संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वामित्रसंहिता| अष्टादशोऽध्याय: विश्वामित्रसंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदर्शोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: विश्वामित्रसंहिता - अष्टादशोऽध्याय: विश्वामित्रसंहिता Tags : samhitavishwamitra samhitaविश्वामित्र संहितासंहिता अष्टादशोऽध्याय: Translation - भाषांतर विश्वामित्र:---उत्सवारम्भदिवसात् प्रागेव ग्रामवीथय: ।संशेधनीया: सर्वा: स्रुरुद्धृत्यावकरानपि ॥१॥सर्वेषु चत्वेरष्वेव कल्प्यास्तोरणराजय: ।फलभारानता: कल्प्या: कदल्य: क्रमुका अपि ॥२॥वीथीमध्येषु सिकता: प्रसार्या: समता यथा ।ध्वजैश्च दर्भमालाभि: प्रभा(पा ?)भि: शोभयेदपि ॥३॥आपुल्त्य गोमयाम्भोभि: ककुभश्च विशोधयेत् ।भित्तयो गेहाराजीनां पञ्चवर्णविचित्रिता: ॥४॥वेदिका: पूर्णकुम्भैश्च साङ्कुरै: पालिकागणै: ।सर्वतो दीपिकाभिश्च गन्धतैलाक्तवर्तिभि: ॥५॥भूषिता: कमनीया: स्यु: क्षौमशोभितनीविका: ।उत्सवे देवदेवस्य सेवाकौतुकिनां नृणाम् ॥६॥देशान्तरादागतानामन्नाद्यं कल्येदपि ।गन्धोदकै: सुसंपूर्णा:कार्या: पानीयशालिका: ॥७॥समागतेषु रोगार्ता भवेयुर्यहि तत्कृते ।सर्वैषधीनां संभारा: संकल्प्या: स्युर्ट्टढं द्विज ॥८॥अपूर्वशयनार्थं(?)च मञ्चा: कार्या: सुशीतला: ।सर्ववस्तुषु(सु?)संपूर्णा कायां विपणिवीथय: ॥९॥कूपा: सर्वे निपानाढ्या: करणीया: समन्तत: ।आवृतौ प्रथमायां वा द्वितीयावरणपेऽथवा ॥१०॥यथावकाशं कुर्वीत महान्तं यागमण्डपम् ।चतुर्द्वारसमायुक्तं विस्तारायामत: समम् ॥११॥मण्डपस्य चतुर्दिक्षु प्रपां च परिकल्पयेत् ।कुर्यान्मण्डपमध्ये तु वेदिं हस्तसमुच्छ्रिताम् ॥१२॥द्वित्रिहस्तसमायुक्तां तावद्विस्तारसंयुताम् ।तस्या: पूर्वदिशो भागे चतुरश्रं प्रकल्पयेत् ॥१३॥कुण्डमाहवनीयाग्रेर्याम्ये च धनुराकृति ।दक्षिणाग्रे: प्रतीच्यां तु वृत्तं सभ्यं च कल्पयेत् ॥१४॥सौम्यभागे त्रिकोणं स्यादैशान्यां चतुरश्रकम् ।आग्रेय्यां वा प्रकर्तव्यमावस्थ्यं तु ( थ्यस्य ?) धिष्णियम् ॥१५॥एवं पञ्चाग्रिसंस्युक्तमुत्सवं विदधीत् वा ।आवसथ्यविनाभूतचतुर्दिक्संस्थापावकम् ॥१६॥सभ्यावसथ्यरहितं यद्वाग्रित्रयसंमितम् ।अथावाहवनीयाग्रिमेकं वा कल्पयेद् द्विज ॥१७॥क्षीरद्रुमैश्चतुर्द्वारे तोरणानि प्रकल्पयेत् ।स्त्रुक्स्त्रुवौ कारयेदष्टमङ्गलानि यथापुरम् ॥१८॥तैरेव ऋत्विजां कल्प्यान्यासनानि मनीषिणा ।नानाविधानि होमार्थपात्राण्यपि च कारयेत् ॥१९॥?B मण्डपांश्च प्रपाश्चैव लेपयेद्ग्रमयाम्भसा ।सुधाचूर्णैश्चित्रयित्वा क्षौमैरपि वितानयेत् ॥२०॥कौशेयक्षौमवसनै: स्तम्भानपि च वेष्टयेत् ।आचार्यांश्चतुर: पूर्वात् वरेयत् षोडशर्त्विज: ॥२१॥परिचारान् बहुविधान् स्वीकुर्यात् कर्मवानपि ।भूषयेत्तानभिनवैर्वासोभि: कटकादिभि: ॥२२॥भूषणैश्च यथावित्तमधिकारानुरूपत: ।उत्तरीयैश्च सोष्णीषैरनुलेपनस्तुभि: ॥२३॥उत्सवारम्भदिवसे तथान्यै: स्नापयेदपि ।कुम्भैरष्ठशतैर्देवं सर्वमङ्लसंयुतम् ॥२४॥उत्सवारम्भदिवसात् पूर्वस्मिन् दिवसे गुरु: ।देवस्य कौतुकं बध्वा देवयोश्च तदनन्तरम् ॥२५॥हेम्रा निष्कप्रमाणेन सूत्रमेकं प्रकल्पयेत् ।तदर्धसंमितं सूत्रत्रयं निर्मापयेदपि ॥२६॥सौवर्णो राजते वापि पात्रे कलमतण्डतुले ।भाराद्य(?)संमिते पूर्वं स्वर्णसूत्रचतुष्टयम् ॥२७॥निधाय पूगजफलैरभिन्नै: शतसंमितै: ।ताम्बूलानां दलै: सार्धं चतु:शतमितै: सह ॥२८॥कदल्यादिफलै सार्धं साधारं न्यस्य मूर्धनि ।आच्छाद्य क्षौमवस्त्रेण छत्रचामरसंयुतम् ॥२९॥दीपिकाशतसंयुक्तं सवितानं च मूर्तिप: ।बहुशो ब्राह्मणै: सूक्तं पठदिभ: शाकुनं पुन: ॥३०॥धाम प्र?दक्षिणं नीत्वा बहिरावरणानि च ।कुर्यान्मङ्गलदीपैश्च प्रविशेद्देवसंनिधिम् ॥३१॥भूतले गोमयजलैरालिप्ते चतुरश्रके ।पूरिते शालिभारेण पात्रं विन्यस्य देशिक: ॥३२॥पुण्याहवाचनं कृत्वा यथाविधि सभाज्य च ।गुरुर्गृहीत्वा सूत्राणि चन्दनक्षोदवारिणा ॥३३॥साङ्गुष्ठेना(ष्ठया ?)नामिकया संसृज्यास्त्रेण देशिक: ।बन्धयेदुत्सवार्चाया दक्षिणे पाणिपङ्कजे ॥३४॥देवयोर्वामकरे बध्वा गुरो: सव्येतरे करे ।सवं एतुष्टयं बध्वा प्रत्येकं शतसंमितम् ॥३५॥स्पृष्टवा दक्षिणहस्तेन जपेदस्त्रमनुं बुध: ।देवमर्ध्यादिभिश्चेष्टवा महापूपान् निवेदयेत् ॥३६॥आपूपान् पृथुकाँल्लाजान् फलानि विविधानि च ।नृत्तगीतादिकं सर्वं देवस्याग्रे विधाय च ॥३७॥देवं विज्ञाप्य तत्स्थानादन्यत्र विनिवेश्य च ।तत्राभिषेकप्रभृति नैवेद्यान्तं सभाज्य च ॥३८॥प्रतिष्ठोक्तेन विधिना शयने स्वास्तृते शुभे ॥३९॥शाययित्वा निशां नीत्वा श्वोभूते उदिते रवौ ।उत्तिष्ठेत्यादिमन्त्रेण देवमुत्थाप्य बह्वृचै: ॥४०॥पठदिभ: शाकुनं सूक्तं सदेवं दिष्णुरित्यृचम् ।सौवर्णशिबिकां देवमारोप्य प्रभया सह ॥४१॥वाहयित्वा द्विजवरैर्गुरुत्मद्ध्यायिभि: प्रभुम् ।सर्वमङ्गलसंयुक्तं सर्वावरणभूमिषु ॥४२॥प्रदक्षिणेनं संचार्य दुकूलास्तरणास्तृते ।सौवर्णे सर्वरत्नाढ्ये शाखापासंचयशोभिन: ॥४३॥अधस्तात्कल्पवृक्षस्य सिंहपादाष्टकान्विते ।हैमे समस्तरत्नौघरचिते चासनोत्तमे ॥४४॥आसयित्वा बहुविधजनसंघातमध्यत: ।उत्सवार्थं समानीतं हेमरत्नसमन्वितम् ॥४५॥कौशेयक्षौमकार्पासवासोनिकरसंयुतम् ।पनसाम्रकदल्यादिफलसंपत्समन्वितम् । ॥४६॥बृहतीकारवल्यादिसर्वव्यञ्चनसंयुतम् ।सुपक्वनालिकेराढ्यमुद्ग्रभेदविचित्रितम् ॥४७॥गुलमूलैस्तु बहुभिर्निश्चितै: कटकास्थितै: ।शर्कराराशिभिस्तुङ्गै: सर्वत: समलंकृतम् ॥४८॥सौरभ्य(?)निर्मलाकारचन्दनद्रुमसंकुलम् ।एलालवङ्त(क ?)क्लोजलातिराशिसुशोभितम् ॥४९॥हिमाम्बुपात्र्संपूर्णं वंशनालीषु संभृतै: ।कर्पूरनिकरौघैश्च कुङ्कुमै: पात्रसंचयै: ॥५०॥कस्तूरीभिर्मृगमदैस्तत्तदभतोजनसंचितै: ।संपूर्णं प्राभृतगणमाहृतं सात्त्विकैर्गुणै: ॥५१॥भूषितै: सर्वभूपालैर्नानादिग्भ्य: समाहृतम् ।दर्शयित्वा दर्शनीयं जनानां विस्मयास्पदम् ॥५२॥तोषयित्वा च देवेशं विनोदैरेवमादिभि: ।गीतैर्नृत्तादिभिश्चैव तोषयित्वा जनार्दनम् ॥५३॥स्त्रापयित्वा च कलशैरेकाशीतिमितैर्बिभुम् ।यथाविभविस्तारं सर्वसंभारसंभृतै: ॥५४॥अलंकृत्य च रत्नौघससंचितैर्भूषणोत्तमै: ।सर्वव्यञ्जनसंयुक्तं निवेद्य च महाहीव: ॥५५॥कुम्भे च मण्डले देवमाराध्य पुरुषोत्तमम् ।प्राप्तेऽपराह्णसमये गृहीत्वाङ्कुमृत्तिकान् ॥५६॥विधिना पूर्वट्टष्ठेन विधायाङ्कुरवापनम् ।यजमानेन सहित: पश्चाद्देशिकसत्तम: ॥५७॥गत्वा च देवनिकटं साष्टाङ्गं प्रणिपत्य च ।प्रार्थयित्वौत्सवं बिम्बं बध्वा मङ्गलकौतुकम् ॥५८॥स्त्रानबल्यर्थयोश्चैव बध्वा प्रतिमयोरपि ।हेतिराजस्य च तथा कृत्वा कौतुकबन्धनम् ॥५९॥पूर्ववत्कल्पितेऽन्यत्र शयने त्वधिवास्य तान् ।सद्य उत्थाप्य चाराध्ये धाम नीत्वा प्रदक्षिणम् ॥६०॥यागमण्डपमासाद्य स्त्रानबिम्बं सुदर्शनम् ।आसने संनिवेश्यैव वेदिकायां विधाय च ॥६१॥पीठं धान्यमयं पूर्वचोदितक्रमयोगत: ।घटान् प्रक्षालिताँस्तन्तुसंवृतान् नव पूरितान् ॥६२॥गन्धोदकेन विन्यस्तरत्नान् क्षौमाभिवेष्टितान् ।सर्वगन्धद्रव्युक्तान् स्वर्णनिष्कसमन्वितान् ॥६३॥एवंविधं च करकं कृत्वा तेषां मुखेष्वपि ।अश्वत्थलसंमिश्रान् कुशकूर्चात् निधाय च ॥६४॥अपिधाय लतै(च तान् ?)भूमौ धान्यराशिषु निक्षिपेत् ।मध्कुम्भं विनान्येषां वस्त्रमेकं दशान्वितम् ॥६५॥दशहस्तायतं सूक्ष्मं सुश्र्लिष्टं परिकल्पयेत् ।दिक्ष्वष्टासु स्थापयित्वा कुम्भानष्टौ प्रदिक्षणम् ॥६६॥मध्ये सकरकं कुम्भं दशभारप्रमाणके ।धान्यराशौ प्रतिष्ठाप्य मूलबेरं घटेऽर्चयेत् ॥६७॥सुदर्शनं च करके वासुदेवादिकान् यजेत् ।प्रधा?नदिक्संस्थे(संस्थिते ?)षु कुम्भेषु च यथाक्रमम् ॥६८॥आग्रेयादिषु कोणेषु पुरुषं सत्यमच्युतम् ।अनन्तं च सभाज्यैव पायसादीन्(दि ?)निवेदयेत् ॥६९॥हविश्चतुष्कं कुम्भेषु बलिबिम्बे च नित्यश: ।मङ्लान्यष्ट वासोभिर्वेष्ठयित्वा पृथक् पृथक् ॥७०॥निवेशयेत्ततोऽध्स्?ताद्धान्यराशिषु च क्रमात् ।शङ्खं चक्रं च लक्ष्मीं च पूर्णकुम्भं जलेन च ॥७१॥श्रीवत्सं दर्पणं चैव स्वस्तिकं मत्स्ययोर्युगम् ।एतानि मङ्लान्यष्टौ विनिवेश्य यथाक्रमम् ॥७२॥चतुर्दिक्षु चतुर्वेदघोषणं कारयेत् क्रमात् ।चतुरो वासुदेवादीन् ध्यात्वा प्राच्यादिषु क्रमात् ॥७३॥अन्तिमे मूलबेरं च ध्यात्वा कोणेष्वनुक्रमात् ।यावत्तीर्थावसानं च संनिधिं प्रार्थ्य देशिकै: ॥७४॥वृतैश्चतुर्भिराचार्यो जुहुयादात्मपञ्चमै: ।पञ्चस्वग्रिष्वपि तथा पायसापूपपूर्वके: ॥७५॥तिलैस्त्रिभिर्यवैश्चैव पृथगष्टोत्तरं शतम् ।तत्तन्मत्रैर्हुने(?)त्तत्र देवताध्यानपूर्वकम् ॥७६॥अष्टाविंशतिवारान् वा कुण्डेषु प्रागुपक्रम: ।पायसं कृसरं गौल्यं हरिद्रान्नं च मौद्ग्रकम् ॥७७॥पृथगग्रिषु होतव्यं पुंसूक्तेन पञ्चसु ।ब्रह्मादिदेवतोद्देशात् परमान्नेन च पञ्चमे ॥७८॥नाम प्रोच्य चतुर्थ्यन्तं स्वाहान्तं जुहुयात् क्रमात् ।परिवारपदेपेतं तत्तद्ध्यानुरस्सरम् ॥७९॥ब्रह्मा प्रजापती रुद्रा: सर्वे देवा यथाक्रमम् ।छन्दांसि वेदा ऋषयो गन्धर्वाश्च सरीसृपा: ॥८०॥यक्षाश्चाप्सरसो मासा वत्सरा देव्या एव च ।सर्वशब्दादिकाश्चाबिध्पर्वता[श्चापिहा](?)अपि ॥८१॥भूतानि पशवो वृक्षा ओषध्य: सवनस्पती:(?) ।औदिभदा: (उदिभद: ?) स्वेदजाश्चैव साण्डजाश्च जरायुजा: ॥८२॥भूरादय: सप्तलोका: पाताला(?)अतलादय:(?) ।चण्डादयश्चाप्येतेभ्यो जुहुयान्मूलविद्यया ॥८३॥पूर्णाहुतिमिदं विष्णुरिति प्रोच्य समाचरेत् ।प्रहरेन्नैव परिधीन् न दर्भाश्चोत्सवधि ॥८४॥देवान् नोद्वासयेच्चैव प्रत्यहं वह्निधारणम् ।दिधीत प्रतिदिनं जुहुयाच्च यथाविधि ॥८५॥चतुष्टये त्रयेऽग्रीनां द्वयोरेकत्र वा स्सरेत् ।यागमण्डपमारभ्य बलिदानं समाचरेत् ॥८६॥सुदर्शानं च बल्यर्चामन्नमूर्तिसमन्विताम् ।आदाय च विनिष्कम्य तद्द्वारे कुमुदादिकान् ॥८७॥अर्चयित्वा पुरो भूम्रा(मौ ?) शुचौ दद्याद्ब्रलिं तत: ।बलिपात्रं पुष्पपात्रमर्ध्यपात्रं च कर्तरीम् ॥८८॥दीपपात्रं धूपपात्रं दीपांश्च परिचाकान् (का: ?) ।एकैकशो गृहीत्वाग्रे गच्छन्त्व[न्यत्पुर:सरा](?) ॥८९॥अन्नमूर्तिस्ततो गच्छेत्तस्मादर्वाक् सुदर्शन: ।नित्योत्सवार्चा तदनु क्रमेणानेन देषिक: ॥९०॥दापयेच्च बलिं कैश्चित् तद्योग्ये: परिचारकै: ।चण्डादिप्रथमं दद्याद् द्वारेष्वावरणेष्वपि ॥९१॥दत्वा नित्योत्सव इव बलिं दत्वा सभाज्य च ।ग्राममध्यं समारभ्य ब्रह्मादीशान्तमर्चयेत् ॥९२॥तत्तद्देषेषु सर्वेभ्यो बलिं दत्वशोषितम् ।महापीठे पारिषदन् सर्वानुद्दिश्य निक्षिपेत् ॥९३॥गुरु: सुलग्रे संप्राप्ते शयानं कौतुकं तथा ।उत्तिष्ठेति पठन्मत्रमुत्थाप्य शयनाच्छुभात् ॥९४॥स्वस्तिसूक्तमुखैर्विप्रै: सह निष्क्रम्य धामत: ।रथन्तरं साम पठन् रथमारोपयेद् बुध: ॥९५॥कल्पद्रुमसमायुक्तं हैमशैलमिवापरम् ।गजोत्तमैश्चतुर्भिर्वा वाजिश्रेष्ठै: सुयोजितम् ॥९६॥[पुर:स्थितं(?)]सारथिना नयेद्यन्त्रेण देशिक: ।अथवा वेदपठनं कुर्वदिभर्द्विजपुंगवै: ॥९७॥महापाशै: सुबद्धैश्च नयेदाकृष्य तं रथम् ।रथाभावे गजं वाश्वं शिबिकां वाधिरोपयेत् ॥९८॥भद्रं कर्णेतिमन्त्रेण वाहनान्यधिरोपयेत् ।हैमया प्रभया युक्तं पुष्पस्रग्भिरलंकृतम् ॥९९॥सौवर्णेन विमानेन कूटाकारेण शोभितम् ।आरोप्य यानप्रवरं तत्राभ्यर्च्य यथाविधि ॥१००॥देवदेवं ततस्तस्मै पृथुकापूपसंचयम् ।ताम्बलुं च निवेद्याथ घृताक्तैदींपिकागणै: ॥१०१॥वृत: सर्वत्र निनदं वाहयेद् द्विजपुंगवै: ।धवलाम्बरसंवीतैर्मूर्ध्रि वेष्टनसंयुतै: ॥१०२॥सकञ्चुकैर्दधानैश्च चामरव्यजनानि च ।तालवृन्तान्यनेकानि मौक्तिकातपवारणम् ॥१०३॥धूपपात्राणि बहुशो धारयदिभ: समन्तत: ।पुरो यन्त्राधिरूढेन रचिताञ्जलिपाणिना ॥१०४॥आरूढेन ध्वजवरंतार्क्ष्येण च निषेवितम् ।पश्चच्च स्वर्णशिबिकारूढेन कनकोज्जवलम् ॥१०५॥वेत्रदण्डं दधानेन समुत्सारयतासुरान् ।सेव्यमानं दधानन पादुके स्वर्णनिर्मिते ॥१०६॥उपानद्युगले(लं ?) चैव प्रत्युप्तं रत्नराशिना ।सौवर्णपात्रनिक्षिप्तान् (प्तं ?) बिभ्राणै: शिरसा द्विजै: ॥१०७॥गजोत्तमसमारूढै: छत्रच्छायासु संस्थितै: ।निषेव्यमाणं देवेशं नातिशीघ्रं न लम्बितम् ॥१०८॥प्रदक्षिणं नयेद्धामसर्वाभ(व?)रणभूमिषु ।अधीयानैश्च चतुरो वेदान् साङ्गांश्च सर्वश: ॥१०९॥हतिहासपुराणानि पठदिभ: स्तोत्रपद्धतिम् ।गायदिभश्च हसदिभश्च नृत्यदिभश्च समन्तत: ॥११०॥भिन्नाश्च बहुधा भाषा भाषमाणैश्च सर्वश: ।वावदूकैर्बहुविधै: सर्वशास्त्रेषु निष्ठितै: ॥१११॥सांययोगविभागज्ञै: शाबिदकैस्तत्त्वचिन्तकै: ।सांकत्सरगणैश्चैव परस्परजयोद्यतै: ॥११२॥पञ्चरात्रार्थनिपुणै: सेवितै: सात्त्विकैद्विजै: ।काषायवसनैश्चैव यतिभिर्जपनिष्ठितै: ॥११३॥एकदण्डधरैश्चैव त्रिदण्डधरणैरपि ।ग्रामवीथी: समन्ताच्च परिभ्राम्य प्रदक्षिणम् ॥११४॥प्रवेशसमये चापि धाम्न: सर्वावृतीरपि ।प्रदक्षिणं परिक्रम्य प्रविशेन्मण्डपोत्तमम् ॥११५॥तत्रावरोप्य देवेशं भद्रपीठे च धामनि ।यागमण्डपमध्ये च विनिवेश्य सुदर्शनम् ॥११६॥अन्नमूर्तिं च बल्यर्थपीठे सकलमुत्सृजेत् ।द्विगुणैर्ध्रुवबेरं च समाराधनवस्तुभि: ॥११७॥अर्चयेत् प्रत्यहं चैव सावधानेन चेतसा ।प्रभातायां तु शर्वर्यां मण्डपे सिंहविष्टरे ॥११८॥उत्सवार्चां निवेश्यैवमर्चयेदुक्तवर्त्मना ।तद्व्ब्रिम्बे स्नपनार्थे वा स्नपनं वि?दधीत च ॥११९॥एकबिम्बविधौ कुर्यान्मूलबिम्बेऽभिषेचनम् ।स्नायपेयच्च प्रतिदिनं यथाविभवविस्तरम् ॥१२०॥निवेदयेदथ महाहवरुत्सवकौतुके ।गत्वा तु भूषणस्थानं भूषयेदभूषणै: शुभै: ॥१२१॥दिवा देवं स्थिते यागसदने देशिकोत्तम: ।मण्डलादिकमभ्यर्च्य निवेद्य च यथावसु ॥१२२॥पूर्ववद्धवनं कृत्वा बलिं दत्वा यथाविधि ।ग्रावीथिषु बल्यर्चां नीत्वान्यत्सर्वमाचरेत् ॥१२३॥यथापुरं चोत्सवार्चां नयेद् ग्रामादिके बहि: ।देवस्य पार्श्वतो लक्ष्मीदेवीं पृथ्वीमुभे हमे ॥१२४॥अलंकृत्य नयेत्सर्धं बहिर्ग्रामादिवीथिषु ।देवस्यैकस्य वा कुर्यात् परिक्रमणमन्वहम् ॥१२५॥दिवसे दिवसे भूषाविशेषं कारयेदपि ।गजाश्वादिषु यानेषु कृत्रिमेष्वधिरोहयेत् ॥१२६॥तत्तदारोहणादीनां(णदिने ?) जलद्रोण्यवगाहनम् ।पूर्वस्मिन्नपि सायह्ने कुर्यात् कौतुकबन्धनम् ॥१२७॥देवस्य सविशेषार्चां विदध्याद्देशिकोत्तम: ।दिवानक्तं च सर्वत्र बलिदानं समाचरेत् ॥१२८॥तीर्थोत्सवात्पूर्वदिने मृगयोत्सवमाचरेत् ।तत्पूर्वदिवसे कार्यं जलद्रोण्यवगाहनम् ॥१२९॥तत्पूर्वावसरे देवं देवीभ्यां सह विष्टरे ।हैमेऽधिरोप्य वीथीश्च शोभयित्वा विशेषत: ॥१३०॥परिभ्राम्य च सर्वत्र नयेदुद्यानवाटिकाम् ।तत्रापि च विशेषार्चां कारयेत्तद्विचक्षण: ॥१३१॥गीतनृत्तादिका: सर्वा: क्रीडा: संदर्शयेत्तथा ।एवं प्रतिदि?नं कुर्यात् सविशेषमहोत्सवम् ॥१३२॥आहृतं ग्राभृतं सर्वं दर्शयेज्जनसंसदि ।देवस्यानुग्रहं तेषां स्वयमाज्ञापयेत्तथा ॥१३३॥आलोक्य चाननाम्भोजं देवस्य सुसमाहित: ।मत्वा च देवोऽह?मिति प्रसादादि समाचरेत् ॥१३४॥एवमष्टास्वती?तेषु दिवसेषु महोत्सवे ।जाते च तीर्थनक्षत्रे नवमेऽहनि देशिकम् ॥१३५॥आरोप्य स्यन्दनवरं भूषितं स(च ?)विशेषत: ।ग्रामादिवीथय: सर्वा: परिक्रम्य समन्तत: ॥१३६॥प्रवेशयेदालये तं मण्डपे चावतारयेत् ।भद्रासने चोनवेश्य विधिवच्च सभाजयेत् ॥१३७॥तीर्थबिम्बमलंकृत्य नवक्षौमयुगेन च ।कौतुकं बन्धयित्वा च यानं हैममलंकृतम् ॥१३८॥आरोप्य चक्रानुगतं भक्तेरपि निषेवितम् ।परिक्रम्योत्सवार्चां च धाम ग्रामं प्र?दक्षिणम् ॥१३९॥नीत्वाथ सरितस्तीरं सरसस्तटमेव वा ।जलधेरथवा तीरे मण्डपे पूर्वकारिते ॥१४०॥अवतार्यासनवरे संनिवेश्य च कौतुकम् ।चक्रादिसहितं तत्र पूजयित्वा विधानत: ॥१४१॥तीर्थबिम्बस्य पुरत: कलशान् पञ्चविंशति: ।संस्थाप्य सप्तदश वा स्त्रपनोक्तविधानत: ॥१४२॥अभिषिञ्चेच्च कलशैर्देवं शास्त्रोक्तवर्त्मना ।शिष्टै: सुदर्शनं देवमभिषिञ्चेच्च वारिभि: ॥१४३॥अभावे सरिदादीनां तेषामावाहनं बुध: ।कारयित्वा तीर्थबिम्बं चक्रं भक्तांश्च देशिक: ॥१४४॥निमज्जयेच्चतुष्कृत्वा तटमुत्तार्य चासने ।निवेश्य चाप्यलंकृत्य धाम चैव प्रवेशयेत् ॥१४५॥तत्काले सह देवेन ये निमज्जन्ति मानवा: ।तेऽनुभूय शुभं सर्वं सर्वजन्मसमार्जितम् ॥१४६॥सुदुष्प्रापं परं यान्ति पदमाचन्द्रतारकम् ।देवं मण्डपमानीय सभाज्य च यथाविधि ॥१४७॥महाहविर्निवेद्याथ प्रात: काले समाहित: ।भक्तैर्जनैर्बहुविधै: सेविते मण्डपोत्तमे ॥१४८॥विधाय मण्डपं(लं ?) चक्रपह्ममावरणान्वितम् ।पुष्पैस्त्कालसंभूतै: कृष्णैश्च तुलसीदलै: ॥१४९॥वर्णै: सितादिभि: सवैश्चित्रयित्वा च मध्यत: ।सिंहपादाङ्किते भद्रपीठे च प्रभया युते ॥१५०॥औत्सवं बेरमादाय क्रमादर्ध्यादिभिर्यजेत् ।द्विषट्कमनुवर्णानि द्वादशानि(?) गुरुर्द्विज: ॥१५१॥पृथक्पृथगुदाहृत्य जेदर्ध्यादिभि: क्रमात् ।समस्तैरपि देवेशं यजेत्पूष्पैरनन्तरम् ॥१५२॥अङ्गानि च हृदादीनि संप्रोच्य कुसुमैर्यजेत् ।भूषाणानि क्रमादिष्ट्वा चक्राद्यान्यायुधान्यपि ॥१५३॥देवानावरणस्थांश्च समभ्यर्च्य स्वनामभि: ।मत्स्यादीनर्चयित्वाथ चतुर्विशतिमूर्तय: ॥१५४॥पूजाक्रमेण पुंसूक्तमुच्चार्य प्रत्यृक्तं तथा ।नारायणानुवाकं च विष्णुसूक्तं च काश्यप ॥१५५॥देवपादाम्बुजद्वन्द्वे विक्षिपेत्कुमुमाञ्जलिम् ।पञ्चोपनिषदैर्मन्त्रै: क्षिपेत्कुसुमसंचयम् ॥१५६॥चतुर्दिक्षु चतुर्वेदपठनं कारयेद् द्विज ।कोणेष्वेकायनी शाखां तन्मयै: पाठयेदपि ॥१५७॥गीतैर्नृत्तैर्बहुविधैस्तोषयेच्च प्रभुं द्विज ।पुष्पौधै: पञ्चवर्णाढ्यैर्देवेशमभिषेचयेत् ॥१५८॥अन्नं चतुर्विधं चैव देवाय विनिवेदयेत् ।जुहुयात् समिदाद्यैश्च चतुभिर्मूलविद्यया ॥१५९॥पृथकृ पृथक् चाष्ठशतं देशिको मन्त्रवित्तम: ।देवं प्रदक्षिणीकृत्य दण्डवत् प्रणिपत्य च ॥१६०॥याने च देवमारोप्य प्रथमावरणस्थितम् ।ब्रह्मादीनां च देवानां भक्तानां चापि चोत्सवम् ॥१६१॥प्राप्तानामनुसंधातुं गमनायालयं प्रति ।अनुज्ञां देवदेवेन कारयित्वा प्रदिक्षणम् ॥१६२॥परीत्य सेवकैर्नित्यै: सार्धमालयमाव्रजेत् ।तद्रत्र्या: प्रथमे यामे नीत्वा स्त्रपनण्डपम् ॥१६३॥कलशै: स्त्रापयित्वा तं निवेद्य च महाहावि: ।आसा़द्य यागदानं कृत्वा होमं यथाविधि ॥१६४॥शान्तिहोमं विधायाथ प्रायश्चित्तार्थमप्यथ ।सहस्त्रं वा शतं वारान् पञ्चोपनिषदा पृथक् ॥१६५॥हुत्वा पूर्णाहुतिं कृत्वा पश्चादग्रि विसर्जयेत् ।तोरणादिस्थितान् देवान् विसृज्य तदनन्तरम् ॥१६६॥गत्वा ध्वजसमीपं च सभाज्य पतगेश्वरम् ।निवेद्य च हिव: कृत्वा मरुत्मन्तं प्र?दक्षिणम् ॥१६७॥उद्वासयेत् पटस्थं तं खगं संहृतियोगत: ।