ब्रह्मकाण्डः - अध्यायः २९
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
प्रवहानन्तरान्वक्ष्ये शृणु पक्षीन्द्रसत्तम ।
यो धर्मो ब्रह्मणः पुत्रो ह्यादिसृष्टौ त्वगुद्भवः ॥१॥
सज्जनान्सौम्यरूपेण धारणाद्धर्मनामकः ।
स एव सूर्यपुत्रोभूद्यमसंज्ञामवाप सः ।
पापिनां शिक्षकत्त्वात्स यम इत्युच्यते बुधैः ॥२॥
श्रीकृष्ण उवाच ।
प्रह्लादानन्तरं गङ्गा भार्या वै वरुणस्य च ।
प्रह्लादादधमा ज्ञेया महिम्ना वरुणाधिका ॥३॥
स्वरूपादधमा ज्ञेया नात्र कार्या विचारणा ।
ज्ञानस्वरूपदं विष्णुं यमो जानाति सर्वदा ॥४॥
अतो गङ्गेति सा ज्ञेया सर्वदा लोकपावनी ।
भक्त्या विष्णुपदीत्येव कीर्तिता नात्र संशयः ॥५॥
या पूर्वकाले यज्ञलिङ्गस्य विष्णोः साक्षाद्धरेर्विक्रमतः खगेन्द्र ।
वामस्य पादस्य नखाग्रतश्च निर्भिद्य चोर्ध्वाण्डकटाहखण्डम् ॥६॥
तदुदरमतिवेगात्सम्प्रविश्यावहन्तीं जगदघततिहन्तुः पादकिञ्जल्कशुद्धाम् ।
निखिलमलनिहन्त्रीं दर्शनात्स्पर्शनाच्च सकृदवगहनाद्वा भक्तिदां विष्णुपादे ।
शशिकरवरगौरां मीननेत्रां सुपूज्यां स्मरति हरिपदोत्थां मोक्षमेति क्रमेण ॥७॥
इन्द्रोपि वायुकरमर्दितवायुकूटबिन्दुं च प्राश्य शिरसि ह्यसहिष्णुमानः ।
भागीरथी हरिपदाङ्कमिति स्म नित्यं जानन्महापरमभागवतप्रधानः ।
भक्त्या च खिन्नहृदयः परमादरेण धृत्वा स्वमूर्ध्नि परमो ह्यशिवः शिवोऽभूत् ॥८॥
भागीरथ्याश्च चत्वारि रूपाण्यासन्खगेश्वर ।
महाभिषग्जनेन्द्रस्य भार्या तु ह्यभिषेचनी ॥९॥
द्वितीयेनैव रूपेण गङ्गा भार्या च शन्तनोः ।
सुषेणा वै सुषेणस्य भार्या सा वानरी स्मृता ॥१०॥
मण्डूकभार्या गङ्गा तु सैव मण्डूकिनी स्मृता ।
एवं चत्वारी रूपाणि गङ्गाया इति किर्तितमम् ॥११॥
आदित्याच्चैव गङ्गातः पर्जन्यः समुदाहृतः ।
प्रवर्षति सुवैराग्यं ह्यतः पर्जन्यनामकम् ॥१२॥
शरंवराय पञ्चजन्याच्च पञ्च हित्वा जग्ध्वा गर्वकं षट्क्रमेण ।
स्वबाणस्य स्वहृदि संस्थितस्य भजेत्सदा नैव भक्तिं विषं च ॥१३॥
लिङ्गं पुष्टं नैव कार्यं सदैव लिङ्गं पुष्टं कार्यमेवं सदापि ।
योनौ सक्तिर्नैव कार्या सदापि योनौ मुक्तेऽसंगतो याति मुक्तिम् ॥१४॥
वैराग्यमेवं प्रकारोत्येव नित्यमतः पर्जन्यस्त्वन्तकः पक्षिवर्य ।
एतावता शरभाख्यो महात्मा स चान्तरो स तु पर्जन्य एव ॥१५॥
शश्वत्केशा यस्य गात्रे खगेन्द्र प्रभास्यन्ते शरभाख्यो पयोतः ।
यमस्य भार्या श्यामला या खगेन्द्र यस्मात्सदा कलिभार्यापिया च ॥१६॥
मत्वा सम्यक्मानसं या करोति ह्यतश्च सा श्यामलासंज्ञकाभूत् ।
मलं वक्ष्ये हरिभक्तेर्विरोधी सुलोहपात्रे सन्निधानं च तस्य ॥१७॥
तद्वैष्णवैस्त्याज्यमेवं सदैव वस्त्रं दग्धं सन्धिजं चैव जन्यम् ॥१८॥
चिकित्सितं परदुः खं खगेन्द्र दरेर्भक्तैस्त्याज्यमेवं सदैव ॥१८॥
नोच्चाश्च ते हरिभक्तेर्विहीनास्तेषां संगो नैव कार्यः सदापि ।
पुराणसंपर्कविसर्जिनं च पुराणतालं च पुराणवस्त्रम् ॥१९॥
सुजीर्णकन्थाजिनमेखलं च यज्ञोपवीतं च कलिप्रियं च ।
प्रियं गृहं चोर्णविता नकं च समित्कुशैः पूरितं कुत्सितं च ॥२०॥
सर्वं चेत्कलिभार्याप्रियं च नैव प्रियं शार्ङ्गपाणेः कदाचित् ।
कांस्ये सुपक्वं यावनालस्य चान्नं तुषः पिण्याकं तुम्बबिल्वे पलाण्डुः ॥२१॥
दीर्घं तक्रं स्वादुहीनं कडूष्टणमेते सर्वे कलिभार्याप्रियाश्च ।
सुदुर्मुखं निन्दनं चार्यजानां सतोवमत्यात्मजानां प्रसह्य ॥२२॥
सुपीडनं सर्वदा भर्तृवर्गे गृहस्थितव्रीहिवस्त्रादिचौर्यात् ।
प्रकीर्णभूतान्मूर्धजान्संदधानं करैर्युतं देवकलिप्रियं च ॥२३॥
इत्यादि सर्वं कलिभार्याप्रियञ्च सुनिर्मलं प्रिकरोत्येव सर्वम् ।
अतश्च सा श्यामलेति स्वसंज्ञामवाप सा देवकी संबभूव ॥२४॥
युधिष्ठिरस्यैव बभूव पत्नीसंभाविता तत्र च देवकी सा ।
चन्द्रस्य भार्या रोहिणी वै तदेयमश्विन्यादिभ्योऽह्यधिका सर्वदैव ॥२५॥
रोणीं धृत्वा रोहति योग्यस्थानं तस्माच्च सा रोहिणीति प्रसिद्धा ।
आदित्यभार्या नाम संज्ञा खगेन्द्र ज्ञेया सा नारायणस्य स्वरूपा ॥२६॥
संजानातीत्येव संज्ञामवाप संज्ञेति लोके सूर्य भार्या खगेन्द्र ।
ब्रह्मण्डस्य ह्यभिमानी तु देवो विराडिति ह्यभिधामाप तेन ॥२७॥
गङ्गादिषट्कं सममेव नित्यं परस्परं नोत्तमं नाधमं च ।
प्रधानाग्नेः पाविकान्यैव गङ्गा सदा शुभा नात्र विचार्यमस्ति ॥२८॥
आसां ज्ञानत्पुण्यमाप्नोति नित्यं सदा हरिः प्रीयते केशवोलम् ।
गङ्गादिभ्यो ह्यवराह्यग्निजाया स्वाहासंज्ञाधिगुणा नैव हीना ॥२९॥
स्वाहाकारो मन्त्ररूपाभिमानी स्वाहेति संज्ञामाप सदैव वीन्द्र ।
अग्नेर्भार्यातो बुद्धिमान् संबभूव ब्रह्माभिमानी चन्द्रपुत्रो बुधश्च ॥३०॥
बुद्ध्याहरद्वै राष्ट्रजातं च सर्वं धृतं त्वतो बुधसंज्ञामवाप ।
एवं चाभूदभिमन्युर्महात्मा सुभद्राया जठरे ह्यर्जुनाच्च ॥३१॥
कृष्णस्य चन्द्रस्य यमस्य चांशैः स संयुतस्त्वश्विनोर्वै हरस्य ।
स्वाहाधमश्चन्द्रपुत्रो बुधस्तु पादारविन्दे विष्णुदेवस्य भक्तः ॥३२॥
नामात्मिका त्वश्विभार्या उषा नाम प्रकीर्तिता ।
बुधाधमा सा विज्ञेया स्वाहा दशगुणाधमा ॥३३॥
नकुलस्य भार्या मागधस्यैव पुत्री शल्यात्मजा सहदेवस्य भार्या ।
उभे ह्येते अश्विभार्या ह्युषापि उपासते षड्गुणं विष्णुमाद्यम् ।
अतोऽप्युषासंज्ञका सा खगेन्द्र अनन्तराञ्छृणु वक्ष्ये महात्मन् ॥३४॥
ततः शक्तिः पृथिव्यात्मा शनैश्चरति सर्वदा ।
अतः शनैश्चरो नाम उषायाश्च दशाधमाः ॥३५॥
कर्मात्मा पुष्करो ज्ञेयः शनरथ यमो मतः ।
नयाभिमानी पुरुषः किञ्चिन्नम्नो दशावरः ॥३६॥
हरिप्रीतिकरो नित्यं पुष्करे क्रीडते यतः ।
अतस्तु पुष्कलो नाम लोके स परिकीर्तितः ॥३७॥
हरि प्रीतिकरान्धर्मान्वक्ष्ये शृणु खगाधिप ।
प्रातः काले समुत्थाय स्मरेन्नारायणं हरिम् ॥३८॥
तुलसीवन्दनं कुर्याच्छ्रीविष्णुं संस्मरेत्खग ।
विण्मूत्रोत्सर्गकाले च ह्यपानात्मककेशवम् ॥३९॥
त्रिविक्रमं शौचकाले गङ्गापानकरं हरिम् ।
दन्तधावनकाले तु चन्द्रान्तर्यामिणं हरिम् ॥४०॥
मुखप्रक्षालने काले माधवं संस्मरेत्खग ।
गवां कण्डूयने चैव स्मरेद्गोवर्धनं हरिम् ॥४१॥
सदा गोदोहने काले स्मरेद्गोपालवल्लभम् ।
अनन्तपुण्यार्जितजन्मकर्मणां सुपक्वकाले च खगेन्द्रसत्तम ॥४२॥
स्पर्शे गवां चैव सदा नृणां वै भवत्यतो नात्र विचार्यमस्ति ।
यस्मिन् गृहे नास्ति सदोत्तमा च गौर्यङ्गणे श्रीतुलसी च नास्ति ॥४३॥
यस्मिन् गृहे देवमहोत्सवश्च यस्मिन् गृहे श्रवणं नास्ति विष्णोः ।
तत्संसर्गाद्याति दुः खादिकं च तस्य स्पर्शो नैव कार्यः कदापि ॥४४॥
गोस्पर्शनविहीनस्य गोदोहनमजानतः ।
गोपोषणविहीनस्य प्राहुर्जन्म निरर्थकम् ॥४५॥
गोग्रासमप्रदातुश्च गोपुष्टिं चाप्यकुर्वतः ।
गतिर्नास्त्येव नास्त्येव ग्रामचाण्डालवत्स्मृतः ॥४६॥
वत्स्यस्य स्तनपाने च बालकृष्णं तु संस्मरेत् ।
दधिनिर्मन्थने चैव मन्थाधारं स्मरेद्धरिम् ॥४७॥
मृत्तिकास्नान काले तु वराहं संस्मरेद्धरिम् ।
पुण्ड्राणां धारणे चैव केशवादींश्च द्वादश ॥४८॥
मुद्राणां धारणे चैव शङ्खचक्रगदाधरम् ।
पद्मं नारायणीं मुद्रां क्रुद्धोल्कादींश्च संस्मरेत् ॥४९॥
श्रीरामसंस्मृतिं चैव संध्याकाले खगोत्तम ।
अच्युतानन्तगोविन्दाञ्छ्राद्धकाले च संस्मरेत् ॥५०॥
प्राणादिकपञ्चहोमेचानिरूद्धादींश्च संस्मरेत् ।
अन्नाद्यर्पणकाले तु वासुदेवं च संस्मरेत् ॥५१॥
अपोशनस्य काले तु वायोरन्तर्गतं हरिम् ।
बस्त्रधारणकाकाले तु उपेन्द्रं संस्मरेद्धरिम् ॥५२॥
यज्ञोपवीतस्य च धारणे तु नारायणं वामनाख्यं स्मरेत्तु ।
आर्तिक्यकाले च तथैव विष्णोः सम्यक्स्मरेत्पर्शुरामाख्यविष्णुम् ॥५३॥
अपोशनेवैश्वदेवस्य काले तदन्यहोमादिषु भस्मधारणे ।
स्मरेत्तु भक्त्या परमादरेण नारायणं जामदग्न्याख्यरामम् ॥५४॥
त्रिवारतीर्थग्रहणस्य काले कृष्णं रामं व्यासदेवं क्रमेण ।
शङ्खोदकस्योद्धरणे चैव काले मुकुन्दरूपं संस्मरेत्सर्वदैव ॥५५॥
ग्रासेग्रासे स्मरणं चैव कार्यं गोविन्दसंज्ञस्य विशुद्धमन्नम् ।
एकैकभक्ष्यग्रहणस्य काले सम्यक्स्मरेदच्युतं वै खगेन्द्र ॥५६॥
शाकादीनां भक्षणे चैव काले धन्वन्तरिं स्मरेच्चैव नित्यम् ।
तथा परान्नस्य च भोगकाले स्मरेच्च सम्यक्पाण्डुरङ्गं च विष्णुम् ॥५७॥
हैयङ्गवीनस्य च भक्षणे वै सम्यक्स्मरेत्ताण्डवाख्यं च कृष्णम् ।
दध्यन्नभक्षे परमं पुराणं गोपालकृष्णं संस्मरेच्चैव नित्यम् ॥५८॥
दुग्धान्नभोगे च तथैव काले सम्यक्स्मरेच्छ्रीनिवासं हरिं च ।
सुतैलसर्पिः षु विपक्वभक्षसंभोजने संस्मरेद्व्यङ्कटेशम् ॥५९॥
द्राक्षासुजम्बूकदलीरसालनारिङ्गदाडिम्बफलानि चारु ।
स्मरेत्तु रम्भोत्तमनारिकेलधात्रीसुभोगे खलु बालकृष्णम् ॥६०॥
सुपानकस्यैव च पानकाले सम्यक्स्मरेन्नारसिंहाख्यविष्णुम् ।
गङ्गामृतस्यैव च पानकाले गङ्गातातं संस्मरेद्विष्णुमेव ॥६१॥
प्रयाणकाले संस्मरेत्तार्क्ष्यवाहं नारायणं निर्गुणं विश्वमूर्तिम् ।
पुत्रादीनां चुंबने चैव काले सुवेणुहस्तं संस्मरेत्कृष्णमेव ॥६२॥
सुखङ्गकाले स्वस्त्रियश्चैव नित्यं गोपि कुचद्वन्द्वविलासिनं हरिम् ।
तांबूलकाले संस्मरैच्चैव नित्यं प्रद्युम्नाख्यं वासुदेवं हरिं च ॥६३॥
शय्याकाले संस्मरेच्चैव नित्यं संकर्षणाख्यं विष्णुरूपं हरिं च ।
निद्राकाले संस्मरेत्पद्मनामं कथाकाले व्यासरूपं हरिं च ॥६४॥
सुगानकाले संस्मरेद्वेणुगीतं हरिं हरिं प्रवदेत्सर्वदैव ।
श्रीमत्तुलस्याश्छेदने चैव काले श्रीरामरामेति च संस्मरेत्तु ॥६५॥
पुष्पादीनां छेदने चैव काले सम्यक स्मरेदेत्कपिलाख्यं हरिं च ।
प्रदक्षिणेगारुडान्तर्गतं च हरिं स्मरेत्सर्वदा वै खगेन्द्र ॥६६॥
प्रणमकाले देवदेवस्य विष्णोः शेषान्तस्थं संस्मरेच्चैव विष्णुम् ।
सुनीतिकाले संस्मरेन्नारसिंहं नारायणं संसंमरेत्सर्वदापि ॥६७॥
पूर्तिर्यदा क्रियते कर्मणां च सम्यक्स्मरेद्वासुदेवं हरिं च ।
एवं कृतानि कर्माणि हरिप्रीतिकराणि च ॥६८॥
सम्यक्प्रकुर्वन्नेतानि पुष्करो हरिवल्लभः ॥६९॥
एतस्मादेव पक्षीश कर्म यत्समुदाहृतं पुष्कराख्यानमतुलं शृणोति श्रद्धयान्वितः ।
हरिप्रीतिकरे धर्मे प्रीतियुक्तो भवेत्सदा ॥७०॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे कृष्णगरुडसंवादे तत्त्वरहस्यं नामैकोनत्रिंशोध्यायः
समाप्तमिदं गरुडमहापुराणम् ।
इति श्रीगरुडमहापुराणं समाप्तम् ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP