विश्वामित्रसंहिता - पञ्चदशोऽध्याय:
विश्वामित्रसंहिता
काश्यव:---
मण्डलस्य विधानं मे वक्तुमर्हसि संप्रतम् ।
सर्वकर्मसु देवस्य पूजनं यत्र कथ्यते ॥१॥
विश्वामित्र:---
यज्ञवृक्षोत्थितै काष्ठै: षडङ्गुलघनान्वितै: ।
द्वादशाङ्गुलविस्तारैश्चतुर्भिश्चतुरश्रकम् ॥२॥
कल्पयेन्मण्डलायामं विस्तारद्विगुणं मुने ।
कोणेष्वेतस्य चतुरो वृत्तांस्तालाष्टकायतान्(?) ॥३॥
संस्थापयेत्तदूर्ध्वे तु तेषां दारुचतुष्टयम् ।
संनिवेश्य चतुष्कोणं तच्छुभे भूतले न्यसेत् ॥४॥
तन्मध्ये(ध्यं ?)पूरयेच्छुद्धमृदा मध्यं यथोन्नतम् ।
सुसमं कारयेत्तच्च दर्पणोदरवन्मुने ॥५॥
गोमयाम्भोभिरालिप्य मण्डलं तत्र विन्यसेत् ।
सूत्राणि सप्तदश च प्रञ्चयुदच्चि निपातयेत् ॥६॥
मेट्पञ्चाशत्समधिकमेवं कोष्ठशतद्वयम् ।
षट्त्रिंशत्स्वेव कोष्ठेषु मध्ये शङ्कुं निधाय च ॥७॥
सूत्रेण पञ्चवृत्तानि भ्रामयेत्तेषु मध्यत: ।
क्षेत्रं तु कर्णिकाया: स्याद्बहिर्बिम्बं च सूत्रत: ॥८॥
विभाजयेत् त्रिधा तेषां प्रथमा केसरावनी ।
दलक्षेत्रं द्वितीयं स्यान्नाभिक्षेत्रं तृतीयकम् ॥९॥
तत्सृत्रवर्त्मना कुर्याद् द्विविधं त्रिविधं तु वा ।
बर्मिण्डलयुग्मं स्यान्नाभिक्षेत्राद्बहिर्द्विज ॥१०॥
अरस्थानं बहिर्नेभिभूरेकं मण्डलं भवेत् ।
अष्ठाविंशतिकोष्ठै: स्यादासनं परितो बहि: ॥११॥
संभवेच्चतुरश्रं तु वीथि: कोष्टैरशीतिभि: ।
बहि: पङ्क्तियुगेन स्याच्चतुरश्रं च तद्बहि: ॥१२॥
कोष्ठद्वादशकं चोर्ध्वं शतं पङ्क्तयोर्द्वयोर्भवेत् ।
प्रतिदिक्केषु(?)कोष्ठेषु कुर्याद् द्वारचतुष्टयम् ॥१३॥
पृथक् कोष्ठचतुष्केण पङ्क्तियुग्मेन काश्यप ।
प्रत्येकं शङ्विध्यर्थं पुन: कोणचतुष्ठये ॥१४॥
मार्जयेत् कोष्ठयुग्मं तु पङ्क्तियुग्मे च काश्यप ।
प्रतिद्वारं तत्समीपे पाश्वेयुग्मे महामते ॥१५॥
उर्धशोभाविधानाय बाह्मानन्तररथ्ययो: ।
कोष्ठद्वयं बहि:पङ्क्तयोमेकैकं तदनन्तरे ॥१६॥
मार्जनीयं तु शोभार्थमेकैकं चान्यतो बहि: ।
कोष्ठत्रयं मार्जनीयं प्रत्येकं द्विजसत्तम ॥१७॥
व्यत्यासेनोपशोभार्थमन्तरेकं बहिर्द्व(स्र ?)यम् ।
संमार्जनीयं कोष्ठानां विनियोग: प्रदर्शित: ॥१८॥
यद्वा समन्ता --- --- ---(त्पीठादि ?)करणं च विना मृजेत् ।
विंशाधिकेन कोष्ठानां शतयुग्मेन काशयप ॥१९॥
आदिपङ्कजमाने विधायावरणत्रयम् ।
चतुर्दिक्षु चतुर्द्वारं कल्पयेत् कश्यपात्मज ॥२०॥
यद्वा यथेष्टककुभि द्वारमेकं प्रकल्पयेत् ।
प्रत्यावरणभेवं च कुर्शद् द्वादशपङ्कजम् ॥२१॥
एकैकं कोणदेशेषु द्वाराणां पार्श्वयोर्द्वयम् ।
दलद्वादशकोपेतं कर्णिकाकेसरान्वितम् ॥२२॥
अर्धेनाद्यस्य पह्मस्य पह्मान्यन्यानि कल्पयेत् ।
पह्मे तु मध्यमे कुर्याद्बिन्दून् द्वादश काश्यप ॥२३॥
कर्णिकायां केसरोर्व्यां शतं नवतिसंयुतम् (?)।
रेखाणं च विधायाथ दलभूमौ चतुष्टय(र्दिश?)म् ॥२४॥
कोणेषु च चतुर्विद्रेखायुग्मं दले भवेत् ।
तत्सूच्याग्रं चितं(?) मध्ये कुर्यादुपदलान्यपि ॥२५॥
अरक्षेत्रे प्रतिदिशमरे द्वे द्वे विदिक्षु च ।
तस्यैकैमराणां स्याद् द्वादशैव द्विजोत्तम ॥२६॥
पह्मपत्रसमानानि तुल्यानीन्दीवरच्छदै: ।
यद्वा यवोदराभानि मातुलुङ्गाकृतीनि वा ॥२७॥
पिपीलिकोदरभानि यथान्योऽन्यासदॄंशि च ।
एतेषामपि मध्यानि तुल्यानि स्यु: परस्परम् ॥२८॥
एवंविधं प्रशस्तं स्याद्वासुदेवसमर्चने ।
नारायणार्चने पूर्वं बिम्बाद्या: कथिता मया ॥२९॥
[अष्टावष्टौ तु कार्याणां सबीजनावनिर्भवेत्] (?) ।
षट्त्रिंशत्तन्तुकोष्ठानि मार्जनीयानि काश्यप ॥३०॥
ऋते नाभ्यादिना कार्यं पह्कजं द्विजसत्तम ।
निधाय शङ्कुं सूत्रेण समं द्वेधा प्रकल्पयेत् ॥३१॥
आद्यं स्यात् कर्णिकाभूमिर्द्वितीयं कल्पयेत् त्रिधा ।
तेप्वाद्यं केसरक्षेत्रं दलभूमिर्द्वितीयकम् ॥३२॥
अन्तरालं तृतीयं स्याद् द्वयोश्च दलपीठयो: ।
बिन्द्वादीन् द्वादशाष्टौ वा कुर्यात् कश्यपनन्दन ॥३३॥
एतत् स्यान्मण्डलं नाम्रा भद्रकं सर्वकामदम् ।
स्वस्तिकस्य चिकीर्षा चेन्मण्डलस्य द्विजोत्तम् ॥३४॥
षट्त्रिंशत्कोण(ष्ट?)कान् मध्ये मार्जयित्वा निपातयेत् ।
एकादश च सूत्राणि प्राच्यु(ञ्चयु?)द?ञ्चि च काश्प ॥३५॥
तेषु द्वे द्वे च संमृज्य मध्ये वीर्थि प्रकल्पयेत् ।
प्राच्यामुदीच्यामपि च पश्चात्कुर्याद्विनिर्गमम् ॥३६॥
प्राच्यां य:(?) कोष्ठयुग्मेन वाह्मपङ्क्तावुदङ्मुखम् ।
प्राच्यां पश्रिमतश्चापि कल्पयेद्दक्षिणामुखम् ॥३७॥
उदीच्यायां (च्यां च?) तथोदक् स्यात्प्रत्यङ्मुखमपि द्विज ।
प्राच्यां च दक्षिणाग्रं स्यादित्थं स्वस्तिकमण्डलम् ॥३८॥
षट्त्रिं[श:कोष्ठक:](शत्कोश्ठकं?) क्षेत्रं पूर्वोक्तं काश्यप द्विधम्॥ (द्विधा ?)।
मध्यत: पङ्कजं कुर्याच्छिष्टं कुर्यात् त्रिधा समम् ॥३९॥
तेषु द्वाभ्यां तु भागाभ्यां वृतं र्सूर्यस्य मण्डलम् ।
शिष्ठेनैकेन भागेन बहि: स्यादन्तरालकम् ॥४०॥
एतत्यान्मण्डलं सौरं सौम्यमेव तदेवं हि ।
मण्डलानां च सर्वेषां बाह्मपीठाद्यथापुरम् ॥४१॥
यद्वा विदध्यात् पीठादीन् विना चक्राम्बुजं द्विज ।
अथवा चक्ररहितं पह्मं स्यात् केवलं द्विज ॥४२॥
शोभयेन्मण्डलं पञ्चवर्णै रत्नै:(क्त?)सितादिभि: ।
अथवा चूर्णितै रत्नैर्लोहैर्वा धातुभिस्तथा ॥४३॥
यद्वा चन्दनकाश्मीरोष्ठकादिभिरेव वा ।
अथवा पुटकैर्गन्धै: क्षुण्णैर्यज्ञतनूदभवै: ॥४४॥
कृष्णै: शुक्लैरपि श्यामै: क्षुण्णै: कौसुग्भपाटलै: ।
चूर्णिताभिर्हरिद्राभि: पुष्पैर्वा पञ्चवर्णकै: ॥४५॥
शाल्यादीनां तण्डुलैर्वा पिष्ठैर्वीहिभिरेव वा ।
यद्वर्णा कर्णिका विप्र तद्वस्तूदभववर्णकै: ॥४६॥
सर्वत्राकारशोभां च कुर्यान्मुनिवरात्मज ।
कृष्णै: श्यामैरथ भवेदन्तरालाभिपूरणम् ॥४७॥
कर्णिकां शोभयेत्पीतै: सन्धी: शुक्लैश्च शोभयेत् ।
रक्तैश्च कर्णिकारेखामसितै: केसरस्थलम् ॥४८॥
पूर्वभागं द्विधा कृत्वा भागं श्वेतैरथोत्तरम् ।
विरामं पीतरक्तैश्च श्वेतैश्च प्रतिकेसरम् ॥४९॥
कुर्याद्बिन्दून् दलाग्राणि रक्तैरेव विभूषयेत् ।
सितरक्तैर्दलाद्यान्तान्यपि संभूषयेद् द्विज ॥५०॥
सितैश्च सर्ववलयं रक्तैर्वा परितैश्च पाटकै: ॥५१॥
नाभिद्वन्द्वे श्यामपीतै: पाटलैरेवैकनाभिके ।
कृष्णैरराणामग्राणि पाटलैरसंहतिम् ॥५२॥
वलयं चाप्यरान्त:स्थमसितैश्रित्रयेद् द्विज ।
नेभिभागं द्विधा कृत्वा पूर्वभागं सितेतरै: ॥५३॥
सितैर्विचित्रसयेच्छेषं नोमिभागं विचक्षण: ।
पीतै: पीठं पाटलैर्वा श्वेतैर्वा परिभूषयेत् ॥५४॥
लतावितानपत्रादियुक्तां वीथीं च पाटलै: ।
रक्तै: श्वेतैस्तथा पीतैरुपशोभां विभूषयेत् ॥५५॥
शुक्लै रक्तैस्तथा पीत: कृष्णेर्द्वाराणि शोभयेत् ।
यथासंख्यान् (ख्यं ?) तत: कोणानुत्तरादीन् सितेतरै: ॥५६॥
श्वेतै: शङ्खान् विदध्याच्च स्वस्तिकं पाटलं भवेत् ।
अथा पीतमेव स्याद्रक्तमादित्यमण्डलम् ॥५७॥
सितं मण्डलमिन्दो: स्यात्सर्वतश्चान्तरालकम् ।
कुर्याद्यथेष्टवर्णाभ्यां हस्तमात्रे च मणले ॥५८॥
रेखाणामुच्छ्रयं कुर्यात्कनिष्ठाङ्गुलिसंमितम् ।
द्विगुणेऽनाभिकामात्रं त्रिगुणे मध्यमासमम् ॥५९॥
चतुर्गुणे पञ्चगुणे तर्जन्यङ्गुष्ठसंमितम् ।
विधायेत्थं मण्डलं तु यथेष्टं पूजयेत्तत: ॥६०॥
मन्त्राध्वानं कर्णिकायां तत्त्वाध्वानं च केसरे ।
दलेषु वर्णाध्वानं च नाभौ च पदपूर्पकम् ॥६१॥
अध्वानं च कलाध्वानमरेषु च विभावयेत् ।
नेम्यां च भुवनाध्वानं कर्णिकाबिन्दुषु द्विज ॥६२॥
द्वादशाक्षरवर्णानि(र्णांस्तु?)प्रत्येकं च सभाजयेत् ।
परात्मानमावाह्म सकलीकृत्य च द्विज ॥६३॥
केसरेषु च लक्ष्म्यादीन् (द्या?) दले द्वादशमूर्तय: ।
श्रीवत्साद्या: पूजनीया: व्याप्त्याद्याश्च समन्तत: ॥६४॥
पूज्या दलान्तवलये विष्णु: स्यात्पूर्वनाभिग: ।
द्वितीयनाभिगो ब्रह्म तृतीये च त्रियम्बक: ॥६५॥
मासपा द्वादशाब्जे(रे ?)षु मत्स्याद्यास्तदनन्तरे ।
वलये नेभिवलये प्रथमे शङ्खपूर्वका: ॥६६॥
हेतय: पूजतीया: स्यु: पीठकोणचतुष्ठये ।
वाराहनारसिंहौ च तथानन्तहयाननौ ॥६७॥
आग्रेयादि सभाज्या: स्युर्वीथ्याभिन्द्रादय: क्रमात् ।
चतुर्षु द्वारकोणेषु(?) चण्डाद्या द्वारपालका: ॥६८॥
रथ्यायामीशकोणेषु (तु?) विष्ववसेनं सभाजयेत् ।
पूर्वद्वाराद्बहिर्देशे गरुत्मान् समुपस्थित: ॥६९॥
सुदर्शनो दक्षिणे च गदा द्वारे च वारुणे ।
उत्तरे पाञ्चजन्यश्च प्रथमायामथावृतौ ॥७०॥
मासेश विष्णुपूर्वाश्च पह्मेषु द्वादशस्वपि ।
अनन्तरावृतिस्थे च पह्मद्वादशके द्विज ॥७१॥
वासुदेवादिका: कृष्णावसाना मूर्तयो द्विज ।
अन्त्यावरणपह्मेषु द्वादशादित्यपूजनम् ॥७२॥
आराधनं विधेयं स्याद्वासुदेवस्य काश्यप ।
मण्डलेऽस्मिन् महाभाग पश्चान्नारायणे यजेत् ॥७३॥
बिन्द्वष्टकेऽष्टाक्षराणि केसरेषु च शक्तय: ।
व्याप्त्याद्या: पूजनीया: स्युर्लक्ष्म्याद्याश्च दलेषु च ॥७४॥
अरेषु पाञ्चजन्य: स्यात्पूजनीय: पृथक्पृथक् ।
पाह्माष्टकेषु त्रिषु च चतुर्विशतिमूर्तय: ॥७५॥
त्रिष्वावरणदेशेषु समाराध्या: पृथक्पृथक् ।
इत्थभूते मण्डलेऽस्मिन् नारायणमनन्यधी: ॥७६॥
आवाह्माराधयेच्चैनं सर्वदेवेश्वरं हरिम् ।
इत्थं मण्डलयागस्ते मयोक्त: काश्यपात्मज ॥७७॥
अत: परं च वक्तव्यमस्ति चेद्वक्तुमर्हसि ।
इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
[मण्डलयागविधिर्नाम] पञ्चदशोऽध्याय:॥
N/A
References : N/A
Last Updated : January 18, 2021
TOP