संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वामित्रसंहिता| सप्तदशोऽध्याय: विश्वामित्रसंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदर्शोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: विश्वामित्रसंहिता - सप्तदशोऽध्याय: विश्वामित्रसंहिता Tags : samhitavishwamitra samhitaविश्वामित्र संहितासंहिता सप्तदशोऽध्याय: Translation - भाषांतर काश्यप:----श्रुतो नित्योत्सवविधिर्महोत्सवविधेर्मम ।शुश्रूषा वर्तते ब्रह्मन् तं मे वक्तुं त्वमर्हसि ॥१॥विश्वामित्र:---महोत्सवस्त्रिधा प्रोक्तो नित्यो नैमित्तिकसतथा ।कान्यश्चेति मया प्रोक्त: प्रोक्त: प्रथमं ते द्विजोत्तम ॥२॥शुभे च तिथिनक्षत्रे विषुवायनयोर्द्वयो: ।संकल्पितावभृथक: सर्वदैवतसेवित: ॥३॥ज्ञेयौ नैमित्तिक इति निमित्ते सति कल्पित: ।अनावृष्टौ सुदीर्घायां सति दुर्भिक्षसंभवे ॥४॥पतितासु महोल्कासु रात्राविन्द्रधनु[र्दिशि] ।दर्शने वालमीनानां श्वेतकाकस्य दर्शने ॥५॥अशनीनां निपाते च दिग्दाहे भू?भिकम्पने ।देवतालयभेदे च पतने चैत्यभूरुहाम् ॥६॥देवताप्रतिमानां च कम्पने भेदने तथा ।महावाते महावृष्टौ ग्रहयुद्धविधानके ॥७॥एवमादिषु सर्वेषु महोत्पातेषु सुव्रत ।एतद्दोषप्रशान्त्यर्थं क्रियते यो महोत्सव: ॥८॥स नैमित्तिकनामा स्यादुत्सवो मधुविद्विष: ।यर्त्किचित्काममुद्दिश्य क्रियते यत्क(य: फ ?) लर्थिमि: ॥९॥स काम्य इति विज्ञेयो यथेष्टफलदायक: ।नवाह: सप्तदिवस: पञ्चाहस्त्रिदिनावषि: ॥१०॥यथाविभवविस्तारं प्रकल्प्य: स महोत्सव: ।तदर्थं मनसा पूर्वमालोच्यैव प्रकल्पयेत् ॥११॥अयने विषुवे वापि मासर्क्षेष्वथवा द्विज ।पौर्णमास्याममायां वा रोहिष्यां श्रवणे तथा ॥१२॥प्रतिष्ठादिवसे वापि कल्पयेत्तीथवासरम् ।ग्रामे वा नगरे वापि पत्तने वा विशेषत: ॥१३॥बलिप्रदानं रथ्यासु कारयेज्जनसंयुजते ।ग्रामादिरहिते धाम्रि बहिर्नोत्सवमाचरेत् ॥१४॥धाम्रोऽन्तरे वा कर्तव्यं सर्वेष्वावरणेषु च ।ग्रामाद्यङ्गे स्वतन्त्रे वा तथा ह्मालयोर्द्वयो: ॥१५॥उत्सवो यौगपद्येन न कार्यो द्विजपुंगव ।वास्त्वङ्गदेवतानां च कल्याणं दोषवदभवेत् ॥१६॥वर्तमानेऽन्यदेवानमुत्सवे वैष्णवं सत(ह ?)म् ।कुर्याद्वैष्णवकल्याणे नान्यत्कार्यां (?) कदाचन ॥१७॥सर्वासां देवतानां हि वासुदेवोऽधिदैवतम् ।ध्वजारोहणपूर्वे तु वर्तमाने महोत्सवे ॥१८॥केशवस्यादिदेवस्य न कुर्यान्मानुषं महम् ।अधिमासे सुराचार्ये शुक्र चास्तमिते सति ॥१९॥नोत्सवं प्रथमं कुर्यात्कुर्याच्चेद्राजराष्ट्रयो: ।जायते सुमहत्क्ले ?)शो मरणे चापेपजायते ॥२०॥द्वितीयादौ न दोष: स्यादुत्सवे प्रथमोदित: ।तीर्थाङ्कुरार्पणदिनात् पूर्वमेकोनर्विशके ॥२१॥दिने ध्वजारोहणं स्यादष्टाविंश(दश?)दिनेऽथवा ।द्वादशाहेऽथवा कुर्याद्वैनतेयध्वजोच्छ्रयम् ॥२२॥ध्वजारोहणनक्षत्रान्नवमे सप्तमेऽथवा ।पञ्चमे वा दिने कुर्यादङ्कुराणां समर्पणम् ॥२३॥उत्सवोक्तदिनात्पूर्वं कुतश्चित्कारणान्तरात् ।ध्वजारोहणविघ्रश्चेदुत्पन्नो द्विजपुंगव ॥२४॥उत्सवारम्भदिवसे कुर्या?देव ध्वजोत्सवम् ।रात्रौ संताडनं कुर्यादभेर्यास्तु शुभलग्रके ॥२५॥मङ्गलाङ्गुरवापं च पालिकासु विधाय च ।भेरीताडनत: पश्चाद् ध्वजमारोपयेत्तु वा ॥२६॥कार्पासं वसनं सूक्ष्मं शुक्लं ट्टढमथाहरेत् ।हस्तै: षोडशभिर्वापि न्यूनैर्वापि समायतम् ॥२७॥दशहस्तायतं तस्मादर्धविस्तारसंयुतम् ।यद्वा यथोदितं कुर्याद्यथाविभवविस्तरम् ॥२८॥निर्णिज्यालिप्य च ख्रलीं संशोष्यापि विमृज्य च ।तस्य मध्ये लिखेत् तार्क्ष्यं पीताभं लक्षणान्वितम् ॥२९॥नवतालसमुत्सेधं द्विहस्तं च सकञ्चुकम् ।पुष्पाञ्जलिधरं श्वेतवस्त्रवासितविग्रहम् ॥३०॥दंष्ट्राकरालवदनं दधानं भ्रुकुटीयुत(ग ?)म् ।जानुनोऽध: सुवर्णाभमा नाभेस्तुहिनप्रभम् ॥३१॥कुङ्कुमारुणमा मर्णादा ललाटात् सितेतरम् ।दधानं नीलनासाग्रं वामपादं च कुञ्चितम् ॥३२॥ष्टष्ठे निविष्टं बिभ्राणं बृहत्पक्षविराजितम् ।आकाशोद्ग्रमनोद्युक्तं वृत्तरौद्राक्षियुग्मकम् ॥३३॥करण्डभकुटोपेतं ललाटालम्बितालकम् ।हारादिसर्वाभरणभूषितं सुखविग्रहम् ॥३४॥यज्ञसूत्रीकृतं शोणं बिभ्राणं वासुकिं तथा ।वामदोर्दण्डकटकमनान्तं बिभ्रतं सितम् ॥३५॥कार्कोटकं पीतवर्णं वक्षसा बिभ्रतं सदा ।धूम्राभं तक्षकं चैव बिभ्राणं कटिसूत्रकम् ॥३६॥रक्ताब्जवर्णपह्माख्यं दक्षिणे श्रवसि स्थितम् ।पिङ्गलं च महापह्मं वामकर्णे च बिभुतम् ॥३७॥शङ्खं च तुहिनप्रख्यं दधानं मस्तकोपरि ।भ्रमराभं च गुलिकं दधानं चाङ्गदीकृतम् ॥३८॥पार्श्वद्वयोपरिष्ठाच्च विलिखेच्चामरद्वयम् ।अधोभागेऽम्बुसंपूर्णकुम्भं साङ्कुरपालिकम् ॥३९॥?B विलिखेत्पार्श्वयोश्चैव दीपयुग्मं समुज्जवलम् ।उ?परिष्टाल्लिखेच्छत्रं मुक्ताहारविभूषितम् ॥४०॥पार्श्वयोरुभयोश्चैव शङ्खं चक्रं सखङ्गकम् ।शार्ङ्गं च बाणसहितं गदामपि विलेखयेत् ॥४१॥लिखेच्च पञ्चभिर्वर्णै: श्यामवर्णकमन्तरम् ।ध्वजार्धपरिमाणा स्यात्पताका नैव चित्रिता ॥४२॥जातेऽधिवाससमये निशीथिन्यां गुरु: स्वयम् ।गत्वा च कारुशालायां नयनोन्मीलनक्रियाम् ॥४३॥शिल्पिना संविधायाथ शिल्पिनं परितोष्य च ।विसृज्यं तं स्वर्णमये पात्रे निक्षिप्य तं ध्वजम् ॥४४॥तूर्यवादित्रसहितं कृत्वा घामप्रदक्षिणम् ।प्रवेश्य धामान्तरालं देवस्याग्रे प्रदर्शायेत् ॥४५॥यागमण्डपमानीय प्रतिष्ठोक्तक्रमेण तु ।नयनोन्मीलनादीनि विधाय तदनन्तरम् ॥४६॥जलपूर्णकटाहे तु छायामस्याधिसयेत् ।आदर्शस्य प्रतिकृतौ स्त्रपनं विदधीत च ॥४७॥अष्ठाविंशमिभिर्वापि तथा षोडशभिस्तु वा ।कलशै: पौरुषेणैव सूक्तेन सह मूर्तिपै: ॥४८॥अर्ध्यादिपूजनं कृर्यात् स्वगायत्र्या महामते ।शलीनां दशभिर्भारै: कल्पिते शयने शुभे ॥४९॥तदर्धैस्तण्डुलैस्तस्योपरिष्टाच्च तदर्धकै: ।तिलैर्भघ्ये तु विस्तीर्णै: शुभैर्वस्त्रै: समावृते ॥५०॥तस्योपरिष्ठात् सुशुभै: कम्बलादिभिरास्तृते ।शययित्वा पटान्त:स्थं देवं गरुडरूपिणम् ॥५१॥तस्य दक्षिणपर्श्वे तु कुम्भं निर्दोषमव्रणम् ।धान्यराशौ स्थापयित्वा करकं सुशुभं तथा ॥५२॥विन्यस्य चाष्टकलशान् परित: सर्वदिक्ष्वपि ।कुम्भे गरुडमावह्म करके च सुदर्शनम् ॥५३॥कलशेष्वष्टसु तथा शक्रादीनपि पूजयेत् ।विस्तार्य च गरुत्मन्तं पटस्थं धामसंमुखम् ॥५४॥आवाह्म तत्प्रतिकृतौ व्याहृतीभि: पतत्प्रभुम् ।संनिधिं तत्र विप्रेन्द्र गाथया प्रार्थयेत् च ॥५५॥वेदमूर्ते नमस्तुभ्यं वैनतेय महाबल ।महाबाहो संनिधत्स्व पटेऽस्मिँस्ते नमो नम: ॥५६॥आहूत: कर्मसिद्धिं च विहगेश कुरुष्व न: ।देवस्योत्सवसंपत्त्यै लोकाह्वानं विधत्स्व च ॥५७॥इति विज्ञाप्य गरुडं गायत्र्या स्वीयया पुन: ।अर्चयित्वार्ध्यपूर्वैस्तु निवेद्य च तुर्विधम् ॥५८॥नैवेद्यजातं सकलं कुम्भान्त:स्थं समर्च्य च ।नैवेद्यान्ते गरुत्मन्तं पश्चात् स्तोत्रै: स्तुवीत च ॥५९॥महाविष्णोर्वाहनाय तार्क्ष्यायामिततेजसे ।सर्पेन्द्रमृत्यवे तुभ्यां गरुडाय नमोऽस्तु ते ॥६०॥पक्षीन्द्राय नमस्तुभ्यं स्वाध्यायवपुषे नम: ।विहगेन्द्र नमस्तेऽस्तु समुत्पाटितकल्पक ॥६१॥आहृतामृतकुम्भाय जननीशापमोचिने ।सुरासुरेन्द्रजयिने नागेन्द्राभरणाय च ॥६२॥यदाधारमिदं सर्वं तदाधाराय ते नम: ।रथन्तरं बृहत्साम यस्य पक्षावुभौ प्रभो: ॥६३॥त्रिवृत्साम शिर: प्रोक्तं गायत्री यस्य चाक्षिणी ।स्तोम आत्मा नमस्तेऽस्तु वामदेव्याङ्गसंपदे ॥६४॥नम: प्राणादिवायूनामीशानाय गरुत्?मते ।दोषानपनयाखण्डान् गुणानावह सर्वत: ॥६५॥विध्रानि(?)जहि सर्वाणि(?) मामपि स्वात्मसात् कुरु ।एवं स्तुत्वा उपेन्मन्त्रं गरुत्मन्तमनन्यधी: ॥६६॥ब्रह्मघोषैस्तूर्यनादैर्जागरेण नयेन्निशाम् ।कवलीकृत्य नैवेद्यं तन्मन्त्रैरभिमन्?त्र्य च ॥६७॥योषिद्भ्यश्चैव वन्ध्याभ्यो दद्यान्मन्त्राभि?मन्त्रितम् ।ध्यात्वाच्युतं गरुत्मन्तं क्षिपेदञ्जलिषु स्वयम् ॥६८॥पिण्डान् स्त्रियो भक्षयित्वा बहून् पुत्रानवाप्नुपु: ।प्रात:काले गरुत्मन्तमाराध्य च हर्वीषि च ॥६९॥निवेद्य पटसंस्थं तं भूषयित्वाम्बरादिभि: ।रथे वा हस्तिपृष्ठे वा शिबिकायामथापि वा ॥७०॥आरोपयित्वा तद्धाम ग्रामं चैव प्रदक्षिणम् ।नयेन्मृदङ्गपटहभेरीघोषणपूर्वकम् ॥७१॥शङ्खकाहलिचिह्नानां नादैर्बहुविधैरपि ।वेदघोषैर्द्विजानां च गीतैर्नानाविधैरपि ॥७२॥आघोष्य पुरतो देवान्नयेयुर्वाहनोद्वाहा: ।स्थानस्थानेषु गीतांश्च श्रावयित्वा पृथग्विधान् ॥७३॥दर्शयित्वा च नृत्तानि खाद्यानिच फलानि च ।मध्ये द्विजोत्तमा: सर्वे पालिका: साङ्कुरा द्विज ॥७४॥नयेयुर्मूभिर्मुख्स्या वैष्णवा वशिनोऽपि च ।नयेयुरुत्सवं बिम्बं गरुडस्यान्वगेव तम्(त् ?) ॥७५॥यजमानेच्छसया कुर्यान्मङ्लानि समन्तत: ।बलिपीठाग्रतो वापि गोपुराद्वहिरेव वा ॥७६॥भूमौ खनेद् ध्वजस्तम्भं दारवं दोषवर्जितम् ।बहि:सारेषु वृक्षेषु विदु: क्रमुकमुत्तमम् ॥७७॥चन्दनादि प्रशस्तं स्यादन्त:सारेषु काश्यप ।वर्ज्यं(र्ज्यो ?) नि:सारदारूत्थं(त्थ: ?) स्तम्भं (म्भ: ?)पक्षश्वरस्य तु ॥७८॥आयाम: शतताल: स्याद्विंशन्यूनोऽपि वा भवेत् ।मानाङ्गुलप्रमाणेन स्तम्भस्य द्विजपुंगव ॥७९॥उच्छ्रायेण समानो वा प्रासादस्य महामते ।गोपुरोच्छ्रायमानो वा गरुडस्तम्भ उच्यते ॥८०॥आधाराणां मस्करस्य पीठानां त्रितयस्य तु ।मूलेषु छियुक्तानामग्रे स्याद्विनिवेशनम् ॥८१॥द्वितालायामयुक्तानि पठानि स्युर्महामते ।तस्थार्धोन च विस्तीर्णान्येतदर्धधनानि च ॥८२॥स्थूलनि मूलेष्वग्रेषु सूक्ष्मायपि च कारयेत् ।अयुग्मं पीठयुग्मं तु छिद्रयुक्तं च मस्करम् ॥८३॥छिद्रयित्वा निवेश्यैव ध्वजयष्टिं द्विजोत्तम ।वेणुकं नव वा सप्त पञ्च वा विनिवेशयेत् ॥८४॥ईट्टशं तद् ध्व(तं ध्व ?)जस्तम्भमुत्तरे पीठपार्श्वके ।वेदविदिभर्द्विजवरैर्गुरानीय(नाय्य ?)शाययेत् ॥८५॥प्रागग्रमुत्तराग्रं वा स्तम्भं प्रक्षालयेत् पुन: ।स्तम्भमब्लिङ्गकैर्मन्त्रै: प्रच्छाद्य च कुशैरपि ॥८६॥ऊर्ध्वाग्रैस्तु शुभै: स्तम्भं दामस्त्राग्भिश्च वेष्टयेत् ।अवटे लोहबीजादिशोभिते स्तग्भमीट्टशम् ॥८७॥स्थापयेद्विष्णुसूक्तेन सुट्टढं धामसंमुखम् ।अङ्गष्ठमात्रनाहेन(हं च?) पाशेन(शं?) त्रिगुणेन (णमेव?) च ॥८८॥ध्वजस्तम्भाग्रविवरे सुट्टढं विनिवेशयेत् ।अथवा स्तम्भमारुह्म ध्वजरज्जुं निवेशयेत् ॥८९॥गुरु: सुशोभने लग्रे ध्वजमारोपयेदिति (दपि?) ।पूर्वभागेऽथवा मध्ये सायाह्ने वापराह्णके ॥९०॥पौरुषेणैव मन्त्रेण बध्वा घण्टां पताकया ।सुपर्णोऽसीतिमन्त्रेण ध्वजारोहणमाचरेत् ॥९१॥तदारोहणवेलायां गुरु: स्त्रात: स्वलंकृत: ।देवमुत्सवबंरस्थं स्थापयित्वास्य संमुखम् ॥९२॥अकंकृते मण्डपे च वितानैर्मौक्तिकै: शुभै: ।लम्बिताभिर्विचित्राभिर्मालिकाभि: समन्तत: ॥९३॥परार्ध्यै: क्षौमपट्टैश्च वेष्टितस्तम्भसंचयै: ।गन्धोदकाद्यै: सान्द्रं च संसेवितपुरोभुवि ॥९४॥मुक्तपुष्पैर्वहुविधैर्गन्धामोदितदिङ्मुखै: ।समन्तात् संप्रकीर्णैश्च साङ्कुरै: पालिकागणै: ॥९५॥सर्वत: संवृते मध्ये निक्षिप्ते कनकासने ।सुखासीनाय देवाय सेविताय द्विजोत्तमै: ॥९६॥अर्चिताय च गन्धाद्यैर्निवेद्यापूपपूर्वकम् ।नानाविधं खाद्यगणं फलैर्बहुविधै: सह ॥९७॥ताम्बूलवीटीर्बहुधा पाण्डरा: प्रियदर्शना: ।तैलधिवासितानेकपूगीफलसमन्विता: ॥९८॥निवेद्य च द्विजाग्रे(ग्र्ये?)भ्य: सेवकेभ्य: प्रदाय च ।उर्वशीमेनकारम्भासंनिभाभि: पृथक् पृथक् ॥९९॥नर्तकीभिर्दर्शयित्वा नृत्ताजातमनन्तरम् ।स्तम्भमूले तु निर्माय गरुडं पततां वरम् ॥१००॥तन्मध्ये परित: स्तम्भं कल्पयित्वा सरोरुहम् ।मूर्तिपै: सह पक्षीन्द्रस्तोत्रमन्त्रादिजापकै: ॥१०१॥पुण्याहवाचनं कृत्वा कुम्भं कलश(रक?)संयुतम् ।प्रोक्षयित्वा तदम्भोभिर्गरुडं बलसंयुतम् ॥१०२॥स्तम्भं चेन्द्रादिनाभ्यर्च्य मन्त्रोच्चारणपूर्वकम् ।कलशस्थैर्जलै: प्रोक्ष्य विज्ञाप्य च गरुत्मते ॥१०३॥सर्वासुरगणोत्साहनिवारण(क?) खगेश्वर ।पटेऽस्मिन् सन्निधाय त्वुत्सवावभृथावधि ॥१०४॥पक्षविक्षेपमरुता विघ्रौघं विनिवारय ।इति विज्ञापनं कृत्वा पृथुकापूपसंचयम् ॥१०५॥अन्नं चतुर्विधं चैव घृताक्तं फलसंयुतम् ।नानोपदंशसंयुक्तं नैवेद्यं विनिवेद्य च ॥१०६॥देवमारोप्य शिबिकां नीत्वा ध्वजसमीपकम् ।दर्शयित्वा च पतगमाह्वानार्थं दिवौकसाम् ॥१०७॥ब्रह्माण्डमध्यसंस्थानां सर्वेषामपि काश्यप ।आज्ञपयित्वा देवेन पाशेन च खगेश्वरम् ॥१०८॥आरोप्य स्तम्भशिरसि बध्वा पाशेन निश्चलम् ।प्रवेश्य देवं धामान्तर्मण्डपादौ निवेशयेत् ॥१०९॥तदाप्रभृति पक्षीशं त्रिसन्ध्यासु च पूजयेत् ।अर्ध्यादिभिर्निवेद्यान्तर्भोगजातैर्दिने दिने ॥११०॥प्रदीपयेदनिर्वाणप्रदीपं चास्य संनिधौ ।मण्डपस्थाय देवाय निवेद्य च महाहवि: ॥१११॥होमान्तमर्चयित्वाथ रात्रावपि सभाज्य च ।ध्वजपीठाग्रगां भूमिं गोमयेनोपलिप्य च ॥११२॥चतुरक्षं सुधावचूर्णै: शोभयित्वा च तत्र च ।शालीनामष्टभिर्भारै: पीठिकां परिकल्प्य च ॥११३॥तन्मध्ये कालचक्रं च लिखित्वा कालरूपिणम् ।पुरुषं पुण्डरीकाक्षं समभाज्य समनन्तरम् ॥११४॥देवमाराध्य तत्रैव संमुखीनं निवेश्य च ।अर्ध्यादिभिर्निवेद्यान्तैर्भोगैस्तमभिपूज्य च ॥११५॥कृत्वा पूर्णावसानं च भेरीताडनमाचेरत् ।तत्प्राच्यां शङ्खनिचयं वह्निकोणे च काहलान् ॥११६॥दक्षिणे मर्दलं वंशान् नैऋर्ते स्?थापयेदपि ।मूदङ्गं पश्चिमायां च ज्ञल्लरीं पश्चिमोत्तरे ॥११७॥कांस्यालसमायुक्तां विन्यस्य तदनन्तरम् ।उत्तरस्यां च पठहान् सह्नस्वपटहान् न्यसेत् ॥११८॥ऐवं क्रमेण संस्थाप्य यथाविभवस्तिरम् ।भेरीं संप्रोक्ष्य वासोभ्यो वेष्टयित्वा समन्तत: ॥१२०॥आकाशं शब्दनिलयं भेर्यां ध्यात्वा प्रपूजयेत् ।तत: स्त्रात: पारशव: श्वेतवस्त्रस्त्रगन्वित: ॥१२१॥सपवित्र: सोपवीत: प्रविशेद्देवसंनिधिम् ।अस्त्रेण तं प्रोक्षयित्वा मुहूर्ते शोभने गुरु: ॥१२२॥प्रक्षाल्य कोणं संप्रोक्ष्य ध्यायन् हयमुखं हरिम् ।त्रीन् वारान् ताडयित्वाथ दत्वा पारशवाय तम् ॥१२३॥तत: पारशव: कोणमादाय पुरुषोत्तमम् ।भेरीमध्ये चिन्तयित्वा श्रीभूमी पार्श्वयोर्द्वयो: ॥१२४॥ताडयेच्च यथाकामं दर्शयन् हस्तकौशलम् ।देवतावहनकरीं गाथां संश्रावयेद्विभुम् ॥१२५॥तत्काले देवसंघस्य प्रीणनाय तु गायकै: ।तत्तद्ग्राथाश्च रागांश्च गीतानि श्रावयेत् पृथक् ॥१२६॥नृत्तगीतैश्च तृप्त्यर्थं तेषां नृत्तादि दर्शायेत् ।बलिं प्रदाय तेभ्यश्च सर्वभोगसमन्वितम् ॥१२७॥देशिक: प्राङ्मुखो भूत्वा तच्छिष्यस्तत्सुतोऽपि वा ।स्वरेणोच्चरेणैव पठेदञ्जलिपूर्वकम् ॥१२८॥आगच्छतामरगणा: प्रागाशां येऽधिशेरते ।विरूपाश्च सुरूपाश्च सपर्यामुद्यताभिमाम् ॥१२९॥गृहीत्वा पान्तु नस्तृप्ता: कुमुदस्यानुयायिन: ।महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: १७.१३०॥