विश्वामित्रसंहिता - त्रयोदर्शोऽध्याय:
विश्वामित्रसंहिता
काश्यप:----
भगवन् मन्त्रमुद्राणां प्रभेदं [विनिबोध मे] (विनियोजनम्?) ।
वक्तुमर्हसि सर्वज्ञ दया चेन्मयि वर्तते ॥१॥
विश्वामित्र:----
अङ्गलीनां समावेशभेदो मुद्रेति कथ्यते ।
मुदं द्रावयते यस्त्माद् दुष्टनां दर्शनात् क्षणात् ॥२॥
ततो मुद्रेति कथिता मन्त्रतन्त्रन्विशारदै: ।
हिंसकानां निरसनं देवानां प्रीणनं भवेत् ॥३॥
कर्मादौ दर्शनादासां तस्मादेता: प्रदर्शयेत् ।
मन्त्रजातस्?य संख्यानं यथाग्रप्तं विधीयते ॥४॥
तथैव मुद्रां रहसि दर्शयेन्न जनाम्रत: ।
करावुभौ च संक्षाल्य पञ्चगव्यैर्विशोध्य च ॥५॥
विलिप्य च शुभैर्गन्धै मुद्रां पश्चात् प्रदर्शयेत् ।
मध्यमानाभिकाङ्गुल्योर्मध्येऽङ्गष्ठं समायतम् ॥६॥
प्रवेश्य हृदये मुष्टिं विधाय स्थापयेच्च ताम् ।
हृन्मुद्रैषा विधातव्या मन्त्राङ्यासकर्मणि ॥७॥
अधोमुखीं विधायैनां मस्तके विनिवेश्य च ।
हन्यादङ्गष्ठशिरसा तर्जनीं शीर्षमुद्रिका ॥८॥
मुष्टिं कृत्वोर्ध्वगाङ्गष्ठामङ्गुष्ठाग्रं शिखोपरि ।
स्पर्शयेदियमाख्याता शिखामुद्रेति सूरिभि: ॥९॥
अङ्गष्ठमुद् कृत्वा बध्वा मुष्टिं समुन्नताम् ।
प्रदेशिनीं किंचिदग्रं नतां मुष्ट्यानया पुन: ॥१०॥
वर्मबन्धं हृदा ध्यायेन्मुद्रैषा कवचात्मिका ।
अङ्गुष्ठं तर्जनी [पङ्क्ति(?)तिसृभिर्मुष्टिबन्धनम्] ॥११॥
विघाय तर्जन्यगङ्ष्ठे मूर्ध्रा (र्ध्रो ?) मण्डलवद्बहि: ।
स्फोटयेद्दिक्षु सर्वासु सैषा मुद्रास्त्रसंज्ञिता ॥१२॥
अधोमुखीं शिखामुद्रां भ्रुवोध्ये निवेशयेत् ।
चक्षुर्मुद्रेयमुद्दिष्टा कुर्यादङ्गेष्विमा: क्रमात् ॥१३॥
दक्षिणेन करेणैता विदध्यात् क्रमशो मुने ।
तर्जनीमुन्नतां कृत्वा तिसृणां मध्यसंगतम् ॥१४॥
विधायाङ्गुष्ठमेतेन स्वदेहं भ्रामयेद्बहि: ।
प्रदक्षिणं समाख्याता सग्रिप्राकरमुदिका ॥१५॥
स्वदेहरक्षणं कुर्यादनया मुद्रया बुध: ।
कृत्वा सव्यकरं नाभेरधस्तात् प्रसृतं पुन: ॥१६॥
उत्तानीकृत्य विन्यस्येत् तस्योपरि च दक्षिणम् ।
योगमुद्रेति विख्याता सव्यं करतलं पुन: ॥१७॥
नाभेरथोर्ध्वविधिभिश्रन्तरं च करं पुन: ।
समाङ्गष्ठं तदुपरि स्थापयेद्द्विजपुंगव ॥१८॥
योगसंपुटमुद्रा स्यादियं मुद्रायुगं त्विदम् ।
योगिनां तत्त्वसंहारे समुत्पादनकर्मणि ॥१९॥
योगाभ्यासविधौ शस्तं कुर्यात्तत्रैव कर्मणि ।
कुम्भमुद्रेति कथिता योगसंपुटमुद्रिका ॥२०॥
छिद्रिता घटसंस्थाना तथैवोर्ध्वमुखस्थिता ।
तया समाचरेत् स्त्रानं तर्जन्यानाभिकाशिर: ॥२१॥
संवेश्य क्रमश: कुर्यात् तथाङ्ष्ठकनिष्ठिके ।
इयं संहारमुद्रा स्यात् तत्त्वसंहृतिकर्मणि ॥२२॥
उद्वासने देवतानामेतां मुद्रां प्रदर्शयेत् ।
अङ्गुलीभिश्चतसृभि:संहृताभिश्च संहृति : ॥२३॥
तर्जन्यां तु विमुक्तायां सृष्टिमुद्रेति तां बिद: ।
आवाहने देवानां तत्त्वसृष्टौ च सा मता ॥२४॥
ज्ञानमुद्रा समाख्याता तर्जन्यङ्गुष्ठसंहति: ।
तत्त्वमुद्रेति च विदुरिमां पूर्वे तु सूरय: ॥२५॥
[उत्तानयोर्ध्व(?)गतयो]र्हस्तयोरुभयोरपि ।
मध्यमाभ्यां स्पृशेन्मध्यमेषा सा न्यासमुद्रिका ॥२६॥
मन्त्रन्यासे तु मुद्रेयं ख्याता देवात्मिका ययो: ।
जपमुद्रां शृणु ब्रहृमन् अङ्गुष्ठभ्यां करद्वये ॥२७॥
तर्जन्यो: संस्पृशेन्मध्यं विस्तृता: स्युतथेतरा: ।
जपकालेषु सर्वेषु जपमुद्रां प्रदर्शयेत् ॥२८॥
करद्वये समस्ताभिरङ्गलीभिर्द्विजोत्तम ।
सेयं पुटाकृति: प्रोक्ता मुद्रा ब्राह्मी द्विजोत्तमै: ॥२९॥
करद्वयेऽङ्गष्ठयुगं कनिष्ठातर्जनीयुगम् ।
संयोज्य श्लेषयेदग्रं विष्णुमुद्रामिमां विदु: ॥३०॥
रुद्रमुद्रेति कथिताप्यङ्गष्ठान्योऽन्यसंयुता ।
उभयाङ्गुष्ठमुद्रा सा कथिता तव सुव्रत ॥३१॥
करद्वयाङ्गभ्यां(येन ?) श्रवसी पिधायैकं प्रसारयेत् ।
दक्षिणं सा भवेन्मुद्रा पितॄणामभिवादने ॥३२॥
विन्यस्य वामश्रवणे वामहस्ताङ्गुलीस्तथा ।
प्रसारयेत् करं चान्यं विध्रराजस्य मुद्रिका ॥३३॥
अङ्गुष्ठयुगलं मध्ये तर्जन्यो: संहरेद् द्वयो: ।
एषा भागवती मुद्रा कथिता द्विजपुंगव ॥३४॥
वाराहमुद्रा कथिता करयो: संपुटे कृते ।
स्पृष्टवा (स्मृत्वा ?) तु दक्षिणकरे रक्तं सरसिजं पुन: ॥३५॥
त्रिकोणं मध्यतस्तस्य बीजमग्रे: समुज्ज्वलम् ।
अवाचितं निधायैतं निक्षिपेद् द्रवयमूर्धनि ॥३६॥
अग्नेरेषा भवेन्मुद्रा सर्वद्रव्यविशोधिनी ।
करे वामे सितं पह्मं स्मृत्वा षोडशपङ्कजम् ॥३७॥
तन्मध्ये शशिनं ध्यायेत् कलाषोडशकान्वितम् ।
तस्मात् स्त्रवन्तममृतं स्मृत्वा [तदभस्म सेचयेत् ](?) ॥३८॥
पुनस्तदुत्थितं ध्योन्मुद्रैषाप्यानी स्मृता ।
[जङ्गुष्ठर्जनीयुग्मे कनिष्ठायुगलं तथा] ॥३९॥
श्लिष्टं प्रसार्यं संहृत्य मध्यमं दक्षिणे करे ।
अनामिकां चेतरस्मिन् शेषं चैव प्रसारयेत् ॥४०॥
मुद्रैषा सौरभेयी स्याच्छोधनी सर्ववस्तुन: ।
अञ्जलिं करयुग्मेन विधायेषद्विकासयेत् ॥४१॥
मुद्रैषावाहनकरी ट्टष्ट्वैतां देवतागण: ।
संनिधिं याति विप्रेन्द्र तस्मादेतां प्रदर्शयेत् ॥४२॥
विकाससहिता सैषा हृदये शिरसि स्थिता ।
ख्याता प्रणाममुद्रेति क्षिप्रं देवप्रसादिनी ॥४३॥
वासदुदेवादिमूतीनां विष्ण्वादीनां च काश्यप ।
सत्यादीनां तथा मीनप्रभृतीनां च सत्तम ॥४४॥
प्रासुदनकरी मुद्रा सर्वेषामियमेव हि।
मणिबन्धौ संगमय्य संप्रसार्य तथाङ्गली: ॥४५॥
मध्ये तु कु??ञ्जितं कृत्वा तथा चाङ्गुष्ठयुग्मकम् ।
पा?तयित्वा तत: पृष्ठं स्पर्शयित्वा प्रासारयेत् ॥४६॥
पह्ममुद्रा भवेदेषा लक्ष्यादीन् संनिधापेयत् ।
सव्यहस्तस्य [मुष्टिस्तम](मुष्टौ तु अ?)ङ्गुष्ठमितरस्य च ॥४७॥
निधायाङ्गष्ठर्जन्यो:(न्यौ?) संयोज्य प्रसृते समे ।
अपसव्यस्य तिसृभिरन्याभिर्मुष्टिबन्धनात् (नम्?) ॥४८॥
कारयेच्छङ्खमुद्रैषा ज्ञानमोक्षप्रदायिनी ।
तिर्यक् करद्वयं कृत्वा मणिबन्धावसानकम् ॥४९॥
अन्योन्यं स्यादभिमुखं मण्डलीकृत्य काश्यप ।
भ्रामयेच्चक्रमुद्रैषा सर्वदुष्टनिबर्हिणी ॥५०॥
करद्वयेन मुष्टिं तु कृत्वाङ्गष्ठौ विनाम्य च ।
प्रसारयेदूर्ध्वमृजुं मध्यमायुगमञ्जसा ॥५१॥
अन्योऽन्यबन्धनं कुर्यादितराङ्गुलयोरपि ।
श्लेषयेत् कूर्परयुगं गादमुद्रा प्रकीर्तिता ॥५२॥
स्पृशेन्मध्यमया तर्जन्यग्रं सा धनुमुद्रिका(धनुषो मता ?) ।
वामाङ्गुष्ठमृजूकृत्या मुष्टिं बध्वेतराङ्गुली: ॥५३॥
बन्धयेच्च तदङ्गुष्ठमितरेण क्रमेण च ।
प्रसार्य च तदङ्गुष्ठं मुद्रा सा मुसलाह्वया ॥५४॥
अङ्गुष्ठतर्जनीवर्जं तिसृभिर्मुष्टिबन्धन:(नम् ?) ।
नताग्रां तर्जनीं भूयस्तदङ्गुष्ठेन बन्धयेत् ॥५५॥
खङ्गुमुद्रा भवेत् सा तु दुष्टवर्गनिबर्हिणी ।
लम्बयित्वा करयुगमन्योऽन्यस्यामलात्मकै: ॥५६॥
निबध्याङ्गुष्ठयुग्मं तु संहरेद्वनमालिका ।
अपसव्यकरं स्पृ(स्प ?)ष्टमात्मनस्तु पराङ्मुखम् ॥५७॥
पराङ्मुखं सव्यकरं लम्बमानं प्रकल्पयेत् ।
वरदाभयाख्यं तु मुद्राद्वयमिदं द्विज ॥४८॥
इन्द्रादीशानपर्यन्तमेतन्मुद्राद्वयं भवेत् ।
करद्वये पृष्ठयुगं संश्लिष्य च कनिष्ठिके ॥५९॥
बध्वा प्रसारयेद्युग्मं तर्जन्यो ( नयौ?) स्तुण्डसंनिभम् ।
अङ्गुष्ठयुगलं पादयुगवल्लम्बयेदध: ॥६०॥
इतराङ्गुलियुग्मं तु चालयेत् पक्षसंनिभम् ।
एषा गरुडमुद्रा स्याद्विषसंहारकर्मणि ॥६१॥
अङ्गष्ठेन कनिष्ठादित्रयं संहृत्य तर्जनीम् ।
दर्शयन्मुद्रिका ह्मेषा विप्यकसेनप्रसादिनी ॥६२॥
सर्वाङ्गली: संप्रसार्य नताग्रा विरलाश्च ता: ।
कृत्वोर्ध्वगाभिनी: कुर्यादेषानन्तस्य मुद्रिका ॥६३॥
वामेन तर्जनीमूर्ध्वं संस्थाप्याङ्गुष्ठकं पुन: ।
कृत्वोष्ठादित्रयस्याग्रे स्थापयेच्चण्डमुद्रिका ॥६४॥
तथेतरकरे कुर्यात् प्रचण्डस्य च मुद्रिका ।
उत्थापयेद्वामहस्तमध्यमां जयमुद्रिका ॥६५॥
तथेतरकरे कुर्यान्मुद्रिका विजयाहृया ।
अनामिकां तथा वामात्कुर्याद्ग्राङ्गस्य मुद्रिका ॥६६॥
इतरस्मान्मुनिस्तस्य(द्यामुनस्य?) मुद्रैषा परिकीर्तिता ।
शङ्खस्य निधनाथस्य वामहस्तकनिष्ठिका ॥६७॥
[पह्मं स्वेन रहस्वस्थो कनिष्ठोर्ध्वीकृता भवेत्] ।
तथैवानामिकाङ्गुष्ठे कुर्याद्वस्त्रस्य मुद्रिका ॥६८॥
मुष्टिमुद्रा भवे न्मुष्टिर्वेष्टिताङ्गुष्ठिका भवेत् ।
स्नानमुद्रा विनिर्मुक्ततानिष्ठान्ता ( क्तकनिष्ठ:?)ङ्गुमूर्धनि ॥६९॥
विमुक्तानामकां तां च गन्धमुद्रां विदुर्बुधा: ।
विमुक्तमध्यमा सैव पुष्पमुद्रेति कीर्तिता ॥७०॥
यज्ञोपवीतमुद्रा स्यान्मध्यमाङ्गुष्ठमूर्धनि ।
अग्रपर्वसमायोग: कनिष्ठाङ्गुष्ठमूर्धनि ॥७१॥
विधानं पूर्वविन्यासात् सैषाकल्पस्य मुद्रिका ।
करावूध्वीकृताङ्गुष्ठौ विधायान्याङ्गुलीगणम् ॥७२॥
कृतव्यतिकराग्रं तु कुर्यात् सा धूपमुद्रिका ।
संहृत्य वामहस्तस्य कनिष्ठामूर्ध्वसंस्थिताम् ॥७३॥
विधाय मध्यमां पश्चादङ्गुष्ठं संहरेत्तथा ।
अनामिकार्जनीभ्यां संहरेच्च कनिष्ठिकाम् ॥७४॥
करेण दक्षिणेनापि विहितायां तथैव च ।
दीपमुद्रां विदु: प्राज्ञा देवस्य प्रियकारिणीम् ॥७५॥
उपचारन्तराणां तु मुद्रैषा स्यात्कृताञ्जलि: ।
अङ्गुष्ठमूर्ध्वगं स्थाप्य शोषाभि: कृतमुष्टिका ॥७६॥
प्रतिमामुद्रिका चैव ज्ञेया देवप्रियावहा ।
हस्तुमुत्तानितं कृत्वा क्रमाद्वति(क्र? )कृताञ्जलि: ॥७७॥
पृथक् कुर्यात् तथाङ्गुष्ठं सैषा स्वागतमुद्रिका ।
प्रार्थनामुद्रिका सेयं ध्यानमुद्रापि सा भवेत् ॥७८॥
अपसव्यकरस्याग्रमङ्गुलीपञ्चकस्य च ।
अन्वारब्धेनेतरेण परमान्ननिवेदनम् ॥७९॥
ग्रासमुद्रां विदु: प्राज्ञा: सदा देवप्रसादनी(नीम् ?) !
दीघीकृत्य कनिष्ठां च तर्जनीं चाप्पुभे हमे ॥८०॥
अङ्गष्ठं मध्यमानाममूर्ध्रि संयोजयेदपि ।
मुद्रैषा व्रीहिमुख्स्यानं धान्यानां हवने बुधै: ॥८१॥
आधारशक्तिपूर्वाणां मुद्रागणमथोच्यते ।
करद्वये मुष्टियुगं विधायाङ्गुष्ठमध्यत: ॥८२॥
क्षेपयेद्वाममुष्टे: स्यादितरा दक्षिणोपरि ।
अस्पृष्टा स्यादियं मुद्रा संप्रोक्ताधारशक्तिजा ॥८३॥
व्यत्यस्ता कूर्मकालाग्रेर्मुद्रैषात् स्या प्रियंकरी ।
विधायाधेमुखं वाममध्यमापृष्टगे उभे ॥८४॥
तर्जन्यनामिके कुर्यात् कुञ्चितो(ते ?)मध्यमामृजूम् ।
विधाय प्रसृतं कुर्यात् कनिष्ठाङ्गुष्ठिके अपि ॥८५॥
अनन्तासनमुद्रैषा नास्यां योजयते यत: ।
कराभ्यां मुष्टियुग्मं तु लग्रं कृत्वाङ्गुलित्रयै: ॥८६॥
तर्जन्यङ्गुष्ठयुगलं प्राप्तलग्रं च मीलयेत् ।
पृथिवीमुद्रिकैषा स्याच्छृणु क्षीराब्धिमुद्रिकाम् ॥८७॥
संश्लंष्य मणिबन्धौ च ह्मङ्गुष्ठं चाङ्गुलीगणम् ।
अन्योन्यसंमुखं कुर्यान्नखाग्रै: सुषिरं मुने ॥८८॥
तन्मध्येऽङ्गुष्ठयुगलं निराधारं प्रचालयेत् ।
एषा सा मुद्रिका प्रोक्ता पङ्कजस्य पुरोदिता ॥८९॥
संयोज्य हस्तयुगलं तर्जनीभ्यां मुखे मुखे ।
[अमध्यके मस्तकं चेद्बद्धं कुर्यादितीदृशम्] ॥९०॥
[तत्त्यवतानामिकायुग्मं ततस्तं चोपसंहरेत्] ।
नियोजयेत् कनिष्ठे द्वे बद्धे चैवैकशस्तथा ॥९१॥
अङ्गुष्ठयुगलं लग्रं कुयाद्धर्मादिमुद्रिका ।
क्रमेणैता विजानीहि निर्व्यासिङ्गेन चेतसा ॥९२॥
तर्जन्यङ्गुष्ठयुगलं मेलयेद्दक्षिणे करे ।
पश्चाच्छनै: शनै: कुर्यात् तद्बन्धस्य विकासनम् ॥९३॥
शाखाशङ्ख(संघ?)स्य च पुन: समुत्थानात् पृथग्भवेत् ।
धाम्नां त्रयाणां मुद्रा: स्पुरेता हंसत्य कथ्यते ॥९४॥
हस्तौ प्रसारितौ स्पृष्टौ विदध्यादञ्जलिर्यथा ।
एषा भावासनस्य स्यान्मुद्रा शुद्धा परतात्मन: ॥९५॥
[सर्वा हस्तादयो वक्त्राद्गृहीत्वा मध्यमाङ्गुलि:]।
दक्षिणस्यय कनिष्ठस्य शेषाभिस्तिसृभिर्मुने ॥९६॥
मुष्टिं विधाय चाङ्गुष्ठमुन्नतं कारयेद्बुध: ।
एषा मुद्रा जयानाम्रा निरुक्ता मन्त्रवित्तमै: ॥९७॥
अधोमुखे स्थिते वामे करे तत्पृष्ठसंस्थिते ।
दक्षिणे बद्धमुष्टिस्ते (ष्टौ तु ?) विष्णुं ध्यायेच्छ्रिय: पतिम् ॥९८॥
सर्वार्थसाधनी मुद्रा जयेत्येषापि कीर्तिता ।
गरुडोपरिसंस्थस्य देवस्यैषा प्रियंकरी ॥९९॥
शक्तियुक्तस्य देवस्य मुद्रां शक्त्यात्मिकां शृणु ।
उत्तानवामहस्तं तु प्रसार्य विरलाङ्गुली: ॥१००॥
कुर्यादाकु?ञ्चितप्रान्ता: तच्छाखा: सेतुवदभवेत् ।
अङ्गुष्ठसंमुखं तासु लग्राश्चाङ्गुलिध्यत: ॥१०१॥
हृदयाभिमुखीमेनां बध्रीयादियमेव सा।
अन्यासामप्यनुक्तानां मुद्राणां द्विजपुंगव ॥१०२॥
पह्ममुद्रां विदध्याद्वा यद्वा कुर्यादथाञ्जलिम् ।
इति पञ्चरात्रे महोपनिषदि विश्वाममित्र----
संहितायां [मुद्रालक्षणविधिर्नाम]त्रयोदशोऽध्याय:॥
N/A
References : N/A
Last Updated : January 17, 2021
TOP