विश्वामित्रसंहिता - चतुर्दशोऽध्याय:

विश्वामित्रसंहिता


विश्वामित्र:---
प्रतिष्ठां शृणु विप्रर्षे देवदेवस्य शर्ङ्गिण: ।
सर्वलोकेषु यद्वस्तु स्थावरं जङ्गमं तथा ॥१॥
द्रष्टुं यच्छक्यते सर्वै: श्रोतुं वा द्विजसत्तम ।
तेषामन्तर्बहिरपि(?) व्यापकत्वेन सं(य:?)स्थित: ॥२॥
तस्य विष्णोर्भगवत: प्रतिष्ठा कीट्टशी भवेत् ।
तथा हि मन्दबुद्धीनां विश्वासायाभिधीयते ॥३॥
धाम्रस्तु पूर्वदिगभागे दक्षिणे चोत्तरेऽथवा ।
पश्चिमे वापि कर्तव्यं मण्डपं(?) कोणदिक्ष्वपि ॥४॥
वर्जदन्तरालेषु मण्डपस्य विनिर्मितिम् ।
षट्त्रिंशदिभर्युतं स्तम्भैर्यद्वा षोडशमिभर्द्विज ॥५॥
द्वारैश्चतुर्भि: सहितं दर्भमालाभिवेष्टितम्
क्षैमपट्टवितानाढ्यं लम्बमुक्ताफलस्त्रजम् ॥६॥
द्वारपार्श्वयुगन्यस्ततोयपूर्णघटै(टं?) र्द्विज ।
लेपितं गोमयाम्भोभि: सुधारेखाविचित्रितम् ॥७॥
दीपमालापरिवृतं पुष्पमालाभिलम्बितम् ।
पिभाजयेच्च तन्मध्यमेकाशीतिपदै: समै: ॥८॥
तन्मध्ये नवभि: कुर्यात् पदैर्वेदिं विधानत: ।
वेदिं च परित: कुर्यात् कुण्डानि द्विजसत्तम ॥९॥
चतुरश्रं तथा चापं वृत्तं चतुर्दिशम् ।
मङ्गलान्यष्ट याज्ञीयैर्द्रमै: कृत्वा च विन्यसेत् ॥१०॥
मैरी च वृषभो नागश्चामरं केसरी तथा ।
पताका ध्वजदीपांश्च (दीपौ च?) मङ्गलान्यष्ट काश्यप ॥११॥
प्रतिष्ठादिवसात् पूर्वं नवमे सप्तमेऽपि वा ।
पञ्चमे वापि दिवसे मङ्गलाङ्कुररोपणम् ॥१२॥
कुवीतं विधिवद्रात्रिमुखे द्विजवरोत्तम ।
अधिवासदिनात् पूर्वे दिने मुनिवरोत्तम ॥१३॥
बिम्बस्य शुद्धये कुर्यात् जलाधिवसनं द्विज ।
आचार्यो यजमानश्च मूतिर्पपै: सहितस्तदा ॥१४॥
स्नात: शुक्लाम्बरधर: स्वनुलिप्त: स्वलंकृत: ।
यजमानानुकूलर्क्षे मुहर्ते शोभने सति ॥१५॥
पुण्यहवाचनं कुर्यात् ब्रह्मणैर्वेदपारगै: ।
प्रोक्षणं पञ्चगव्येन कृत्वा स्थानस्य शुद्धये ॥१६॥
प्रविश्य कर्मशालायां प्रतिमावलोक्य च ।
अस्त्रोदकेन संक्षाल्य पीठं रत्नशिलामपि ॥१७॥
रथमारोप्य बिम्बं तत् सर्वमङ्गलसंयतुम् ।
तीर्थदेशं समासाद्य नदीं वा पार्श्ववर्तिनीम् ॥१८॥
पवित्रमन्त्रं प्रजपेत् त्रीन् वाराँस्तस्य शुद्धये ।
क्षीरार्णवं जले तस्मिन् ध्यात्वा दारुमयं तत: ॥१९॥
पर्यङ्कं नववस्त्रेण संछन्नं विन्यसेत्तत: ।
तस्मिन् प्राङ्मस्तकं देवं शाययेन्मूर्तिपैर्द्विजै: ॥२०॥
प्रागादौ शयनाद्बाह्मे कलशानष्ट विन्यसेत् ।
तेष्विन्द्रादीन् समभ्यर्च्य बलिं च विकरेत्तत: ॥२१॥
कारयित्वा प्रपां तत्र तीरे वेदादि पाठयेत् ।
गीतनृत्तादिभिश्चैव दिनशेषं नयेद्द्विवज ॥२२॥
रात्रौ च दीपान् प्रज्वाल्य रक्षां तत्र विधाय च ।
गत्वा च मण्डलं तत्र विन्यसेद्द्विजपुंगव ॥२३॥
चक्राब्जं स्वस्तिकं वापि तस्य तस्य प्रागुत्तरे द्विज ।
शालीनां दशभिर्भारैस्तण्डुलैश्च तदर्धकै: ॥२४॥
तिलैस्तदर्धसंख्यैश्च मध्ये मध्ये पटास्तृतै: ।
विधाय राशिं तस्योर्ध्वे विन्यसेत् कुम्भमुत्ततमम् ॥२५॥
तन्तुजालेन संवेष्टय क्षौमाभ्यामभिवेष्टय च ।
निधाय कूर्चं रत्नानि नव हे(है?)मं तथाम्बुजम् ॥२६॥
विन्यस्य पल्लवावाँश्चस्ये तद्वक्त्रमपिधाय च ।
कुम्भे च मण्डले चैव देवमावाह्म पूजयेत् ॥२७॥
द्वारतोरणपूजां च पूर्ववत् सम्यगर्च्य(र्प्य?) च ।
कुम्भमण्डलगे देवे पायसादि निवेद्य च ॥२८॥
कुण्डे वहिं प्रतिष्ठाप्य हुत्वा चाष्टसहस्त्रकम् ।
समिच्चरुधृतैश्चै पूर्णामपि विधाय च ॥२९॥
प्रतिष्ठितं(?) द्रव्यगणमशेषमधिवास्य च ।
गत्वा जलशयं पश्चात् सर्वमङ्गलसंयुतम् ॥३०॥
पाठयित्वा चतुर्वेदान् गापयित्वा च गीतकान् ।
नर्तयित्वा च सरितो(गणिका?) जागरेण नयेन्निशाम् ॥३१॥
तत: प्रभातसमये गुरुर्मूर्तिपसंयुत: ।
स्त्रात: श्वेताम्बरधर: कृतपौर्वाह्णि?कक्रिय: ॥३२॥
अकंकृतो यथापूर्वं मण्डपं संप्रविश्य च ।
द्वारतोरणकुम्भादीनभ्यर्च्य विधिना तत: ॥३३॥
कुम्भस्थं विष्णुमभ्यर्च्य करकस्थं सुदर्शनम् ।
कुम्भाष्टके च परित: शक्रादीनभिपूज्य च ॥३४॥
मण्डलस्थं च देवेशं साङ्गं सपरिवारकम् ।
आराधयित्वा नैवेद्यपश्चिमैर्भोगसंचयै: ॥३५॥
वह्निमध्यास्थितं देवं समिदिभ: सप्तभि: क्रमात् ।
इष्ट्वा विकीर्य पुरतो बलिं द(ग?)त्वा जलाशयम् ॥३६॥
प्राप्तेऽपराह्णे तद्बिम्बं रथमारोप्य देशिकम् ।
अलंकृत्य च द्विक्स्थैर्वेदानध्याप्य च द्विजै: ॥३७॥
एकायनीं पुर:(न:?)शाखां पाठयित्वा च तां द्विजै: ।
श्रीसूक्तं भद्रसूक्तं च शाकुनं सूक्तमप्यथ ॥३८॥
पुंसूक्तं विष्णुसूक्तं च भगवत्प्रतिपादकान् ।
मन्त्रानपि पठदिभश्च वैष्णवैर्भगवन्मयै: ॥३९॥
शङ्खकाहलसंमिश्रतूर्यघोषपुरस्मरम् ।
सिद्धार्थानस्त्नसंजप्तानाचार्यो मूर्तिपै: सह ॥४०॥
विकिरन्नग्रतो यातात् सर्वविघ्रोपशान्तये ।
ग्रामं प्रदक्षिणं कुर्वन्नालयं संप्रवेशयेत् ॥४१॥
अवतार्य शनैर्बिम्बं रथमण्डलसंनिधिम् ।
जपन् नृसिंहस्य मनुं स्थापयित्वा तदग्रत: ॥४२॥
विज्ञापयेन्मण्डलसथं देवं तद्ग्रतमानस: ।
त्वत्समाराधनार्थाय देवदेव श्रिय: पते ॥४३॥
प्रकल्पितमिदं बिम्बं त्वदभक्तहितकाम्यया ।
प्रतिष्ठां कर्तुमिच्छामि प्रसदी परमेश्वर ॥४४॥
विज्ञापनीमदं कृत्वा प्रणाम्याष्टाङ्गसंयुतम् ।
प्राप्यानुज्ञां च पीठोर्ध्वे बिम्बं तदुपवेश्य च ॥४५॥
पुण्याहवाचनं कृत्वा द्वा:स्थानभ्यर्च्य पूर्ववत् ।
कुम्भादिष्वपि चारध्य हुत्वाग्रौ च गुरूत्तम: ॥४६॥
कुण्डेषु मूर्तिपान् होतुं नियुज्य च समन्त: ।
आसाद्य बिम्बनिकटं सर्वदुष्टनिवारणम् ॥४७॥
ज्वलत्प्रभं सहस्त्रारं ध्यात्वा तन्मन्त्रमन्त्रितान् ।
सिद्धार्थान् प्रतिमामूर्ध्रि तन्मन्त्रेण विनिक्षिपेत् ॥४८॥