उनेन मन्त्रेणावाह्म कुमुदं सगणं तथा ।अर्ध्यादिभि: समभ्यर्च्य पायसं च निवेदयेत् ॥१३१॥तत:शाङ्रवैश्चैव काहलस्वनसंयुतै: ।महदिभस्तूर्यघोषैश्च तद्वाद्यश्रावणेन च ॥१३२॥तत्संगीतैश्च नृत्तैश्च प्रीणयेत्तं गणाधिपम् ।ततश्चाग्रेयकोणस्थं प्राङ्मुख: श्रावयेदिदम् ॥१३३॥आच्छतामरगण आग्रेय्या(यी ?)मधिशेरते ।भीमाभीममुखा रौद्रा: सपर्यामुद्यतामिमाम् ॥१३४॥गृहीत्वा पान्तु नस्तृप्ता: कुमुदाक्षानुयायिन: ।महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ॥१३५॥अनेन कुमुदाक्षं तमावाह्म गणनायकम् ।यथापुरं तोषयित्वा याम्यां दिशि(म्याशायां?) तत: परम् ॥१३६॥आगच्छत पितृगणा याम्याशां येऽविशेरते ।दारुणारणरूपा: स्यु: सपर्यामुद्यताभिमाम् ॥१३७॥गृहीत्वा पान्तु नस्तृप्ता: पुण्डरीकरानुयायिन: ।महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ॥१३८॥अनेन पुण्डरीकाक्षमावाह्म गणनायकम् ।तोषयित्वा च गत्वा च यातुधानदिशं प्रति ॥१३९॥आगच्छत गणा: कूरो नैऋर्र्त्या(ती?) येऽधिशेरते ।क्रव्याशना: क्रूरधिय: सपर्यामुद्यतामिमाम् ॥१४०॥गृहीत्वा पान्तु नस्तृप्ता वामनस्यानुयायिन: ।महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ॥१४१॥इत्यावाह्म गणेशं तं वामनं पूजयेत्तत: ।पश्चिमाशं ततो गत्वा शङ्कुकर्णं गणेश्वरम् ॥१४२॥आगच्छताहिपतय: प्रतीच्या(ची?)मधिशेरते ।महाविषा दन्दशूका: सपर्यामुद्यतामिमाम् ॥१४३॥गृहीत्वा पान्तु नस्तृप्ता: शङ्कुकर्णानुयायिन: ।महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ॥१४४॥इत्यावाह्म तमिष्ट्वा च गत्वा वायुदिशं तत: ।आयान्तु गन्धर्वगणा वायव्यां (वीं?) येऽधिशेरते ॥१४५॥सुदर्शना भीमवेगा: सपर्यामुद्यतामिमा ।गृहीत्वा पान्तु नस्तृप्ता: सर्पनेत्रानुयायिन: ॥१४६॥महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।अनेनावाह्म सगणं सर्पनेत्रं तु तोषयेत् ॥१४७॥अत्तरां ककुभं गत्वा सुमुखं तु गणाधिपम् ।आगता(यात?) वै यक्षगणा उदीचां येऽधिशेरते ॥१४८॥विरूपा दण्डहस्ताश्च सपर्यामुद्यतामिमाम् ।गृहीत्वा पान्तु न स्तृप्ता: सुमुखस्यानुयायिन: ॥१४९॥महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।इति पूर्ववदावाह्म सुमुखं तोषयेत्तत: ॥१५०॥आयान्तु(त?) पैशाचगणा ऐशान्यां (नीं ?) येऽधिशेरते ।नाना?कुत्सितरूपाश्च सपर्यामुद्यतामिमाम् ॥१५१॥गृहीत्वा पान्तु नस्तृप्ता: सुप्रतिष्ठानुयायिन: ।महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ॥१५२॥अनेन मन्त्रेणावाह्म संपूज्या च गणाधिपम् ।मध्यं(ध्ये?)दिश:(दिश:(शं?) स्थितो भूत्वा ततो गगनसंमुख: ॥१५३॥प्रश्रिगर्भं गणाध्यक्षमावाह्मैनं जपेन्मनुम् ।आच्छत सिद्धगणा गगनं येऽधिशेरते ॥१५४॥शुचय: शुचिरूपाश्च सपर्यामुद्यतामिमाम् ।गृहीत्वा पान्तु नस्तृप्ता: प्रश्रिगर्भानुयायिन: ॥१५५॥महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।अनेन तोषायित्वा तं प्रश्रिगर्भं यथापुरम् ॥१५६॥अधस्तान्मानवाह्वानं कुर्वन् मन्त्रमिमं पठेत् ।आगच्छातामरगणा: पृथिवीं योऽधिशेरते ॥१५७॥बहुरूपा बहुमुखा: सपर्यामुद्यतामिमाम् ।गृहीत्वा पान्तु नस्तृप्ता मानवस्यानुयायिन: ॥१५८॥महं त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।इत्यावाह्म क्रमादेतान् तोषयेन्नृत्तपश्चिमम् ॥१५९॥समतालस्तथा मत्ततालो लाङ्गलिकस्तथा ।मल्लतालो मङ्गश्च जयतालश्च भद्रक: ॥१६०॥ढक्लरीसंज्ञकस्तालो ब्रह्मतालस्तथैव च ।अनन्तताल इत्येते दशताला: प्रकीर्तिता: ॥१६१॥कुमुदादिगणेशानां स्वरानपि शृणु द्विज ।षङ्जं(ङ्ज?) ऋषभगान्धारो (रौ?) मध्यम: पञ्चमस्तथा ॥१६२॥रैवतश्च निषादश्च धैवतो मध्यमस्तथा ।पञ्च पञ्च(मश्र?) क्रमेणैव (वं?) कथितास्ते दश स्वरा: ॥१६३॥गान्धारराग: कौल्याख्य: कौशिको नटभाषिक: ।श्रीकामदश्च तत्केशी दक्षारागस्तथैव च ॥१६४॥शालापाल्यभिधा(धो ?) रागो मेधरागश्च पञ्चम: ।इत्येते कुमुदादीनां दश रागा: प्रकीर्तिता: ॥१६५॥विलासं सर्वतोभद्रं खेटकं चक्रमण्डलम् ।कान्तारं कुट्टिमं पृष्ठकुट्टिमं ?कटिबन्धनम् ॥१६६॥वामजानूर्ध्वनृत्तं च आद्यतं च द्वयं पुन: ।एते नृत्तविशेषाश्च कुमुदादे: क्रमात् स्मृता: ॥१६७॥अन्येषां सर्वदेवानां तालो तालो भद्र: प्रशस्यते ।भवेरुद्ग्ररुडतालस्तु पक्षीशस्य तु मध्यम: ॥१६८॥स्वरो रागस्तु गौड: स्याद्विष्णुक्रान्तं च नृत्तकम् ।विघ्रारेर्जयताल: स्यान्नृत्तं स्वस्तिकमुच्यते ॥१६९॥ऋषभस्तु स्वर: प्रोक्तो वरालीराग एव च ।इत्थमावाहनं कृत्वा गणेशानां ततो गुरु: ॥१७०॥आह्वानं दिव्यहेतीनामपि स्वेनैव कारयेत् ।आवाह्मस्तु तथा ब्रह्मा स्वले(र्लो?)कस्थैर्मुनीश्वरै: ॥१७१॥मरीचिप्रमुखै: सार्धं रुद्रश्च प्रमथेश्वर: ।इन्द्र: सर्वै: सुरगणैर्गायत्र्या चाद्यदेवता: ॥१७२॥तन्महस्संनिधानार्थमाहू(ह्वा?)तव्या: प्रयत्नत: ।इत्यावाह्म च सर्वेषां विधाय द्विजपुंगव ॥१७३॥प्रवेश्याभ्यान्तरं देवं सहर्त्विग्भिश्च मूर्तिपै: ।भेर्यादिवादनज्ञैश्च गायकैर्नृत्त(र्नर्त ?)कैरपि ॥१७४॥नित्योत्वस्य प्रतिमामारोप्य शिबिकादिषु ।सुदर्शनं वा परितो ग्रामं नीत्वा प्रदक्षिणम् ॥१७५॥पूवोक्तेन क्रमेणैव दिशासु विदिशासु च ।इन्द्रादीनां महे तस्मिन् प्रार्थयित्वा च संनिधिम् ॥१७६॥चतुर्मुखं ग्राममध्ये समावाह्म सभाज्य च ।संनिधिं प्रार्थ्य रुद्रस्य सगणस्य च संनिधिम् ॥१७७॥संप्रार्थ्य भेरीं संताड्य गीतं नृतं प्रदर्श्य च ।मध्ये मध्ये च गरुडतालं संशोध्य(?)देशिक: ॥१७८॥अन्त: प्रविश्य गरुडध्वजस्तम्भस्य संनिधौ ।सर्वदेवतसंनादं कारयित्वा च गायक: ॥१७९॥गापयित्वा सर्वगीतीर्नर्तकीभिश्च नर्तनम् ।कारयित्वा प्रविश्यान्तर्देवं विज्ञाप्य सादरम् ॥१८०॥प्रणम्य स्वगृहं यायात् प्रसन्नो गुरुरात्मवान् ।भेरीताडनवेलायां तन्नादश्रावको जन: ॥१८१॥नदीं तीर्त्वा न गच्छेत्तु न यायाद्योजनात् परम् ।उत्सवावभृथं यावद् ग्रामे तत्रैव संवसेत् ॥१८२॥मङ्गलाङ्कुरवापस्तु कृतो येन ध्वजोत्सवम् (वे ?) ।स एवावभृथं यावदुत्सवस्य गुरुर्भवेत् ॥१८३॥तत्रागान्तुं न शक्तश्चेत् तत्सुत: शिष्य एव वा ।अनुज्ञातस्तु य: ?कश्चिदह्नायाथ समापयेत् ॥१८४॥उत्सवारम्भदिवसात् पूर्वस्मिन् सप्तमेऽहनि ।मङ्गलाङ्कुरसंवापं कारेयद्देशिकोत्तम:॥ ॥१८५॥षट्त्रिंशतं पालिकानां शरावणां च तावती(तीम्?) ।तत्प्रमाणाश्च घटिका: समानीय विचक्षण: ॥१८६॥पात्रेषु त्रिविधेष्वेषु वापयेन्मङ्गलाङ्कुंरान् ।उत्सेध: पालिकानां स्याद्धस्त: सैकाङ्गुलो मुने ॥१८७॥अङ्गुल्य: षोडश भवेत्तासामननविस्तृति: ।सप्ताङ्गुलप्रमाणां स्याद्विलं तालमथोऽपि वा ॥१८८॥अष्टाङ्गलं पादपीठं विस्तार: साङ्गुल: कर: ।मोहिनीपुष्पसंकाशं पह्माभं तन्मुखं भवेत् ॥१८९॥पञ्चवक्त्त्त्रास्तु घटिका द्वाविंशत्यङ्गुलोच्छ्रया: ।मध्ये घटोपमाकारा: षङङ्गुलमितं भवेत् ॥१९०॥वक्त्रं तासां मध्यसंस्थं चतुरङ्गुलसंमितम् ।चतुर्दिक्षु मुखानां स्यात् प्रमाणं द्विजपुंगव ॥१९१॥उच्छ्रायस्तु शरावाणां विंशद्ङ्गुलसंमितम्(त:?) ।विस्तारश्च वितस्ति: स्यात् त्रिधैवं पात्रकल्पना ॥१९२॥हैमं रौप्यं ताम्रजं वा कल्पयेत् पात्रसंचयम् ।यथाविभवविस्तारं सर्वाभावे तु मृण्मयम् ॥१९३॥इत्थमष्टोत्तरशतमुत्तमा क्लृप्तिरुच्यते ।मध्यमायां कल्पनायां प्रत्येकं षोडशं(?) भवेत् ॥१९४॥तदर्धमधमं प्रोक्तं यथासंभवमेव वा ।देवकर्मणि युग्मा: स्युरयुग्मा मानुषे विधौ ॥१९५॥पालिका एव वा ग्राह्म मङ्गलाङ्कुररोपणे ।सुशुभे विजने देशे कुर्यान्मण्डपमुत्तमम् ॥१९६॥मङ्गलाङ्कुरवापार्थं स्तम्भै: षोडशाभिर्युतम् ।चतुर्द्वारं प्रतिद्वारं दुग्धवृक्षसमुदभवै: ॥१९७॥भूषितं तोरणवरैर्दर्भमालासमावृतम् ।परार्ध्यक्षौमनिचयै:(य ?)प्रकल्पितवितानकम् ॥१९८॥वितानाधोलम्बिताभिर्मक्तास्त्रग्भिर्विभूषितम् ।क्षौमैर्महार्धै: (महार्घक्षौम?) संवीतस्तम्भसंचयमदभुतम् ॥१९९॥गोमयालेपिततलं सुधाचूर्णप्रकल्पितै: ।रेखागणैरब्जकुलैर्विराजिततलं शुभै: ॥२००॥प्रदीपनिकरैर्बद्धं (र्युक्तं?) तैलसंपूर्णमल्लिकै: (?) ।विभूषितं मुक्तपुष्पैराकीर्णं साक्षतै: सितै: ॥२०१॥ध्वजामालापरिवृतं धूपामोदितदिङ्मुखम् ।प्रकल्पय मण्डपवरमेवंविधमुदारधी: ॥२०२॥मृत्तिकाग्रहणं कुर्याच्दुभे लग्नेऽथ देशिक: ।सशङ्खकाहलगणं तूर्यघोषनिनादितम् ॥२०३॥वेदविदिभर्द्विजगणै: श्वेतस्त्रग्वस्त्रधारिभि: ।ऊर्ध्वपुण्ड्रैर्द्वादशभि: श्वेतमृत्स्राबिनिर्मितै: ॥२०४॥विभूषिताङ्गसंघातै: शान्तैर्दान्तैर्जितेन्द्रियै: ।महाभागवतैश्चेव [संमुख प्रागुदङ्मुख:](?) ॥२०५॥सत्यानां पावनं शुद्धं गत्वा क्षेत्रमनुत्तमम् ।शुचिस्तत्र खनित्रं च संक्षाल्यादिभ: समाहित: ॥२०६॥खात्वा वाराहमन्त्रं च (खनित्वा वाराहमन्त्रं?) पठेत् तात्रे हिरण्मये ।निधाय च मृदं क्षौमैर्नवैराच्छाद्य शोभनै: ॥२०७॥पुष्पस्त्रग्भिरलंकृत्य गजस्यन्दनसंस्थितै: ।ऋत्विग्भिर्वाहयेच्छत्रच्छायात:(ध:?)संस्थितैर्द्विज ॥२०८॥विष्वक्सेनं समारोप्य स्यन्दने वा गजेऽथवा ।शिबिकायामथाश्वे वा यथादेवं विभूष्य च ॥२०९॥मुक्ताच्छत्रादिभि: सर्वैश्चामरैश्च सुशोभितम् ।उह्ममानं द्विजवरैर्नयेत् सार्धं द्विजोत्तम: ॥२१०॥बह्वृचै: शाकुनं सूक्तं पठदिभ: सहितो मुने ।श्रीसूक्तं पुरुषसूक्तं च (पौरुषं सूक्तं?) साम चोद्घोष्य सर्वत: ॥२११॥ग्रामं प्रदिक्षणं कृत्वा धाम चापि परीत्य वै ।प्रविश्य मण्डपवरं प्रागुक्तं(?) मूर्तिपान्वित: ॥२१२॥आचार्यो मूर्तिपैश्चैव सर्वत: प्रावृतैर्मुने(?) ।नवीनक्षौमवसना: सोत्तरीया: स्वलंकृता: ॥२१३॥उष्णीषधारिणो रत्नमुद्राशोभितपाणय: ।स्वनुलिप्ता: स्त्रग्विणश्च कुण्डलालंकृतानना: ॥२१४॥पवित्रपाणयश्चैव सोर्ध्वपुण्ड्रा: सुचेतस: ।प्रादप्रक्षालनं कृत्वा स्वाचान्ता मूलविद्यया ॥२१५॥शुकव्यासवसिष्ठादिमुनिमुख्योषमा द्विजा: ।संप्रोक्ष्याङ्कुरवापार्थं भूभिं शुद्धेन चाम्भसा ॥२१६॥अस्त्रमन्त्रप्रजप्तेन(प्तानि?) कुशाग्रस्थापितेन(तानि?) वा ।सूत्राणि चन्द्रन्क्षोदसिक्त्तानि स्फलायेत् क्रमात् ॥२१७॥प्राच्यादि प्रथमं सूत्राण्युदीच्यां द्वादश स्फटम् ।पातयित्वा पञ्चदश तथोदीच्यानि क्लपयेत् ॥२१८॥दिक्ष्वष्टासु तथा मध्ये द्वादशद्वादशैव तु ।स्थापनीया: पालिकाद्या: शतमष्टाधिकं क्रमात् ॥२१९॥ब्रह्मेन्द्रवरुणेषु स्याद् घटिकानां गणो मुने ।स्थापयेद्वहिनिऋर्तियमभागेषु पालिका: ॥२२०॥शरावान् मारुतशशिरुद्रभागेषु कल्पयेत् ।अथवा नवसूत्राणि प्राचीनानि प्रकल्पयेत् ॥२२१॥एकादशेतराणि स्फुरुदीचीनानि काश्यप ।एतत्क्रमेण सर्वेषां विधिवत्स्थापनं भवेत् ॥२२२॥सर्वत्र पालिका वा स्युरन्याभावे द्विजोत्तम ।क्षालयेद्विष्णुगायत्र्त्या पालिकादि क्रमेण च ॥२२३॥बिलमूलानि संपूर्य शष्यकाशतृणैर्ट्टढम् ।तदूर्ध्वं प्रथमं मृदिभ: पूरयित्वा ततोपरि(?) ॥२२४॥उपाहृताभि: सरितो वालुकाभि: प्रपूरयेत् ।चूर्णितैर्गोकरीषैश्च बिलशेषं प्रपूरयेत् ॥२२५॥कोष्ठान्यष्ठशतान्यादौ प्रत्येकं शिवशालिभि: ।वृत्तं वा चतुरश्रं वा विधायोपरि विन्यसेत् ॥२२६॥ब्रह्मादीशानपर्यन्तं प्रथमं घटिकागणम् ।स्थापयेत् परमेष्ठयाख्यमन्त्रेण प्रथमं द्विज ॥२२७॥विन्यसेद्विश्वमन्त्रेण शरावंस्तदनन्तरम् ।सर्वेषां स्थापनं कुर्यात्प्राङ्मुखो वाप्तुदङ्मुख: ॥२२८॥वासोभिर्वेष्टयेत् पश्चात् प्रत्येकं मूलविद्यया ।अशक्तश्चेत् प्रतिगृहं छादयेद्वाससोपरि ॥२२९॥धान्यराशौ शुभं कुम्भं तन्तुभिर्वेष्ठितं नवम् ।वेष्टितं क्षौमयुग्मेन गन्धोदकसुपूरितम् ॥२३०॥निक्षिप्तनवरत्नं तु स्थापयेन्मूलविद्यया ।बिम्बे च मण्डले कुम्भे पावकेषु चतुर्ष्पपि ॥२३१॥स्थानेषु पूजयित्वाग्रे भगवन्तमनन्यधी: ।अर्ध्याद्यं च निवेद्यान्तं देवदेवस्य संनिधौ ॥२३२॥मङ्गलाङ्कुरवापं तु कुर्याद्देशिकसत्तम: ।अथवैकत्र कुम्भे वा देवमिष्टवा द्विजजोत्तम ॥२३३॥शालि(लीन्?)मुद्ग्रांश्च नीवारान् श्यामाकन् मप्रियङ्गकान् ।तिलान् यवान् सगोधूमानन्यानपि च याज्ञिकान् ॥२३४॥एकपात्रे विनिक्षिप्य हैमे महति शोमने ।मूर्ध्रि विन्यस्य तत्पात्रं धाम कृत्वा प्रदक्षिणम् ॥२३५॥कुर्यात् काहलशङ्खादिसंघोषणसमन्वितम् ।अन्त: प्रविश्य देवस्य दर्शयित्वा च मण्डपम् ॥२३६॥प्रदक्षिणमथानीय पालिकाद्यैन्द्रभूतले ।भारतण्डुलसंकलृप्ते पह्मेऽष्टदलसंचिते ॥२३७॥क्षीरेण क्षालयित्वा च प्रच्छाद्य नववाससा ।पुष्याहघोषणं कृत्वा शङ्खतूर्यादिसंयुते(तम्?) ॥२३८॥क्रमेण पालिकादीनामधिदेवान् यजेत च ।ब्रह्मणं घटिकानां च पालिकानां च केशवम् ॥२३९॥शरावाणां त्रिणयनं घृतारोपणमाचरेत् ।द्वारेषु तोरणगणन् ध्वजान् कुम्भाष्टकं तथा ॥२४०॥गणनाथान् समभ्यार्च्य कुमुदादीन् यथाविधि ।इन्द्रदीनपि चाभ्यर्च्य सोमकुम्भे सुधाकरम् ॥२४१॥आवाह्माभ्यर्च्य सधृतं पायसं च निवेदयेत् ।घृताहुतिशतं हुत्वा सतस्त्र: समिधस्तथा ॥२४२॥व्यूहमन्त्रैश्च जुहुयात् सूक्तेन च तथा चरुम् ।हुत्वा पूर्णां धिधायाथ घृताहुतिशतं हुनेत् ॥२४३॥संस्पृश्य स्पर्शमन्त्रेण संपाताज्येन पालिकाम् ।बीजपात्रे च संपातघृतशेषं विनिक्षिपेत् ॥२४४॥जप्त्वा(?)चाष्टशतं वारान् सोममन्त्रमनन्यधी: ।ल्गे सुशोभने प्राप्ते ब्राह्मणानामनुज्ञया ॥२४५॥पालिकादिषु बीजानि वापयेन्मूलविद्यया ।ब्रह्मादीशानपर्यन्तं वापेयत् सकलं गुरु: ॥२४६॥अन्येऽप्यार्चासंमत्या विदध्युबींजवापनम् ।सिकत्वा च पुष्पपयसा साधयेच्च विधानकै: ॥२४७॥बलिं दत्वा च सर्वासु दिक्षु रक्षणकारणात् ।कुमुदादिगणेशेभ्यो दिवानक्तं बलिं ददेत् ॥२४८॥पायसेन प्रतिदिनं सोमराजं यजेत च ।अनिर्वाणांस्तथा दीपान् कारयेच्च समाहित: ॥२४९॥द्विजेन्द्रांस्तोषयेत् प्राज्यैस्ताम्बूलै: पूगिकाफलै: ।यजमान: प्रयत्नेन गुरुं समभितोषयेत् ॥२५०॥अङ्कुराणां प्रवृद्ध्यर्थं हरिद्राभिर्निर्षचयेत् ।पीतेष्वङ्कुरातेषु शुक्लेषु च शुभं भवेत् ॥२५१॥अशुभं विपरीतेषु प्ररूढेष परीक्षयेत् ।यत्कर्मोद्दिश्य येनैवमङ्कुरारोपणं कृतम् ॥२५२॥आ समाप्ते: स एवास्य कर्मण: कारको भवेत् ।तस्याशक्तिर्यदि भवेन्मरणं वाथ तत्सुत: ॥२५३॥तच्छिष्यो वा विदध्यात्तत् ऋत्विग्वा तदनुज्ञया ।प्रतिष्ठायां च दीक्षायामुत्सवे धामनिर्मितौ ॥२५४॥विषुवे चायने चैव ग्रहणे चन्द्रसूर्ययो: ।पवित्रारोपणे चैव कह्लारदमनोत्सवे ॥२५५॥वैशेषिकेषु चान्येषु शयनोत्थोनोरपि ।शान्तिके पौष्टिके चैव कर्मष्यारिप्तिसते सति ॥२५६॥मङ्गलाङ्कुरसंवापं कुर्यादेवमतन्द्रित:॥इति पञ्चरात्रे माहोपनिषदि विश्वामित्रसंहितायांअङ्कुरार्पणविधिर्नाम सप्तदशोऽध्याय:॥ N/A References : N/A Last Updated : January 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP