विश्वामित्रसंहिता - नवमोऽध्याय:
विश्वामित्रसंहिता
काश्यप:----
दीक्षाया लक्षणं ब्रूहि भगवन् मदनुग्रहान् (?) ।
त्सर्वं विस्तरेणैव ब्रूहि मे भक्तवत्सल ॥१॥
विश्वामित्र:----
दीक्षां वक्ष्ये तु संक्षेपात् तच्छृणु दिजपुंगव ।
आदित्ये मीनमेषवृषनकेषुसंस्थिते ॥२॥
पूर्वपक्षे शुभे ऋक्षे एकादयां तथा निशि ।
शुचौ देशे मनोज्ञे च कारयित्वा तु मण्डपम् ॥३॥
गोमयेन समालिप्य वेष्ठयेद्दर्भमालया ।
वेदीं कुर्याच्च तन्मध्ये चतुर्हस्तप्रमाणत: ॥४॥
तालोत्से[धापरा चान्ये विस्तारायामतत्समा]:॥ (?) ।
वेद्या: पश्चिमदिग्भागे कुण्डं कुर्याद्विधानत: ॥५॥
क्रमेण ब्राह्मणादीनामेवंलक्षणकं मुने ।
चतुष्कोणं तालयुग्ममनुकूलं द्विजस्य तु ॥६॥
वृत्तं कुर्यात् क्षत्रियस्य गोकर्णयुतसंयुतम् ।
चापाकारं च वैश्यस्य वितस्तिद्वयसंमितम् ॥७॥
त्रिकोणं शूद्रयोने: स्यात् प्रादेशद्वयसंमितम् ।
विस्तारायामसदृशं तत्प्रमाणमितां तथा ॥८॥
त्रिमेखलां च कुर्वीत पश्चिमे योनिभूषिताम् ।
दशम्यां संभरेत् सर्वान् समिदादीन् समाहित: ॥९॥
मध्यंदिने शुचि: स्नात एकभुक्तेन वर्तंयेत् ।
एकादश्यां तिथौ स्?नात: शुद्धवासोयुगं दधत् ॥१०॥
श्वेतगन्धानुलिप्ताङ्ग: श्वेतमाल्यविभूषित: ।
भूषितश्च यथालब्धैर्भूषणै: समलंकृत: ॥११॥
सायंकाले तु संप्राप्ते कुर्याच्चैवाधिवासनम् ।
चतुर्षु द्वारदेशेषु पार्श्वयो: कलाद्वयम् ॥१२॥
निधाय वेदविकामध्ये कुर्याच्चक्राब्जमण्डलम् ।
हेमादिनिर्मितं कुम्भं गालितोदकपूरितम् ॥१३॥
विन्यस्तरत्नकनकं सकूर्चं सूत्रवेष्टितम् ।
वासोयुगलसंवीतं चन्दनस्त्रगलंकृतम् ॥१४॥
अक्षतै: सुमनोभिश्च विकीर्णं च समन्तत: ।
यद्दव्यनिर्मित: कुम्भस्तद्द्रव्यात् कर्करी भवेत् ॥१५॥
शतकृत्वोऽस्त्रमन्त्रेण कर्करीं चाभिमन्त्रयेत् ।
वेदिकां परित: सिञ्चेत् धारयाच्छिन्नया गुरु: ॥१६॥
चक्रब्जस्येशदिग्भागे कुम्भस्थापनमावरेत् ।
व्रीहिन् निधाय सुशुभान् कुम्भं तस्योपिर न्यसेत् ॥१७॥
कुम्भस्यान्त: फलं तस्य फलनि परितो न्यसेत् ।
कलशं दक्षिणे पार्श्वे वामे च करकं न्यसेत् ॥१८॥
कुम्भे च हरिमावाह्म पूजयेन्मूलविद्यया ।
मण्डले च यजेद् देवमुपचारैश्च षोडशौ: ॥१९॥
सह सर्वै: परीवारै: शास्त्रचोदितवर्त्सना ।
पश्चिमे च हरिं देवं मण्डलादुक्त्वर्त्मना ॥२०॥
हरिं च लक्ष्मीभूमिभ्यां शयानं परिकल्प्य च ।
भोगैरर्ध्यादिभि: सर्वैर्नैवेद्यान्तै: सभर्चयेत् ॥२१॥
मथित्वाग्रिं च मूलेन कुण्डे तं विन्यसेद्ग्रुरु: ।
तत्र सिद्धं चरुं कृत्वा तण्डुलै: सुसितै: शुभै: ॥२२॥
चतुर्भागैकभागं तु मण्डलस्थाय विष्णवे ।
निवेद्य चैकं भागं तु कुम्भस्थाय निवेदयेत् ॥२३॥
जुहुयादग्रये भागं भागं भुञ्जीत तत्स्वयम्॥
समिधोऽष्ठोत्तरशतं जुहुयान्मूलविद्यया ॥२४॥
सरुं पुरुषसूक्तेन तावत्संख्यं हुनेद्बुध: ।
पूर्णाहुतिं विधायान्ते स्रातं शिष्यं जितेन्द्रियम् ॥२५॥
वसानं चाहते शुभ्रे वाससी भूषणोत्तमै: ।
भूषितं चानुलिप्ताङ्गं शुद्धमाल्यविभूषितम् ॥२६॥
आहूय नववस्त्र्?ेण नेगे बध्रीत वाग्यत: ।
गुरु: स्वदक्षिणे भागे प्राङ्मुखं चोपवेश्य तम् ॥२७॥
अन्वारब्धस्तेन चैव घृतेन चरुणापि च ।
आहुतीर्द्वादश हुनेत् पृथक् पृथगनुक्रमात् ॥२८॥
हुत्वा तिलै: सकुसुमैस्त्रिधा मूध्न्?र्यस्य चालभेत् ।
हुतभस्म समादाय सितमष्टाक्षरेण तु ॥२९॥
ऊर्ध्यपुण्ड्रं च विन्यस्य बध्वा प्रतिसरं करे ।
दक्षिणे चास्मन्त्रेण प्राशयेत् पञ्चगव्यकम् ॥३०॥
प्रणवेन चरुं पश्चाद् भोजयेदात्मशुद्धये ।
दन्तकाष्ठेन दन्तांश्च शो धयित्वा क्षिपेच्च तत् ॥३१॥
तदग्रपतन्स्थानं सम्यगालोकयेद्ग्रुरु: ।
याम्यनैऋर्त[वायव्यं](व्ये?) यदग्रमशुभं हि तत् ॥३२॥
अन्यदिक्षु शुभं ब्रूयात् शन्तिहोमेन चाशुभम् ।
शमयेन्नारसिंहेन मनुनाष्टशताहुती: ॥३३॥
तिलानाचमयेच्छिष्यं देवस्यालोक्य पादयो: ।
गुरुश्च प्रणतो मूर्ध्रा देवं विज्ञापयेत् तत: ॥३४॥
संसारपाशबद्धानां पशूनां पाश[मोक्षणे](चने?) ।
त्वमेव शरणं देव गतिरन्या न विद्यते ॥३५॥
पाश[मोक्षण](चन?)हेतुर्यस्त्वत्समाराधनात्मक: ।
तेनेमान् जन्मपाशेन पाशितान् पशुजन्मन: ॥३६॥
विपाशयामि देवेश तदनुज्ञातुमर्हसि ।
इति विज्ञाप्य देवेश शिष्यं सूत्रेण वेष्टयेत् ॥३७॥
कृत्वा टृढं कृष्णवर्णौस्त्रिसूत्रैस्त्रिगुणीकृतम् ।
पुनस्तत् त्रिगुणीकृत्य तं पादादि शिरोऽवधि ॥३८॥
पञ्चविंशतिवारांस्तु वेष्टयेच्छिष्यदेहके ।
तत्संस्पृष्टोऽथ जुहुयात् सर्पिषाष्टोत्तरं शतम् ॥३९॥
पूर्णाहुतिं विधायाथ स्वप्रदर्शनसिद्धये ।
स्वप्राधिपतिमन्त्नेण तावत्संख्यं हुनेद्ग्रुरु: ॥४०॥
माषौदनबलिं द़द्यादूतेभ्यश्च समाहित: ।
शिष्यस्य नेत्रबन्धं च विस्त्रय च शरीरगम् ॥४१॥
आदाय मायासूत्रं तच्छरावे निक्षिपेदथ ।
पिघाय तत्कुम्भपार्श्वे स्थापयित्वा द्विजोत्तम ॥४२॥
दर्भान् संस्तीर्य तेष्यवेनं स्थापयेत् प्राविछरो यथा ।
कुम्भमण्डलगं देवं तदा नोद्वासयेद्ग्रुरु: ॥४३॥
प्रात: पूच्छेच्च शिष्यं तं स्वप्रस्य च शुभाशुभम् ।
शुभं चेद्दीक्षयेदेनमशुभं चेन्न दीक्षयेत् ॥४४॥
शान्तिहोमेन तच्छान्तिं कृत्वा स्त्रात्वा शुचिस्तत: ।
सशिष्य: प्रविशेत्तत्र मण्डपे यागसंभृते ॥४५॥
ध्वजं च तोरणं चैव पूजयित्वा विधानत: ।
कुम्भगण्डलसंस्थं तं देवमभ्यर्च्य भक्तित: ॥४६॥
पायसादि निवेद्यान्नं प्रणम्यैव प्रदक्षिणम् ।
नेत्रबन्धं च शिष्यस्य कृत्वा पार्श्वे निवेश्य च ॥४७॥
देशिको मूलमन्त्नेण समिदाज्यतिलान् पृथक् ।
अष्टोत्तरशतं हुत्वा पूर्णान्तमवधानत: ॥४८॥
आदाय मायासूत्रं तत् छित्वा वै तत्त्वसंख्यया ।
संहारक्रमयोगेन [सामेष: (?)]पञ्चविंशति: ॥४९॥
प्रकृत्यादीनि संस्मृत्य तत्त्वानि जुहुयाद्गुरु: ।
पृथगष्टशतं वारानष्टकृत्वोऽथवा हुनेत् ॥५०॥
गुरु: स्वहृदयाम्भोजकर्णिकायां सुसंस्थितम् ।
ध्यात्वा नारायणं देवं परमात्मानमच्युतम् ॥५१॥
शिष्यस्य जीवं संस्मृत्य तस्मिन्नेव प्रवेशयेत् ।
शोषणादि विधायाथ शिष्यदेहस्य देशिक: ॥५२॥
पुन: स्वहृदयाब्जं च सजीवं संक्रमय्य च ।
सृष्ठिक्रमेण तत्त्वानि प्रकृत्या विनियोजयेत् ॥५३॥
सृष्टिकाले च तत्त्वानां जुहुयाच्च यथाक्रमम् ।
स्पृष्टमा श्ष्यिशरीरं तु तन्मध्ये शिष्यसंयुतम् ॥५४॥
ध्यात्वा तत्र स्थितं देवं वस्त्रेणामूलविद्यया ।
नेत्रबन्धं च [विन्य](स्र?)स्य परिधायाम्बरान्तरम् ॥५५॥
पादौ प्रक्षालयित्वा तमाचमय्याथ चक्षुषी ।
वासोऽन्तरेण बध्वाथ स्वपार्श्चे संनिवेश्य च ॥५६॥
आसीनस्य प्राङ्युखस्य शोधयेदध्वपद्धतिम् ।
कालाध्वानं पदाध्वानं भुवनाध्वानमन्वत: ॥५७॥
तत्त्वाध्वानं च तदनु मन्त्राध्वानमनन्तरम् ।
वर्णाध्वानं च मतिमात् शोधयित्वा ?स्वविद्यया ॥५८॥
महाव्याहृतिभि: पूर्वमाज्यहोमं विधाय तु ।
हुत्वाशिष्टेनाज्येन शिष्यपादौ स्पृशेद्ग्रुरु: ॥५९॥
हुत्वा ततस्तिलैर्नाभिं स्पृशेत्तदविशेषत: ।
पह्महोमं विधायास्य हृदयं च समालभेत् ॥६०॥
तत्र हुत्वा च चरुणा संपृशेदस्य मस्तकम् ।
पृथगष्ठशतं होमो महाव्याहृतिभिर्भवेत् ॥६१॥
ततो गृहीत्वा शिष्यास्य करं दक्षिणमात्मन: ।
दक्षिणेन करेणैव कृत्वा चैव प्रदक्षिणम् ॥६२॥
कुम्भमण्डलगं देवं नारायणमनन्यधी: ।
स्थित्वैव तस्मिन् द्वार्भागे हेमरत्नादिकैस्तत: ॥६३॥
कुसुमै: केवलैर्वास्य पूरयेदञ्जलिं बुध: ।
प्रक्षेपयेन्मण्डले तं यत्र पुष्पाञ्जलिश्च स: ॥६४॥
भूभागे पतितस्तत्तन्मूर्तिलनास्य निर्दिशेत् ।
नाम्नोऽन्ते तस्य शिष्यस्य केशवादिपदं भवेत् ॥६५॥
यद्वा भागवतो वापि तथा भट्टारकोऽपि वा ।
विप्रस्य क्षत्रियस्यापि नाम्नोऽन्ते देवशब्दक: ॥६६॥
पालदासान्तमेवं स्यान्नाम वैश्यचतुर्थयो: ।
दिग्बन्धमो[क्षणं](चनं ?) कृत्वा मण्डलं दर्शयेतत्त: ॥६७॥
स्थापितै: कलशैरेतं नवभिस्त्र्यधिकैस्तु वा ।
स्नापयित्वा नवं वास: परिधाप्य पदद्वयम् ॥६८॥
क्षालयित्वा ततश्चैनमाचमय्य द्विजोत्तम ।
गुरु: शिष्येण सहितो देवं ध्यायेत् समाहित: ॥६९॥
शिष्यस्य दक्षिणे कर्णे प्रणवाद्यङ्गसंयुतम् ।
ऋष्?यादिसहितं मन्त्रं दद्यादष्टाक्षराहृयम् ॥७०॥
द्वादशार्णं च तदनु मूर्तिमन्त्रान् यथाक्रमम् ।
एकं यथा गुरुर्दद्यात् तन्मन्त्रस्य वशेन च (?) ॥७१॥
शूद्रणार्णं च तथा स्त्रीणामनुलोमभुवामपि ।
नम:स्वाहाडुंफडादिरहितं प्रणवेन च ॥७२॥
वर्जितं विष्णुनामैव चतुर्थ्यन्तं च पाठयेत् ।
गायत्रीं जपहोमं च आदद्याद् ब्राह्मणो मनुम् ॥७३॥
तत: शिष्य: स्वयं देवं कुम्भमण्डलगं हरिम् ।
आराधयेद्रुरुं पश्चात् प्रणतस्योत्थितस्य च ॥७४॥
कृताञ्कलिपुटस्यास्य शिप्यस्य शिरसि स्वयम् ।
चक्रब्जमण्डलं ध्यात्वा स्वहस्ते विष्णुहस्तकम् ॥७५॥
निक्षिप्य देशिक: पश्चादाचारानथ शिक्षयेत् ।
मन्त्रो नान्यस्य वक्तव्यो न प्रदर्श्याक्षमालिका ॥७५॥
मुद्रां न दर्शयेत् खस्य मन्त्रसिद्धिं वदेन्न च ।
गुरोर्नाम न वक्त्वयमस्यादेशं न लङ्घयेत् ॥७७॥
सदासन्नं च शैष्ट्यं च पादुकां नापि लङ्घयेत् ।
दूषणं न गुरोर्व्रूयात् नाचरेत्तस्य चाप्रियम् ॥७८॥
गुरुत्रकलत्रादौ गुरुवदभक्तिमावरेत् ।
मन्त्रं गुरुं देवतां च समबुद्धयाभिपूजयेत् ॥७९॥
नास्तिकान् न स्पूशेच्चैव नाभिभाषेत तै: समम् ।
गुरुदेवाग्रिपुरत: पादौ नैव प्रसारयेत् ॥८०॥
देवार्चनमकृत्वा तु न किंचिदपि भक्षयेत् ।
सन्ध्यासु तज्जपस्तोत्रप्रणामादीन् समाचरेत् ॥८१॥
वैष्णवांश्च यतीन् टृष्ट्वा प्रणमेद्दण्डवत् क्षितौ ।
गच्छँस्तिष्ठँस्तथासीनो [भुञ्जन्] (?) स्वप्नपरायण: ॥८२॥
देवं नारायणं ध्यायेत् तद्ग्रतेनान्तरात्मना ।
एवमादिसमा(दा ? )चारं शिष्यायोपदिशेद्ग्ररु: ॥८३॥
शान्तिहोमं तत: कृत्वा पूर्णाहुतिमथाचरेत् ।
अग्रेर्विसर्जनं कृत्वा कुम्भमण्डलगं हरिम् ॥८४॥
उद्वास्य प्रणतं शिष्यमाशीर्भिर्वर्धयेद्ग्रुरु: ।
शिष्यश्च दद्याद्ग्रुरवे गां भूभिं भूषणानि च ॥८५॥
गजमश्वं च शिबिकां दासीदासगणं बहु ।
वित्तशठ्यमकुर्वाण: स्वात्मानं च निवेदयेत् ॥८६॥
स्वशक्त्या भोजयेद्विप्रान् वैष्णवान् प्रतितर्प्य च ।
भुक्त्यावाशेषं तदनु तत्रैवासीत वाग्यत: ॥८७॥
आदित्यास्तमयात् पश्चात् स्वनुलिप्त: स्वलंकृत: ।
गुरोरनुज्ञया गेहं गच्छेद् बन्धुसमन्वित: ॥८८॥
दीक्षामेवं तु य: कुर्याच्चक्रमण्डलसंनिधौ ।
स सव ब्राह्मणो चिद्वान् स एवाश्रमिणां वर: ॥८९॥
स एतैर्नाभिर्वाच्य एकान्ती पाञ्जरात्रिक: ।
सूरिर्भागवतश्चैव सात्त्वत: पाञ्चकालिक: ॥९०॥
अन्याख्याभिर्न वाच्योऽयं यथैव प्राकृतो जन: ।
समयोऽथ समा(दा?)चार: स्वाध्यायद्रव्यसंग्रहौ ॥९१॥
शुद्धि: पूजा स्तुतिर्ध्यानं ?विधिरित्यष्टधा मत: ।
योऽनेन विधिना तिष्ठेत् स भागवत इष्यते ॥९२॥
ज्ञानादिषङ्गुणगणो भग इत्युच्यते द्विज ।
स यस्सिन्नस्ति भगवान् स एव भगवान् हरि: ॥९३॥
तदीये य: सुनिरत: स भागवतनामभाक्॥
इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां दीक्षाविधिर्नाम
नवमोऽध्याय:॥
N/A
References : N/A
Last Updated : January 17, 2021
TOP