शिल्पिशालेत्थदोषाणां शान्त्यै स्त्रपनाचरेत् ।
बिम्बस्य परित: कुम्भानष्टौ संस्थापयेद्गुरु: ॥४९॥
आवेष्टय तन्तुभिर्वस्त्रयुग्मेनावेष्टय तान् बहि: ।
क्षीरं शुद्धजलं रत्नतोयं हेमाम्बु गन्धकम् ॥५०॥
फलपुष्पजले बीजतोयं पूर्वादि विन्यसेत् ।
हेतिराजेन कलशापन् साङ्नष्टाभिमन्त्रितान् ॥५१॥
तन्मन्त्नेणाभिषिञ्चेत् तं पूर्वादीशदिगष्टकम्॥ ( के?) ।
अनेन स्नपनेनैव शिल्पिदोषो विनश्यति ॥५२॥
ततश्च नववस्त्राभ्यां सदशाभ्यां च कौतुकम्
संवेष्टयित्वा ट्टग्दानशयनं परिकल्पयेत् ॥५३॥
वेदिकोपरि शालीनां दशाभारान् विकीर्य च ।
तस्योपरि पटं न्यस्य तण्डुलांस्तत्प्रमाणकान् ॥५४॥
तस्योपरिष्टाच्च तिलानां दशाभारन् विकीर्य च ।
तस्योपरि तिलान् विकीर्य च पटोपरि ।
सोपधानं कुशान् न्यस्य तस्योपरि च कौतुकम् ॥५५॥
शाययित्वा प्राक्छिरसं स्वर्णसूच्या द्विजोत्तम: ।
अस्त्राभिजप्तया नेत्रे प्रणवेनोल्लिखेन्मुने ॥५६॥
सनेत्रं मनसा धायन् परमात्?मानमात्मनि ।
तत: शिल्पिवर: स्त्रात: सिताम्बरधर: शुचि: ॥५७॥
नेत्रमन्त्रितशास्त्रेण नेत्रे प्रकटयेत् सुवी: ।
साम चान्द्रं वारुणं च सामगै: पाठयेद् द्विजै: ॥५८॥
हेमपात्रस्थितं पश्चाद् घृतं मधु च दर्शयेत् ।
नेत्रं प्रपूरयेत् ताभ्यां द्वादशाक्षरविद्यया ॥५९॥
वौषट्कारान्तयोर्ध्वस्थहृन्मत्रेणामृतद्रवम् ।
ध्यात्वा चान्द्रमसं बिम्बं मस्तकोपरि च स्त्रुताम् ॥६०॥
ध्यात्वामृतस्य धारां व धेनुयुग्मं सवत्सकम् ।
सौवर्णखुरशृङ्गाढ्यं दर्शयेत् प्रतिमापुर:(?) ॥६१॥
ततस्तु कलशैदेवं नवभि: स्त्रापयेद्द्विज ।
ततोऽलंकृत्य देवेशं मात्रन्तं परिपूज्य च ॥६२॥
निवेद्य पायसादीनि ताम्बूलं च निवेद्य च ।
रथमारोप्य तद्बिम्बं प्रासादं परितो नयेत् ॥६३॥
[सर्वमङ्गलसव्याध्रत्वचं] विन्स्य चोपरि ।
क्षौमवस्त्रं तथास्तीर्य हृन्मन्त्रोच्चारणादिकम् ॥६४॥
शेषरूपं च शयनं धयात्वा चैकाग्रमानस: ।
अर्घ्याद्यै: पूजयित्वा च शिर:पार्श्वे घटं न्यसेत् ॥६५॥
सुसूत्रं क्षौमवसितं शालिपीठोपरि स्थित् ।
अर्ध्येण प्रोक्ष्य शयनं निद्राणं श्रीयुतं तथा ॥६६॥
नतिप्रणवयुक्तने स्वनाम्रा धूपश्चिमम् ।
सभाज्य बिम्बं शयनेप्राङ्मूर्धानंच शययेत् ॥६७॥
अर्ध्यपूर्वैश्च धूपान्तैराराध्य प्रणिपत्य च ।
पीठं ब्रह्मशिलां चैव शालिपीठे पटास्तृते ॥६८॥
शययित्वा यथापूर्वं प्रणवेन सभाज्य च ।
वाससा वर्मजप्तेन धूपितेनावगुण्ठ्य च । ॥६९॥
अर्चामिन्येन वस्त्रेण छादयेत् पीतिठकामपि ।
प्रतिमापादपर्श्वस्थान् लाञ्छनान्(?)स्वस्वमन्त्रकै: ॥७०॥
स्वस्थानसंस्थितान्(?)बुध्वा मूर्ध्रि द्वादशचकम् ।
दामोदरात् केशवान्तमापादं द्वादशस्थले ॥७१॥
विन्यस्य तच्छक्तिचयं तद्वद् व्यापकवत् पुन: ।
द्विषट्कार्णं च मूर्धान्तमप्ययाख्येन भावयेत् ॥७२॥
निश्चलं ज्ञानरूपं तत्कौतुकं प्रतिभाव्य च ।
प्रणिपत्य च तद्बिम्बं तदा कुण्डसमीपत: ॥७३॥
आज्यान्नतिलहोमं च प्रत्येकं पञ्चविंशति: ।
कृत्वा पूर्णाहुतिं दद्याद्देशिको नियतात्मवान् ॥७४॥
एकायनाश्चतुर्दिक्षु जुहुयुर्व्यूहमन्त्रकै: ।
कोणेषु वैष्णवा होमं कुर्यार्मन्त्रैश्च वैष्णवै: ॥७५॥
स्वशखोक्तैस्तथा चाग्रिकोणादिषु समाहित: ।
परं ब्रह्म स्वशक्तयैव सर्वशक्तिशरीरकै: ॥७६॥
अभीष्टं चिन्तयित्वाथ हृदये द्वादशाक्षरम् ।
हृदयाङ्समयुक्तं ज्वलद्रूपं विभाव्य च ॥७७॥
भूतशुद्धिविधानेन संहारान्तं च कौतुकम्॥
विचित्य परमां मूर्तिमापाद्य स्वयमेव च ॥७८॥
कुमुदागिणेशांश्च रक्षार्थं तेष्वनुक्रमात् ।
आवाह्माभ्यर्चयित्वा च स्वै: स्वैर्मन्त्रैर्द्विजोत्तम ॥७९॥
ततो मूर्तिपसंयुक्तो गत्वा प्रसादमध्यत: ।
सर्वदुष्टोपशान्तर्थां प्रोक्षयेत् पञ्चगव्यकै: ॥८०॥
हेतीशं क्षेत्रनाथं च पूजयेद्धूपपश्रिमै: ।
आधारप्रमुखैर्मन्त्रैर्योगपीठान्तमर्चयेत् ॥८१॥
परित: पूर्ववत्कुण्डरानष्टौ संकल्प्य देशिक: ।
शान्तर्थं चक्रमन्त्रेण द्विषडर्णेन वा हुनेत् ॥८२॥
मूर्तिपा: स्वस्मन्त्रेण जुहुयु: पूर्ववत् क्रमात् ।
प्रशमय्य ततो दोषान् प्रासादं चाधिवासयेत् ॥८३॥
प्रासादं(दो ?) देवदेवस्य प्रोच्यते तात्त्विकी तनु: ।
तत्त्वानि विन्यसेत्पीठे यथा तत्त्वाधिवासक: (के ?) ॥८४॥
प्रकृत्यन्तानि पुरुषे बिम्बे त्वेवं प्रकीर्तितम् ।
अध्वषट्कं तथा ध्यात्वा वर्णं शिखरसंस्थितम् ॥८५॥
चातुरात्म्येन मन्त्रेण प्रणवाद्येन देशिक: ।
कृत्वा च व्यापकन्यासं तच्छिरोऽन्तं मुनीश्वर ॥८६॥
समभ्यर्च्याथ हुत्वा च प्रोक्ष्य शान्तयुदकेन च ।
आपोहिष्ठादिभिर्मन्त्रै: पवित्रमनुनापि च ॥८७॥
गभर्पगे?हं प्राङ्गणानि प्रोक्षयेयुश्च मूर्तिपा: ।
शयनस्थानमासाद्य साष्टाङ्गं प्रणिपत्य च ॥८८॥
प्रतिमामूर्ध्रि दत्वार्ध्यं धूपान्तमभिपूज्य च ।
बिम्बस्य पादार्श्वे तु बध्वा पह्मासनं गुरु: ॥८९॥
ध्यानाधिवासं कुर्वीत यथा तदवधारय ।
मूलाधारानुबद्धाभिर्नाडीभिर्दशभिर्युतम् ॥९०॥
अन्याभिस्तु शरीरस्थं व्याप्तं द्विजवरात्मज ।
प्रतिमायां तथा देवीं व्याप्तामेव विभाव्य च ॥९१॥
श्रोत्रादीन् स्वस्वविषयादात्मन्येवोपहरेत् ।
स्व्हृत्पङ्गजमध्यस्थं ज्येतीरूपं विभाव्य च ॥ ९२॥
स्वहृत्पह्मोदरे देवं बिम्बस्थं परिभाव्य च ।
सूर्येन्द्वग्रिप्रभां सूक्षमां सुषुम्रां स्वान्तरस्थिताम् ॥९३॥
बिम्बे चात्मनि च ध्यात्वा दक्षिणेन स्वदेहत: ।
बिम्बस्य वामपार्श्वेन प्रविश्य हृदयाम्बुजम् ॥९४॥
योगकाले यथा देव: स्वशरीरेऽनुभूयते ।
समाधिना निश्चलेन तथा तं परिभावयेत् ॥९५॥
कार्या तदेकता पश्चाद्यावद्विन्दति वै तत: ।
द्वैधं कृत्वा ततो यावत् बिम्बं वामेन चात्मन: ॥९६॥
दक्षिणेनाथ हृदयं प्रविशेद् द्विजसत्तम ।
ततो हृत्पह्ममध्यस्थं ध्यात्वैवात्मानमात्मना ॥९७॥
ज्ञानवरूपममलं यावन्नाड्याश्च मध्त: ।
स्वमन्त्रोच्चारणेनैव द्वादशान्तं द्विजोत्तम ॥९८॥
तत्संस्थिते विभुत्ना भूत्वा सामरस:(?) स्वयम् ।
निष्पन्दस्पन्दतां गत्वा व्रजेत् स्वहृदयान्तरम् ॥९९॥
ततश्च बिम्बहृदयं यथापूर्वं तथा व्रजेत् ।
कृत्वा तदैक्यं तत्रापि द्वादशान्तं ततो व्रजेत् ॥१००॥
तत्रापि पूर्ववद् बुध्वा हृदयं संप्रविश्य च ।
तस्मान्निर्गत्य हृदया प्रविशेत्पूर्ववर्त्मना ॥१०१॥
आत्महृन्मण्?डान्त: स्थमात्मानमनुभाव्य च ।
इत्थं कौतुकमध्यस्थं चैतन्पं परिभाव्य च ॥१०२॥
हतरेतरेन्द्रवत्तेज:संबन्धमनुचिन्तयेत् ।
ब्रह्मानुसंधानमिदं कथितं द्विजसत्तम ॥१०३॥
शब्दब्रह्मानुसंधानं श्रृणुष्वा(?)त: परं द्विज ।
परं सूक्ष्मं तथा स्थूलमतिस्थूलं चतुर्विधम् ॥१०४॥
बिद्धि बिम्बं चतु:शब्दो ( ब्दै:?) यथा देहोऽव्ययस्तथा ।
शब्द एव स्वदेहं च बिम्बं च मुनिसत्तम ॥१०५॥
विधिनाप्ययसंज्ञेन वैखर्यामुपसंहरेत् ।
शब्दं तद्वैभवं पूर्वं परस्मिन् ब्रह्मणि द्विज ॥१०६॥
निस्तरङ्गदशापन्नस्पृष्ट(सृष्टि?) मार्गेण तत्स्वयम् ।
परं ब्रह्म शब्दबिम्बं पूर्व?वच्चिन्तयेन्मुने ॥१०७॥
इत्थं शाब्दं स्वदेहं च कृत्वा तत्रैव विश्रमेत् ।
सांनिध्यार्थं ततो मन्त्रसंयोगं विदधीत च ॥१०८॥
सूर्यचन्द्रसहस्त्राभं स्वहृत्पङ्कजमध्यगम् ।
स्व्मन्त्रतन्त्रसंनादरूपेणाग्रिस्फुलिंगवत् ॥१०९॥
ब्रह्मरन्ध्रेणोर्ध्वगेन निर्गत्य च तनो: पुन: ।
प्रविशन्तं पुनस्तेन वर्त्मना स्वतनुं पुन: ॥११०॥
ध्यात्वा च तत्स्थचैतन्ये देवतां संविभाव्य च ।
अर्चारूपं च सकलमेवं व्याप्तं विभावयेत् ॥१११॥
पृथ्वीमन्त्रानुविद्धं च पीठं रत्नशिलामयम् ।
आधारशक्तिमन्त्नेण बिम्बेनैक्यं विभावयेत् ॥११२॥
विमाव्येत्थं ततो विप्र मन्त्रन्यासं समाचरेत् ।
न्यासेन रहितं वापि मन्त्रन्यासन(सं स?) माचरेत् ॥११३॥
प्रणम्य दण्डवत् पश्चादात्मायनसमर्पणम् ।
विधायार्ध्यादिभिर्भोगैनैवेद्यान्तै: क्रमाद्यजेत् ॥११४॥
ततश्च वेद्या: परितो विप्रानेकायनादिकान् ।
दिग्विदिक्संस्थितान् कृत्वा मन्त्रानुद्धोषयेत्क्रमात् ॥११५॥
इतिहासपुराणानां स्तोत्रामपि पाठकान् ।
वैष्णवान् परित: स्थाप्य तत्तद्धोषणमाचरेत् ॥११६॥
चतुर्दिक्षु चतुर्वेदपठनं कारयेद् द्विजै: ।
वीणावेणुरवैर्भिश्रान् गीतशब्दांश्च घोषयेत् ॥११७॥
नृत्तानां दर्शनं चैव कारयेत् परित: स्थितै: ।
यथाक्रमं मूर्तिधरैर्हवनं कारयेत्तथा ॥११८॥
प्रत्येकं शतसंख्याकं कृतानां कर्मणां द्विज ।
तत्त्वनां चैव शुद्धयर्थं हवनं कारयेन्मतम् ॥११९॥
आधारशक्तिमन्त्रेण रत्नाधारशिलाहुतिम् ।
भूतमन्त्रेण पीठस्य हवनं विधिवच्चरेत् ॥१२०॥
पूर्णाहुतिं विधायान्ते शान्तितोयेन चोक्षणम् ।
बिम्बादीनां तथा कृत्वा विष्णुगायत्रिया पुन: ॥१२१॥
अध्रर्यादिभोगैर्यजनं कृत्वा तत्पादगौ करौ ।
त्वत्सभाजनसिद्ध्यर्थं त्वद्रूपं कल्पितं विभो ॥१२२॥
संनिधायात्र देवेश यावदाभूतसंप्लवम् ।
त्वदभक्तैर्विहितां पूजां गृहाण परमेश्वर ॥१२३॥
गतिस्वमेव परमा मज्जतां भवसागरे ।
विज्ञापनीदं कृत्वा प्रणमेद्दण्डवत्क्षितौ ॥१२४॥
कुम्भमण्डलगं देवमभ्यर्च्य तदनु द्विज ।
मन्त्राणां चैव च तथा न्यस्यानां तु विशेषत: ॥१२५॥
अर्चागतस्यापि विभोरेकसंधानकारणात् ।
धृतेन दध्रा पयसा मधुना च क्रमाद् द्विज ॥१२६॥
अङ्म्रिनाभीश्च हृदयं स्पृष्ट्वा मूर्धानमेव च ।
अनिरुद्धादिभिर्मन्त्रैर्हुत्वान्ते प्रोक्षयेत्क्रमात् ॥१२७॥
स्पृष्ट्वाङ्गनि समस्तेन तत्तदङ्गनि सर्वत: ।
संप्राक्ष्य सर्वगात्राणि द्विषडर्णेन होमयेत् ॥१२८॥
पूर्णाहुतिं ततो दद्याददज्ये(?)नामाभिधाय च ।
प्रासददिक्षु जुहुयुस्तन्मन्त्रेण बलिं हरेत् ॥१२९॥
मूर्तिपा: कुमुदादींश्च पूजयेयु: समन्तत: ।
स्त्रात्वा प्रभातजे ह्माचार्यो गत्वा यागनिकेतनम् ॥१३०॥
प्रविश्याध्य देवं च विज्ञाप्य तदुनुज्ञया ।
अर्ध्यादिपात्रसहितो गत्वा च भगवद्गृहम् ॥१३१॥
क्षेत्रेशयजनं कृत्वा स्वमन्त्रेण द्विजोत्तम ।
हुत्वाग्रिमाज्येन तत: पूर्णामपि विधाय च ॥१३२॥
प्रासाददिक्षु जुहुयुस्तन्मन्त्रेणैव मूर्तिता: ।
पश्चद्ग्रर्भगृहं गत्वा सप्तभागं समं द्विज ॥१३३॥
मध्यं [बाह्मं] (ब्राह्मं ?)तु जद्ग्राह्मं दैवमानुषमन्वत: ।
पैशचं बाह्मगं स्थानं पैशाचादिपदत्रयम् ॥१३४॥
परित्यज्याग्रतो विप्र पूजने चैकबेरके ।
न्यसेद्रत्नशिलां ब्राह्मे यद्वा ब्रह्मसुरान्तरे ॥१३५॥
बहुबेरे तत्र कुर्यात् शृणु स्थापनमुत्तम स्थापनमुत्तमम् ।
तत्र संस्थापने देवो भक्तानमापि वाञ्छितम् ॥१३६॥
प्रददाति द्विजश्रेश्ठ संपद: सकलास्तथा ।
दैवे वा मानुषे वापि संधौ वाथ तयोर्मुने ॥१३७॥
बहुबेरप्रतिष्ठानं यद्वा स्याच्छयनासनम् ।
कृत्वावटं ब्रह्मशिलामानात् किंचिदिवाधिकम् ॥१३८॥
मध्ये तस्य द्विजवर द्वादशाङ्गलविस्तृतम् ।
कृत्वा मानं च तन्मात्रं तस्मिन् हेमादिनिर्मितम्॥ १३९॥
अड्गलीभिश्चतसृभिरुन्नतं विततं तथा ।
हेमरत्नादिसंपूर्णं हेमपात्रं प्रजप्य च ॥१४०॥
प्रणवाद्यन्तसंस्थेन विन्यसेद्विष्णुपूर्वया ।
गायत्र्या पूरयेद्ग्रर्तं सुधया कारेय् ट्टढम् ॥१४१॥
[ब्राह्मादितरसंस्थेन(?)] शिलां तस्योपरि न्यसेत् ।
मध्ये नवाम्बुजं कुर्यात् कर्णिकास्ववटं खनेत् ॥१४२॥
रत्नानि विन्यसेत् तेषु वज्रमैन्द्रे न्यसेद् बुध: ।
याम्येऽम्बुजे गारुडं च मुक्तां वारुणपङ्कजे ॥१४३॥
पह्मरागं न्यसेत् सौन्ये स्फटिकं वह्निकोणके ।
सूर्यकान्तं नैऋर्ते च नीलं वायव्यपङ्कजे ॥१४४॥
ऐशान्ये पुष्यरागं च मध्ये पह्मे च काश्?यप ।
समस्तलोहरचितं पह्मं न्यस्य तदूर्ध्वत: ॥१४५॥
[सौवर्णमग्रिवसुधासूर्यकान्तं(?)च वहिके] ।
नैऋर्ते चन्द्रनीलं च वायव्ये पुष्यरागकम् ॥१४६॥
ऐशान्यपह्मे वैङूर्यं स्फटिकं मध्यपङ्कजे ।
रूप्यमैन्द्रे तथा याम्ये त्रपुं पशिमपङ्कजे ॥१४७॥
कृष्णसीसमय: सारं या(सौ ?)म्ये ताम्रं तु निक्षिपेत् ।
वह्मै नैऋर्त [एवं कं(?)कृष्णं यो(?)]वायुङ्कजे ॥१४८॥
कांस्यमीशानपह्मे स्यात् स्वर्णं मध्यमपङ्कजे ।
सर्वलोहमयं पह्मं मध्यमाम्भोजमध्यत: ॥१४९॥
विन्यस्य तस्योपरि च कच्छपं स्वर्णनिर्मितम् ।
देवीं च वसुधां न्यस्य नागराजं च रूप्यजम् ॥१५०॥
प्रणवेनैव विन्यस्य सकलं वस्तुजालम् ।
हरितालं छिन्नपिष्टमञ्जनं च सुराष्टजम् ॥१५१॥
ऐन्द्रादिदिक्षु हृदये मांसीं द्विजवरात्मज ।
वचां बिल्वं च विन्यस्य कोणेषु रजनीं पुन: ॥१५२॥
सहदेवीं विष्णुपूर्वा क्रान्तामैन्द्रयां क्रमान्यसेत् ।
मध्यमे शङ्खपुष्पं च मूलमेषां च विन्यसेत् ॥१५३॥
वासुदेवादिमन्त्रैस्तु दिक्षु कोणेषु निखिपेत् ।
कोणेष्वध्यक्षपूर्वेषु सर्वद्रवयाणि विन्यसेत् ॥१५४॥
रत्ना?दीनामलाभे तु मौक्तिकं स्वर्णमेव वा ।
रजतं वाथ विन्यस्य हुत्वाजपसया द्विज ॥१५५॥
गृहीत्वा प्रणवेनै प्रगाद्यं मध्यपश्चिमम् ।
संछाद्य नववस्त्रेण सुधयालिप्य देशिक: ॥१५६॥
अभ्यर्च्य गन्धपुष्पाद्यै: पीठं तस्योध्पर्वतो न्यसेत् ।
कारयित्वा च सुश्लिष्टं गर्ते पह्मं हिरण्मयम् ॥१५७॥
तदूर्ध्वे गरुहं हैमं लधुरूपं निवेश्य च ।
पञ्चगव्यं फलं पुष्पमोषधीरपि विन्यसेत् ॥१५८॥
मन्त्रेण द्वादशार्णेन पुन: पैठीयदेवता: ।
कालकूर्मादय: पूजयास्तत्तन्मन्त्रैरनुक्रमात् ॥१५९॥
तैरेव हुत्वा गत्वा च समीपं कौतुकस्य च ।
नत्वा हृदयमन्त्रेण निरस्याच्छदितं पटम् ॥१६०॥
भावयित्वा प्रबुद्धं च विभुं विज्ञापयेत्तत: ।
पुण्डरीकाक्ष भगवन् सर्वलोकहिताय च ॥१६१॥
त्वदभक्तानां विशेषेण विप्रादीनां महात्मनाम् ।
प्रासादे स्थपयामि त्वां बिम्बरूपिणमव्ययम् ॥१६२॥
संनिधत्स्वात्र देवेशं क्षमस्व च दयां कुरु ।
इत्थं विज्ञाप्य देवेशमुत्तिष्ठेत्यादिकं मनुम् ॥१६३॥
पठन् बिम्बं समुत्थाप्य शयानं मूर्तिपै: सह ।
यानमारोप्य पुरत: शिवसंकल्यमुच्चरन् ॥१६४॥
प्रदक्षिणं परिभ्राम्य वेदधोषादिभि: सह ।
अतो देवेतिन्त्रेण प्रविश्याभ्यन्तरं द्विज ॥१६५॥
पुष्याहवाचनं कृत्वा पौरुषं सूक्तमुच्चरन् ।
प्रणवद्वयमध्यस्थद्वादशाक्षरविद्यया ॥१६६॥
मुहूर्ते सुशुभे प्राप्ते कुम्भीकृत्य हृदन्तरे ।
ध्यायन् विष्णुं परतरं परस्माच्छ्रीनिकेतनम् ॥१६७॥
श्वभ्र(भ्रे ?)पीठस्य तां मूर्तिमचलां संनिवेश्य च ।
समसूत्रेण संस्थाप्य नतोन्नतविशेषवित् ॥१६८॥
वायुं विरेचयेत्पश्चाद्वाङ्मन्त्रेणैव मन्त्रवित् ।
द्विषडर्णेन दत्वार्ध्यमस्त्रेण हृदयेन च ॥१६९॥
वज्रलेपतिबिम्बं तद् ट्टढं निश्चलतां नयेत् ।
तत: स्वमन्त्रगनात् पूर्णचन्द्रमसकृतिम् ॥१७०॥
ध्यात्वा तस्थसुवौघेन प्रतिमामभिषिच्य च ।
ततस्तु नवभि:कुम्भै:स्रापयेत् परमेश्वरम् ॥१७१॥
ततो निरुदकीकृत्य गर्भगेहं समन्तत: ।
वस्र्द्वयेन तद्बिम्बमधरोत्तरगेन च ॥१७२॥
ट्टढं संवेष्टयित्वा च यथाशोभं च काश्यप ।
हृदयस्थं तु तद्बिम्बं तस्सूर्यशतदीधितिम् ॥१७३॥
विचिन्तयेत् परं रूपं व्याप्तं तेनैव चिन्तयेत् ।
गर्भादिशिखरान्तं च बहिरन्तश्च तं(?)मुने ॥१७४॥
अङ्गानां त्रिविधं षट्कं न्यसेद्बह्मशिलादिषु ।
मन्त्ररूपं तु यत्थूलं तत्राधारशिलाभपवम् ॥१७५॥
सूक्ष्मं ज्ञानादिगुणकं पीठयुक्तं तु तं स्मरेत् ।
[गुरूणां भागसंस्थं(?)] तत्परं बिम्बं च संस्मरेत् ॥१७६॥
पीठदेशे पीठमन्त्रान सर्वानेव निवेशयेत् ।
प्रतिमादेहसंस्थांश्च सर्वमन्त्रान् द्विजोत्तम ॥१७७॥
तत्त्वन्यासदिकान् सर्वान् स्फुरत्तारकरूपवत् ।
विभाव्याथ लयायोक्तं विधाय च जगद्ग्रुरुम् ॥१७८॥
तत्पादाब्जयुगं पश्चत्काराभ्यामवलम्बय च ।
शिरो निवेश्य तत्रापि गुरुर्विज्ञापयेत् प्रभुम् ॥१७९॥
भगवन् पुण्डरीकाक्ष शरणागतवत्सल ।
मया दत्तां मन्त्रमूर्तिप्रतिष्ठां स्वीकुरु प्रभो ॥१८०॥
सांनिध्यं कुरु देवेश त्वमत्र जगत: पते ।
ज्ञानतोऽज्ञानतो वापि प्रभो कृतभिदं मया ॥१८१॥
क्षमस्व कृपया देव कृपया परया मयि ।
वैष्णवा: पार्श्वगा ब्रूयु: करतालं विधाय च ॥१७२॥
एवं स्तुतिवच:स्तोत्रै: स्तुवीत द्विजवरो(स?)त्तम ।
लक्ष्म्यादिशक्तिसहितं स्थापनं यदि काश्यप ॥१८३॥
बिम्बेन सहितेनैव सर्वं कर्म समाचरेत् ।
परिवारप्रतिष्ठानं यथासथानं च कारयेत् ॥१८४॥
मासेषु चैववैशाख्जेष्ठेष्वपि च फालुगुने
पौष्करे तु विधातव्या प्रतिष्ठा मधुविद्विष: ॥१८५॥
यजमानुकूलेषु दिनेषु सुशुभेष्वपि ।
पुनर्वस्वोरुत्तरेषु रोहिण्यां श्रवणे तथा ॥१८६॥
रेवतीपुष्यहस्तेषु तथाश्विन्यां द्विजोत्तम ।
सिते पक्षे तु पञ्चम्यां दशम्यामपि वा द्विज ॥१८७॥
त्रयोदश्यां पौर्णमास्यां तिशिष्वेतासु कारयेत् ।
सोमसौन्यगुरूयां च वारा: शुक्रस्य च द्विज ॥१८८॥
प्रशस्ता: स्थापनविधौ श्रियो भर्तुर्मुनीश्वर ।
गुरौ शुक्रे च मतिमान(?)नस्तंगतयोर्द्वयो: ॥१८९॥
स्थिरराशिषु चैव स्यात् प्रतिष्ठा मधुविद्विष:॥

इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
प्रतिष्ठाविधिर्नाम चतुर्दशोऽध्याय:॥

N/A

References : N/A
Last Updated : January 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP