संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वामित्रसंहिता| षोडशोऽध्याय: विश्वामित्रसंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदर्शोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: विश्वामित्रसंहिता - षोडशोऽध्याय: विश्वामित्रसंहिता Tags : samhitavishwamitra samhitaविश्वामित्र संहितासंहिता षोडशोऽध्याय: Translation - भाषांतर काशयप:----भगवन् गाधितनय देवस्य हरिमेधस: ।विशेषदिवसे पूजा विहिता यदि मे गुरो ॥१॥वक्तुमर्हसि सर्वज्ञ करुणाकर सांप्रतम् ।विश्वामित्र:----देवदेवस्य विष्णोस्तु विशेषदिवसार्चनम् ॥२॥शृणु सानुग्रहं वित्तं मदीयं त्वयि वर्तते ।मासे शुचौ सिते पक्षे दशम्यां द्विजपुंगव ॥३॥कृत्वा प्रातस्तनं कार्यं स्त्रात: शुक्लाम्बरावृत: ।धृतोर्ध्पुण्ड्रो भगवद्धाम गत्वा प्रणम्य च ॥४॥विज्ञापयेज्जगन्नाथं देवदेवं श्रिय: पतिम् ।भगवन् सर्वजगतामावास करुणानिधे ॥५॥वासुदेव श्रिय: कान्त सर्वाधार जगन्मय ।चातुर्मास्ये विशेषेण पूजा या भवतोदिता ॥६॥तया देव समारद्धुमिच्छामि त्वां जनार्दन ।जुषस्व तां प्रसीद त्वं शरणागतवत्सल ॥७॥इति विज्ञाप्य देवेशं समाराध्य यथापुरम् ।प्रणम्य दण्डवद् भूमौ स्तुत्वा स्तोत्रैरपि द्विज ॥८॥प्राप्ते मध्याह्नसमये गत्वा च सरितं शुभाग् ।तत्र मध्याह्नकीं सर्वा तत्क्रियां समवाप्य च ॥९॥संप्राश्य पञ्चगव्यं च देवस्य निकटं व्रजेत् ।तत्रापि च यथापूर्वं विधाय यजनं हरे: ॥१०॥निर्गत्य मण्डपे तत्र यथापूर्वं स्वलंकृतम् ।वितानध्वजमुक्तास्त्रक्सुमस्त्रग्भिर्विभूषिते ॥११॥यज्ञवृक्षोदभवैश्चैव चतुर्भिस्तोरणैर्वृते ।कुम्भाष्टकैश्च परित: पार्श्वयो: संस्थितैर्वृते ॥१२॥चतुर्द्वारे तथा लिप्ते गोमयादिभ: समन्तत: ।चित्रिते च सुधाचूर्णेर्मध्ये चक्राब्जमण्डले ॥१३॥मण्डलेशानभागे च शालिभिस्तण्ङुलैस्तिलै: ।मध्ये मध्ये च विस्तीर्णै: पटै: शुद्धै: समावृते ॥१४॥माहेन्द्रमण्डले लिप्ते कुम्भं च शुभलक्षणम् ।तन्तुभिर्वेष्ठितं चैव कालमण्डलवर्जितम् ॥१५॥वेष्ठितं क्षौमयुग्मेन सुशुभेन नवेन च ।सरत्नं च सहेमाब्जं सकूर्चं च सपल्लवम् ॥१६॥सफलं सापिधानं च स्थापयित्वा समन्तत: ।एवंविधं च करकं तस्य दक्षिणतो न्यसेत् ॥१७॥कुम्भाष्टकं च ?परित: स्?थापयित्वाष्टदिक्ष्वथ ।मण्डलस्योत्तरे भागे कुण्डं कृत्वा विधानत: ॥१८॥तन्मध्ये वेदिसंस्थं तं प्रतिष्ठाप्य हरिं पुन: ।कुम्भे च मण्डले चैव देवमावाह्म पूजयेत् ॥१९॥अन्नं चतुर्विधं चैव निवेद्य परमात्मने ।कुण्डसंस्थितदेवेशं समिदिभ: सप्तभि: क्रमात् ॥२०॥आराध्य चरुशेषं च स्वयं प्राश्यापि वाग्यत: ।अङ्कुरानर्पयित्वा च गत्वा देवस्य संनिधिम् ॥२१॥पूजयित्वा च देवेशं यथापूर्वमतन्द्रित: ।मण्डपे च समागत्य जपस्तोत्रादि?भिर्निशाम् ॥२२॥नीत्वा जागरणेनैव प्रभाते स्त्रानपूर्वकम् ।विधारयन् सान्धमपि चात्मनापि यतात्मवान् ॥२३॥आगत्य मण्डपं तत्र द्वारतोरणपूर्वकम् ।सभाजनं विधायाथ कुम्भमण्डलयोरपि ॥२४॥निवेदनान्तं सकलं क्रियाजातां समाप्य च ।विशेषयजनं कृत्वा देवदेवस्य वै हरै: ॥२५॥सायंकाले तु संप्राप्ते कृत्वा सायंतनं विधिम् ।आराध्य भगवन्तं च वासुदेवं सनातनम् ॥२६॥कराब्जे शयनार्चाया ब्ध्वा मङ्लकौतुकम् ।आत्मनश्च करे बध्वा कौतुकं स्वर्णनिर्मितम् ॥२७॥प्रार्थयित्वा च तं देवं बहिर्निर्गमनाय च ।आरोप्य यानं देवेशं धाम नीत्वा प्रदक्षिणम् ॥२८॥आगत्य यागसदनं सौवर्णे विष्ठरोत्तमे ।मण्डलाभिमुखं देवमध्यास्याथ सभाजयेत् ॥२९॥परमान्नं निवेद्यैव कुग्भमण्डलयोरपि ।हुत्वा ?चाष्टोत्तरशतं मूलमन्त्रेण मन्त्रवित् ॥३०॥कुम्भाष्टके च परित: पूजयित्वेन्द्रपूर्वकान् ।बलिं च कुमुदासदिभ्यो लाकेकपालेभ्य एव च ॥३१॥दिक्ष्वष्टासु च विन्यस्य दिगीशेभ्यश्च सत्तम ।स्थापयित्वा च कलशान् पञ्चविंशातिसंख्यकान् ॥३२॥स्त्रापयित्वा च देवेशं शयने कलिप्ते पुरा ।शलीनां पञ्चभिर्भा रैस्तण्डुलैश्च तिलैरपि ॥३३॥विस्तीर्णप्रच्छदपटै: कल्पितै: कम्बलैरपि ।नानावर्णैर्महार्घैश्च सोपधानचतुष्टयै: ॥३४॥वयाध्रचर्म समास्तीर्य तस्योर्ध्वे क्षौमसंज्ञके ।शाययित्वा जगन्नाथं रक्षार्थं चायुधाष्टकम् ॥३५॥संस्थाप्य पूजयित्वाथ मुखवर्जं च वाससा ।देवताच्छाद्य कुम्भं च शिर:स्थाने निवेश्य च ॥३६॥नृत्तगीतादिभिश्चैव वेदानामपि घोषणै: ।जागरेण नयेद्रात्रिमनश्रन्नेव काश्यप ॥३७॥ब्राह्मे मुहूर्ते चोत्थाय कृत्वा [चैव प्रभातकम्] (प्राभातिकं तथा ?) ।विधानं च स्वसूत्रोक्तं गत्वा यागार्थमण्डपम् ॥३८॥द्वारावरणपूजादि सर्वं परिसमाप्य च ।स्थापयित्वाथ कलशान् पञ्चविंशतिसंख्यकान् ॥३९॥कुम्भमण्डलगं देवमाराध्य च जगन्मयम् ।करकस्थं च ?हेतीशं सभाज्य च सुदर्शनम् ॥४०॥कुम्भे चाष्टार्णमन्त्रेण हुत्वा चाज्यशताहुती: ।उत्थाप्य शयनाद्देवं भवभञ्जकमव्ययम् ॥४१॥वेद्यामानीयं संस्त्राप्य कलशै: स्थापितैरपि ।परिवेष्ट्य यथाशोभं विष्ठरे चोपवेश्य च ॥४२॥नीत्वा प्रदक्षिणं धाम कुर्यादुद्धोषणान्वितम् ।प्रवेश्य भगवद्ग्रेहं सर्वरत्नविचित्रिते ॥४३॥बाल[योगे](?)च पर्यङ्के मृद्वास्तरणसंस्कृते ।चनगरुकर्पूरधूपिते वासितेऽपि च ॥४४॥सुगन्धिभिश्च कुसुमैरामोदितदिगन्तरे ।उपधानसमायुक्ते महार्धक्षौमसंस्थिते ॥४५॥शाययित्वाथ तं देवं क्षौमेणाच्छादितोप(द्य चोप ?)रि ।रक्षां कृत्वाथ देवस्य हेतीशै: परित: सिथतै: ॥४६॥कुमुदादिगणेशांश्च स्थापयित्वा समन्तत: ।विज्ञाप्य देवदेवं तं गाथया वक्ष्यमाणया ॥४७॥लक्ष्मीनाथ जगन्नाथ सर्वलोकैकसंश्रय ।भक्तानामार्तिहरणे सर्वदा दीक्षित प्रभो ॥४८॥योगनिद्रां निषेवस्व देव मासचतुष्टयम् ।सर्वलोकहितार्थाय कृतार्थीकुरु मां प्रभो ॥४९॥इति विज्ञापनं कृत्वा प्रणम्य च गृहं व्रजेत् ।तस्मिन् दिने प्रभाते च कल्याणार्चां महामते ॥५०॥निर्गमय्य सभास्थाने सर्वशोभासमन्विते ।विष्टरं संनिवेश्याथ पूजयित्वाभिषिच्य च ॥५१॥महाहविर्निवेद्याथ सर्वव्यञ्चनसंयुतम् ।माधवं यानमारोप्य सर्वभूषणभूषितम् ॥५२॥ग्रामं परीत्य सर्वत्र धाम्रि (म्र: ?) सर्वावृतीरपि ।प्रदक्षिणं परिभ्रम्य निवेश्य च यथापुरम् ॥५३॥निर्गत्य स्वगृहं गत्वा सहितो वैष्णवैर्द्विजै: ।भुक्त्वा यथेष्टं तेभ्याश्च दद्याच्छक्या च दक्षिणाम् ॥५४॥आरम्य तस्माद्दिवसाच्छयान्स्य मधुद्विष: ।विशेषाराधनं कुर्यादुत्थानाविधि काश्यप ॥५५॥प्रतिमासं विधातव्यं सिते पक्षे श्रिय: पते: ।द्वादश्यां देवदेवस्य चतु:स्थानसभाजनम् ॥५६॥सिते पक्षे च नभसि द्वादश्यां परिवर्तनम् ।पार्श्वयोदेवदेवस्य कारयित्वा सभाजयेत् ॥५७॥ऐषस्य शुद्धद्धादश्यामासीनं च प्रकल्पयेत् ।ऊर्जे मासि सिते पक्षे द्वादश्यां मधुसूदनम् ॥५८॥चतु:स्क्थानेषु संपूज्य पूर्वोक्तेन विधानत: ।उत्थाच यथापूर्वं कलशैरभिषिच्य च ॥५९॥अलंकृत्य निवेद्यानतं सभाज्य च सुरेश्वरम् ।सर्ववीथी: परिभ्राम्य मन्दिरान्त:(रं तु ?) प्रवेशयेत् ॥६०॥श्याने जगतां नाथे व्रतानि शृणु काश्यप ।कुशोदकं पञ्चगव्यं प्रापणं चानुसेवनम् ॥६१॥वर्ज्यानि शृणु विप्रोदेर्दिवास्वाप: पराशनम् ।योषित्सेवा तैलसेवा कांस्यपात्रे च भोजनम् ॥६२॥मांसाशनममून्याहुर्वज्यांनि द्विज्पुंगव ।वैष्णवांश्च यथाशक्ति भोजयेद्दक्षिणामपि ॥६३॥दद्यात्तेभ्यश्च तत्प्रीत्या प्रति: स्यात् पुरुषोत्तम: ।अथ कृष्णस्य विधिवदाराधनविधिं शृणु ॥६४॥श्रावणे मासि पक्षे च कृष्णेऽष्टम्यां प्रजापते: ।नक्षत्रे वसुदेवस्य देवक्यां भगवान् हरि: ॥६५॥सर्वलोकहितार्थाय भूमेर्भारावतारणम् ।कर्तुमाविरभूद् भूमौ मध्यरात्रे महामते ॥६६॥तज्जन्मदिवसे पूजां सविशेषं समाचरेत् ।तस्य पूर्वं सप्तमेऽहि पञ्चमे वाङ्कुरार्पणम् ॥६७॥विधय मण्डपं कुर्याद्यथापूर्वमलंकृतम् ।कुम्भमण्डलसंस्थानं यथापूर्वं विधाय च ॥६८॥सप्तम्यामथ सायाह्ने समाराध्य जगद्गुरुम् ।विज्ञाप्य देवदेवाय समाराधनकर्म तत् ॥६९॥नवनीलघनच्छायहरेर्वा सर्वदेहिन: ।चतुर्भुजस्य वा हस्ते देवकीतनुजन्मन: ॥७०॥स्वर्णत्रिनिष्ककं सूत्रं बध्वा मङ्गलकौतुकम् ।आरोष्य यानं सौवर्णं परिभ्राम्य प्रदक्षिणम् ॥७१॥आनीय मण्डपं तत्र जाम्बूनदमये शुभे ।सिंहसने समारोप्य सभाज्य च यथाक्रमम् ॥७२॥द्वारतोरणकुम्भानां मण्डलस्य च पूजनम् ।विधायोक्तविधानेन नैवेद्यान्ते विधाय च ॥७३॥कुण्डेश(च?) द्वादशार्णेन मन्त्रेण विधिवच्चरेत् ।स्थापयित्वा च कलशान् पञ्चविंशतिसंमितान् ॥७४॥स्त्रापयित्वा च तैर्देवं यथापूर्वं प्रकल्पिते ।शालीनां दशभारेण तत्प्रमाणैश्च तण्डुलै: ॥७५॥तिलैरपि समास्तीर्णैर्नानावर्णैश्च कम्बलै: ।आस्तृते शयने देवं शाययित्वा जगन्मयम् ॥७६॥तत्समीपे समासीनो जितं त इतिपूर्पकै: ।द्वादशार्णजपैव नीतनृत्तादिभिस्तथा ॥७७॥रजनीं जागरेणैव नीत्वा प्रातश्च तद्दिने ।स्त्रात: शुक्लाम्बरधर: स्त्रग्वी च समलंकृत: ॥७८॥यागमण्डपमासाद्य द्वारपूजनपूर्वकम् ।कुम्भमण्डलदेवस्य नैवेद्यान्तं सभाजनम् ॥७९॥कृत्वा शयानं च विभुं पुण्डरीकायतेक्षणम् ।श्यामलं बालपुषं सुस्मिताधरमच्युतम् ॥८०॥उत्थाप्य जगतां नाथं मण्डपे विनिवेश्य च ।महाहवि:प्रदानान्तं चतु:स्थानस्थितस्य च ॥८१॥विधाय यजनं मूलबेरेऽपि सविशेषत:(?) ।पूर्वाच्च द्विगुणैभोगैर्नैवेद्यान्तै: सभाजनम् ॥८२॥कृत्वा च दिवसं सर्वं निशापूर्वार्धमेव च ।गीतैर्नृत्तैर्बहुविधैर्देदानां श्रावणेन च ॥८३॥इतिहासपुराणानि(नां?) वाचनेन क्षपां नयेत् ।अर्धरात्रे स संप्राप्ते पूजयित्वा सुरेश्वरम् ॥८४॥स्नानवेदिं समानीय गन्धतैलं सुसंस्कृतम् ।उपाकृतं शातकुम्भद्रोणीषु द्विजपुंगव ॥८५॥शालितण्डुलभाराणां दशकै: कल्पिते भुवि ।राशौ सुनिहितं (ते?) पात्रे हेमकलृप्ते निषिच्य च ॥८६॥पुण्याहं वाचयित्वा च वैष्णवैद्विजपुंगवै: ।सशङ्खभेरीसंनादैर्देवमूध्रिं च सेचयेत् ॥८७॥अवशिष्टं च सर्वेषां वैष्णवानां शिरस्स्वपि ।गायकानां नर्तकानां ताण्डवानां च सर्वश: ॥८८॥देशान्त[रगतानां च] (रादगतानां ?) वेश्यानामपि सर्वश: ।हनूमदादिभक्तैश्च सह मामन्दिरेष्वपि ॥८९॥निक्षिप्य हेमद्रोणीषु निषिच्चेत् परिचारकै: ।ये धारयन्ति तत्तैलं शिरोभिर्मनुजा भुजि ॥९०॥नीरोगा: सुसमृद्धाश्च सर्वे ते यावदायुषम् ।इह? भोगान् परान् भुक्त्वा यान्ति चान्ते परं पदम् ॥९१॥माषवचूर्णैश्च देवस्य कल्ययित्वाङ्गमर्दनाम् ।तैलापनयनं कृत्वा गन्धामलकपूर्वकै: ॥९२॥स्त्रापयित्वा तदन्ते च यथाशास्त्रं प्रकल्पिते ।एकशीतिघटाम्भो?भिरभिषिच्य च तन्मय: ॥९३॥यशाशेभमलंकृत्य कृष्णं यादवपुंगवम् ।बलभद्रेण सहितमथवा केवलं द्विज ॥९४॥कुम्भमण्डलपूर्वादि पूवनं कारयेद् द्विज ।निवेद्य पायसादीनि सर्वाण्यन्नोत्तमानि च ॥ ९५॥नवनीतं च सुबहु हेमपात्रे निवेद्य च ।शुष्ठीपूर्वं (चूर्णं?) शर्करण मिलितं च निवेदयेत् ॥९६॥क्षीरं घृतं च सुव्रहु कदल्यादिफलानि च ।जाम्बवानि फला[न्यद्य(?) [यत्तत्संपाद्यते नरै: ॥९७॥तत्सर्वं देवदेवाय देवकीसूनवे द्विज ।निवेदयेदभक्तियुक्त: श्रद्धापूतेन चेतसा ॥९८॥क्षीरं निवेदितं तस्मै तस्मिन् काले द्विजोत्तम ।तावत्कालमनश्रन्त्य: स्नाता: शुद्धाम्बरा: स्त्रिय: ॥९९॥पिबन्ति भक्तित्तसंयुक्ता वन्ध्योश्चत्तनयान् बहून् ।अरोगांश्च सुरूपांश्च विदुषो जनयन्ति ता: ॥१००॥देवं च यानमारोप्य शिबिकादिं स्वलंकृतम् ।प्रदक्षिणं परिभ्राम्य ग्रामं मन्दिरमेव च ॥१०१॥सर्वमङ्लसंयुक्तं तूर्यरावादिसंयुतम् ।प्रवेशयेदभगृहं यथास्थानं निवेशयेत् ॥१०२॥तत: प्रभृति (त आरभ्य?) दिवसान् त्रीन्वा पञ्चाथ सप्त वा ।उत्सवं कारेयद्विद्वान् यथाश्रद्धं यथावसु ॥१०३॥तथा वसन्तसमये मधुमासे द्विजोत्तम ।सिते पक्षे नवम्यां च तारकेऽदितिदैवते ॥१०४॥प्रादुर्भूतं च मध्याहे मुहूर्तेऽभिजिति द्विज ।देव्या च सीतया सार्धं लक्ष्मणेनानुजेन च ॥१०५॥आराधयेज्जगन्नाथं सर्वदेवेश्वरेश्वरम् ।रामं दशरथाज्जातं कौसल्यायां महामते ॥१०६॥रावणस्य वधार्थाय(र्थं तु?) राक्षसेशस्य काशयप ।संभूतं मानुषे लोके बाणाबाडुं धनुर्धरम् ॥१०७॥बाणबाणासनधरं राघवं लक्ष्मणाग्रजम् ।पूर्वोक्तेन विधानेन तस्मिन् काले समर्चयेत् ॥१०८॥इत्येवं तु भिदा पूर्वादवशिष्टं समं द्विज ।तदे(थै?)व लक्ष्मीसहितं नृसिंहवपुषं हरिम् ॥१०९॥[हिरण्याक्षासुरगणं धरण्या चाङ्कसंस्थया] (?) ।[सार्धमुद्धृतया देव्या (?)] यजेत्सर्वार्थसिद्धये ॥११०॥तपस्याश्वयुजे वापि सिते लक्षभीधरं हरिम् ।यजेत विधना तेन पूर्वोक्तविधिना द्विज ॥१११॥कार्तिके मासि च तथा पक्षे शुक्लेतरे(?)द्विज ।द्वादश्यां देवदेवंशं प्रबोध्य पुरुषोत्तमम् ॥११२॥अर्चयेचच यथा देवं कुम्भादिषु च काशयप ।कार्तिक्यां पौर्णमास्यां च सर्वदेवेश्वरं हरिम् ॥११३॥आराध्य जगतां नाथं संचोदितविधानत: ।दीपिका दर्शयेच्चैव प्रदोषे शेषशायिने ॥११४॥गोपुरेषु च सर्वेषु प्राकारवलयेषु च ।द्वारदेशेषु सर्वेषु खात्वा(?)स्तम्भान् विशेषत: ॥११५॥मण्डपेषु च सर्वेषु दीपानारोपयेत् प्रभो: ।कल्पयित्वा च कूटादिमध्?ये मध्ये च दीपिका: ॥११६॥गव्येनाज्येन चारोप्य देवदेवाय दर्शयेत् ।मूलबेरस्य पुरत: पात्रं स्वर्णमयं द्विज ॥११७॥गव्याज्याढकसंपूर्णं [फल(?)]तन्तुदशावृतम् ।धान्यराशौ तु संस्?थाप्य तस्मिन् दीपं च पूजयेत् ॥११८॥उपूपादीनि सर्वाणि भक्ष्याण्यपि निवेदयेत् ।मासर्क्षेषु च सर्वेषु विषुवायनयोस्तथा ॥११९॥संक्रान्तिषु च सर्वेषु(सर्वासु ?) द्वादशीषु विशेषत: ।श्रवणे च पुनर्वस्वो: फल्गुनीषूत्तरेषु च ॥१२०॥विशेषयजनं कार्यं विष्णोर्तिष्णो: सुरद्विषाम्॥इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायांविशेषदिवसपूजा?[धिधिर्नाम] षोडशोऽध्याय:॥ N/A References : N/A Last Updated : January 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP