुरत: प्टष्ठतश्चैव सेव्यमानो द्विजोत्तमै: ॥५३॥
पठदिभश्चतुरो वेदान् संघश: सेवित: पृथक् ।
स्थाने स्थाने तु ताम्बूलं भक्ष्याणि विविधानि च ॥५४॥
फलाकानि च सुपक्वानि सापूपानि निवेद्य च ।
वेदविदभयो गायकेभ्यो नर्तकीभय: प्रसाद्यच ॥५५॥
एवं सर्वत्र संचार्य गोपपुरद्वारनिर्गमे ।
निवार्य तूर्यघोषादि शङ्खमेव निनादयेत् ॥५६॥
निर्गत्य च महापीठसमीपे धामसंमुख: ।
वाद्यवादिविशेषेण घोषयित्वा समन्तत: ॥५७॥
संक्षाल्य पीठमूर्धानं शुचिना गन्धवारिणा ।
आराधयित्वा तत्रापि विष्णुपारिषदेश्वरान् ॥५८॥
क्षिप्त्वा च पीठशिरसि बलिशेषमशेषयेत् ।
गायकैर्गापयित्वा च रागान् बहुविधानपि ॥५९॥
उपनृत्य समन्ताच्च नर्तकीभि: प्रदक्षिणम् ।
परीत्य वारत्रितयं धामान्त प्रविशेत् पुन: ॥६०॥
मुखमण्डपमासाद्य शिबिकामवरोप्य च ।
दत्वा च पादुके देवमासने चोपवेश्य तम् ॥६१॥
अर्ध्यादिभिश्च सकलैर्भोर्गैराराधयेत् पुन: ।
उपहारान् बहुविधान् निवेद्यावसरोचितम् ॥६२॥
धामान्तर्देवदेवं तं शाकुनं सूक्तमुच्चरन् ।
प्रवेश्य च यथापूर्वमासेन विनिवेष्य च ॥६३॥
अर्ध्यादि संप्रदायाथ बहिर्देवस्य संमुखम् ( खे ?) ।
गेयं नृत्तं बहुविधं दर्शयेत् पूजकोत्तम: ॥६४॥
अतिवृष्टिमहातप्रभृतिक्षोभंसंभवे ।
नित्योत्सवो न कर्तव्यो बलिमात्रं प्रदायेत्॥ ६५॥
चण्डप्रचण्डयोर्वापि केवलं निक्षिपेद्बलिम् ।
तयोर्द्वयोर्वा पुरतो मूलमन्त्रपुरस्सरम् ॥६६॥
नमो भूतेभ्य इत्युकत्वा सोदकं प्रक्षिपेद्बलिम् ।
बलिप्रदानकाले च संज्ञभि: स्वाभिरेव च ॥६७॥
चतुर्थ्यन्तनमोऽन्ताभि: प्रणवाद्याभिरुत्सृजेत् ।
स्वस्वमुद्रां प्रदर्श्यैव नान्यथा विहितो विधि: ॥६८॥
इति प़ञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
नित्योत्सवविधिर्नाम द्वादशोऽध्याय:॥
N/A
References : N/A
Last Updated : January 17, 2021
TOP