ध्वजावरोहणं कृत्वा मध्यरात्रे च पाठयेत् ॥१६८॥दण्डं ध्वजपटं चैव स्वीकुर्याद्देशिकोत्तम: ।गरुडस्यातिमहति(ती ?) तृप्ति: स्याद् ग्रहणे हि स: (तयो: ?) ॥१६९॥पूर्वमावाहितान् देवान् तत्तत्स्थानेपुं संस्थितान् ।संप्रदाय बलिं तूर्यं घोषयित्वा पृथक् पृथक् ॥१७०॥ब्रह्मणमपि चोद्वास्य मूकै: परिजनै: सह ।अष्टाक्षरजपं कुर्यात् गुरु म?(र्म ?)न्वादिकं हरे:(?) ॥१७१॥विधाय देवं यान्स्थामौत्सवं गर्भमन्दिरम् ।प्रवेश्य विज्ञाप्य पुन: प्रणम्य स्वगृहं यजेत् ॥१७२॥प्रभातायां तु शर्वर्यां यजमानस्तु देशिकम् ।वस्त्राभरणगन्धाद्यैरलंकृत्सय सभाज्य च ॥१७३॥दत्वोत्तमस्वर्णशतनिष्कयुक्तां तु दक्षिणाम् ।तदर्धं वा यथाशक्ति दत्वा वच प्रणभेद्ग्रुरुम् ॥१७४॥आचार्याणां तथान्येषां दशनिष्कप्रमाणत: ।ऋत्विजां च तदर्धं स्यादन्येषां च तदर्धकम् ॥१७५॥क्रमेण दक्षिणां दत्वा गायकाद्यान् जनानपि ।स्वार्णाम्बराद्यै: संतोप्य तत्तत्कर्मानुरूपत: ॥१७६॥द्रष्टुमुत्सवमायातान् जनान् भागवतानीति ।पूजयेदीप्तिसतैर्द्रव्यैस्तत्तत्संतोषकारणात् ॥१७७॥दक्षिणा चापि दातव्या सर्वेभ्यो यागकर्मणि ।[कर्मभ्यो दक्षिणाहीनो](दक्षिणाहीकर्मभ्यो?) यागो निष्फल एव च ॥१७८॥प्रत्युत प्रत्यवायाय यजमानस्य कल्पते ।विभवानुगुणं तस्माद्दातव्या दक्षिणा बुधै: ॥१७९॥कारयेदुत्सवं यस्तु देवदेवस्य शार्ङ्गिण: ।श्रद्धया दक्षिणायुक्तं साङ्गोपाङ्ग महामना: ॥१८०॥कुलं तारयते सर्वं यावदाभपूतसंप्लवम् ।अश्वमेधसहस्त्रेणा यो यजेत समाहित: ॥१८१॥यजेत यो भगवतो यागेन न समं फलम् ।अतिरिच्येत भगवाद्यगजं फलमुत्तमम् ॥१८२॥पुष्पयागदिनादन्वग्दिवसे तु यथापुरम् ।नित्यार्चनं विधायाथ सायाह्ने देशिकोत्तम: ॥१८३॥देवं बहिर्निर्गमय्य मण्डपे विष्ठरोत्तमे ।मुक्तावितानस्याधस्तान्निवेश्य च सभाज्य च ॥१८४॥विष्वक्सेनं च देवस्य पुरत: संनिवेश्य च ।हविर्निवेदनान्तं च कारयेद्देवपूजनम् ॥१८५॥निवेद्यान्ते(निवेदितं ?) दिने तस्मिन् यद्यत् पायसपूर्वकम् ।चतुर्विद्यं वान्नजातं पृथुकापूपसक्तव: ॥१८६॥ताम्बूलं चैतदखिलं विष्वक्सेनाय दापयेत् ।तत्सर्वं पुरतो न्यस्य विष्वक्सेनस्य देशिक: ॥१८७॥तस्मै निवेद्य सकलमगाधेऽम्भसि निक्षिपेत् ।पश्चात्सेनेशसहितं देवं स्थाने प्रवेशयेत् ॥१८८॥एष ते भगवद्यग: संक्षिप्तोऽभिहितो मया ।अवधार्येममित्थं त्वं कृती स्या: कश्?यपात्मज ॥१८९॥इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायाम्इत्सवविधिर्नाम अष्टादशोऽध्याय:॥ N/A References : N/A Last Updated : January 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP