संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|ब्रह्मकाण्डः (मोक्षकाण्डः)| अध्यायः २६ ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ ब्रह्मकाण्डः - अध्यायः २६ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः २६ Translation - भाषांतर कन्योवाच ।श्रीनिवासः किमर्थं वै आगतोत्र वदस्व मे ।शेषाचलोपि कुत्रा भूत्कदायातश्च पापहा ।स्वामिपुष्करिणी चात्र किमर्थं ह्यगता वद ॥१॥जैगीषव्य उवाच शृणु भद्रे महाभागे व्यङ्कटेशस्य चागमम् ।आवयोर्देवि पापानि विषमं यान्ति भामिनि ॥२॥आसीत्पुरा हिरण्याक्षः काश्यपो दितिनन्दनः ।सनकादेश्च वाग्दण्डाद्द्वितीयद्वारपालकः ॥३॥बभूव दैत्ययोनौ च देवानां कण्टको बली ।संजीवो विजयः प्रोक्तो हरिभक्तो महाप्रभुः ॥४॥हरिण्याक्षः स्वयं दैत्यो हरिभक्तविदूषकः ।एतादृशो हिरण्याक्षस्तपस्तप्तुं समुद्यतः ॥५॥तदा माता दितिर्देवी हिरण्याक्षमुवाच सा ।दितिरुवाच ।वत्सलस्त्वं महाभागमा तपस्वाष्टहायनः ॥६॥त्वं मा ददस्व दुः खं मे पालयिष्यति कोविदः ।क्षणमात्रं न जीवामि त्वां विना जीवनं न हि ॥७॥मा तप त्वं महाभाग मम जीवनहेतवे ।एवमुक्तस्तु मात्रा स विजयोवशतोब्रवीत् ॥८॥हिरण्याक्षो मातरं प्राह जालं हित्वा विष्णोर्भजनेऽलं कुरुष्व ।मयिस्नेहं पुत्रहेतोर्विरूढं सुखदुः खे चेह लोके परत्र ॥९॥यावत्स्नेहं मयि मातः करोषि तावत्क्लेशं शाश्वतं यास्यसि त्वम् ।मातश्च ते मयि पुत्रत्वबुद्धिस्त्वय्यप्येषा मातृबुद्धिर्ममापि ॥१०॥ताते पूज्ये पितृबुद्धिर्ममास्ति तस्मिंस्तुते भर्तृबुद्धिर्हि मिथ्या ।निर्माति यस्माद्धरिरेव सर्वं सम्यक्पाता नियतोऽसौ मुरारिः ॥११॥अतो हि माता हरिरेव सर्वदा त्वन्यासां वै मातृता चोपचारात् ।निर्मातृत्वं यदि मुख्यं त्वयि स्याद्द्रोणादीनां जननी का वदस्व ॥१२॥मातृत्वं वै यदि मुख्यं त्वयि स्याद्धात्रादीनां जननी का वदस्व ।यतः सदा याति जगत्तत्तो हरिः सदा पिता विष्णुरजः पुराणः ॥१३॥सदा पिता मुख्यपिता यदि स्याद्गर्भस्थबाले पालकः को वदस्व ।मातापित्रोः पालकत्वं यदि स्यात्कूर्मादीनां पालकौ कौ वदस्व ॥१४॥मातापित्रोः पालकत्वं यदि स्यात्कृपादीनां रक्षकौ कौ वदस्व ।पुन्नामकान्नारकाद्देह भजान्तस्मात्त्रातापुत्रविष्णुः पुराणः ॥१५॥न तारकोहं नरकाच्च सुभ्रूर्न वै भर्ता नापि पित्रादयश्च ।न वै माता नानुजादिश्च सर्वः सर्वत्राता विष्णुरतो न चान्यः ॥१६॥मायां मदीयां ज्ञानशस्त्रेण च्छित्वा भक्त्या हरेः स्मरणं त्वं कुरुष्व ।यद्भक्तिरूपूर्वं स्मरणं नाम विष्णोस्तत्सर्वथा पापहरं च मातः ॥१७॥यो वा भक्त्या स्मरणं नाम विष्णोः करोत्यसौ पापहरो भविष्यति ।अयं देहो दुर्ल्लभः कर्मभूमौ तत्रापि मध्ये भजनं विष्णुमूर्तेः ॥१८॥आयुर्गतं व्यर्थमेव त्वदीयं शीघ्रं भजेः श्रीनिवासस्य पादम् ।उपदिश्यैवं मातरं पुत्रवर्यो दैत्यावेशात्सोभवद्वै तपस्वी ॥१९॥चतुर्मुखं प्रीणयित्वैव भक्त्या ह्यवध्यत्वं प्राप तस्मान्महात्मा ।ततो भूमिं करवद्वेष्टयित्वा निन्ये तदा दैत्यवर्यो महात्मा ॥२०॥श्रीमुष्टदेशे प्रादुरासीद्धरिस्तु वाराहविष्णुस्त्वजनः पुराणः ।भित्त्वाचाब्धिं विविशे तं महात्मा रसातले संस्थितं भूतलं च ॥२१॥स्वदंष्ट्राग्रे स्थापयित्वाऽजगाम तदागमादागतो दैत्यवर्यः ।तं कर्णमूले ताडयित्वा जघान प्रसादयामास च पूर्ववद्भुवम् ॥२२॥सुदिग्गजान्स्थापयित्वा च विष्णुः श्रीमुष्टे वै संस्थितः श्रीवराहः ।तदा हरिश्चिन्तयामास विष्णुर्भक्त्या मदीयं मानुषं देहमद्य ॥२३॥आराधयिष्यन्ति च मां क्व एते तेषां दयां कुत्र वाहं करिष्ये ।एवं हरिश्चिन्तयित्वा सुकन्ये वैकुण्ठलोकादचलं शेष संज्ञम् ।वीन्द्रस्कन्धे स्थापयित्वा स्वयं च समागतोभूद्भूतलं भूतलेशः ॥२४॥सुवर्णमुखरीतीरमारभ्य गरुडध्वजः ।श्रीकृष्णवेणीपर्यन्तं स्थापया मास तं गिरिम् ॥२५॥गिरेः पुच्छे तु श्रीशैलं मध्यमेऽहोबलं स्मृतम् ।मुखं च श्रीनिवासस्य क्षेत्रं च समुदाहृतम् ॥२६॥अल्पेन तपसाभीष्टं सिध्यत्यस्मिन्नहोबले ।गङ्गादिसर्वतीर्थानि पुण्यानि ह्यत्र संति वै ॥२७॥य एनं सेवते नित्यं श्रद्धाभक्तिसमन्वितः ।ज्ञानार्थी ज्ञानमाप्नोति द्रव्यार्थी द्रव्यमाप्रुयात् ॥२८॥पुत्रार्थी पुत्रमाप्नोति नृपो राज्यं च विन्दति ।यंयं कामयते मर्त्यस्तन्तमाप्नोति सर्वथा ॥२९॥चिन्तितं साध्यते यस्मात्तस्माच्चिन्तामणिं विदुः ।पुष्करिण्याश्च बाहुल्याद्गिरावस्मिन्सरः सु च ।पुष्कराद्रिरिति प्राहुरेवं तत्त्वार्थवेदिनः ॥३०॥शातकुंभस्वरूपत्वात्कनकाद्रिं च तं विदुः ।वैकुण्ठादागतेनैव वैकुण्ठाद्रिरिति स्मृतः ॥३१॥अमृतैश्वर्यसंयुक्तो व्यङ्कटाद्रिरिति स्मृतः ।व्यङ्कटेशस्य शैलस्य माहात्म्यं यावदस्ति हि ॥३२॥तावद्वक्तुं समग्रेण न समर्थश्चतुर्मुखः ।व्यङ्कटाद्रौ परां भक्तिं ये कुर्वन्ति दिनेदिने ।पङ्गर्जङ्घाल एव स्यादचक्षुः पद्मलोचनः ॥३३॥मूको वाग्मी भवेदेव बधिरः श्रावको भवेत् ।वन्ध्या स्याद्बहुपुत्रा च निर्धनः सधनो भवेत् ॥३४॥एतत्सर्वं गिरौ भक्तिमात्रेणैव भवेद्ध्रुवम् ।तत्त्वतो व्यङ्कटाद्रेस्तु स्वरूपं वेत्ति को भुवि ॥३५॥यस्मादस्य गिरेः पुण्यं माहात्म्यं वेत्ति यः पुमान् ।मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् ।स्वामिपुष्करिणीतीरे रमया सहमोदते ॥३६॥कल्याणाद्भुतगात्राय कामितार्थप्दायिने ।श्रीमद्व्यङ्कटनाथाय श्रीनिवासाय ते नमः ॥३७॥श्रीस्वामिपुष्करिण्याश्च माहात्म्यं शृणु कन्यके ।स्वामिपुष्करिणीमध्ये श्रीनिवासोस्ति सर्वदा ॥३८॥स्नानं कुर्वन्ति ये तत्र तेषां मुक्तिः करे स्थिता ।तिस्रः कोट्योर्धकोटिश्च तीर्थानि भुवनत्रये ।तानि सर्वाणि तत्रैव संति तीर्थे हरेः सदा ॥३९॥तत्तीर्थं श्रीनिवासाख्यं सर्वदेवनमस्कृतम् ।तदेव श्रीनिवासस्य मन्दिरं परिकीर्तितम् ॥४०॥तद्दर्शनादेव कन्ये यान्ति पापानि भस्मसात् ।एकैकस्नानमात्रेण सत्संगो भवति ध्रुवम् ॥४१॥सत्संगाज्ज्ञानमासाद्य ज्ञानान्मोक्षं च विन्दति ।अधिकारिणां भवेदेवं विपरीतमयोगिनाम् ॥४२॥तीर्थानां स्नानमात्रेण मोक्षं यान्तीति ये विदुः ।ते सर्वे असुरा ज्ञेयास्ते यान्ति ह्यधमां गतिम् ॥४३॥श्रीनिवासस्य तीर्थेस्मिन्वायुकोणे च कन्यके ।आस्ते वायुः सदा विष्णोः पूजां कर्तुमनुत्तमाम् ॥४४॥वायुतीर्थं च तत्प्रोक्तं हस्तद्वादशकान्तरम् ।हस्तषट्कप्रमाणं च पश्चिमे समुदाहृतम् ।उत्तरे हस्तषट्कं तु वायुतीर्थमुदाहृतम् ॥४५॥ये वेष्णवा वैष्णवदासवर्याः स्नानं सुर्युस्तत्र पूर्वं सुकन्ये ।मध्वान्तस्थाः श्रीनिवासस्तु नित्यमत्र स्नानात्प्रीयतां मे दयालुः ॥४६॥ये मध्वतीर्थे स्नातुमिच्छन्ति देवि रुद्रादयो वायुभक्ता महान्तः ।सदा स्नानं तत्र कुर्वन्ति देवि प्रातः काले चोदयात्पूर्वमेव ॥४७॥ये वायुतीर्थे विसृजन्ति देहजं मलं मूत्रं वमनं श्लेष्मकं च ।येऽपानशुद्धिं लिङ्गशुद्धिं च कन्ये कुर्वन्ति ते ह्यसुरा राक्षसाश्च ॥४८॥शृण्वन्ति ये भागवतं पुराणं किं वर्णये तस्य पुण्यं तु देवि ।ये कृष्णमन्त्रं तु जपन्ति देवि ह्यष्टा क्षरं मन्त्रवरं सुगोप्यम् ॥४९॥तेषां हरिः प्रीयते केशवोलं मध्वान्तस्थो नात्र विचार्यमस्ति ।एवं दानं तत्र कुर्वन्ति ये वै द्विजाग्र्याणां वैष्णवानां विदां च ॥५०॥तेषां पुण्यं नैव जानन्ति देवा जानात्येवं श्रीनिवासो हरिस्तु ।शालग्रामं वायुतीर्थे ददन्ते तेषां पुण्यं वेत्ति स व्यङ्कटेशः ॥५१॥सुदुर्लभो वायुतीर्थेऽभिषेको निष्कामबुद्ध्या वैष्णवानां च देवि ।तत्रापि तीर्थे लभ्यते भाग्ययोगाद्भागवतस्य श्रवणं विष्णुदासैः ॥५२॥तथैव तीर्थे दुर्लभं तत्र देवि शालग्रामस्य द्विजवर्ये च दानम् ।जंबूफलाकारसुनीलवर्णं मुखद्वयं चक्रचतुष्टयान्वितम् ॥५३॥सुकेसरैः संयुतं स्वर्णचिह्नध्वजां कुशैर्वज्रचिह्नैर्यवैश्च ।जानार्दनीं मूर्तिमाहुर्महान्तो दानं तस्या दुर्लभं तत्र तीर्थे ॥५४॥अत्युत्तमं मूर्तिदानं तु भद्रे सुदुर्ल्लभं परमं नात्र लोभः ।सुदुर्लभं बहुदोग्ध्याश्च गृष्टेर्दानं तथा वस्त्ररत्नादिकानाम् ॥५५॥अत्युत्तमं द्रव्यदानं च देवि स्वापेक्षितं दानमाहुर्महान्तः ।स्वस्यानपेक्षं फलदानं च वस्त्रादानं तस्य व्यर्थमाहुर्महान्तः ॥५६॥अत्युत्तमं गृष्टिदानं च पुण्यं नैवाप्यते दुग्धदोहाश्च गावः ।अत्युत्तमे वस्त्रदाने सुबुद्धिः सुदुर्घटा परमा वै जनानाम् ॥५७॥अत्युत्तमं भागवतस्य पुस्तकं सुदुर्घटं वायुतीर्थं च कन्ये ।अत्युत्तमं द्रव्यदानं च देवि सुदुर्घटं वायुतीर्थं नृणां हि ।सुदुर्लभो वैष्णवैस्तत्त्वविद्भिर्हरेर्विचारो वायुतीर्थे च कन्ये ॥५८॥श्रीनिवासस्य तीर्थस्य उत्तरस्यां दिशि स्थितम् ।चन्द्रतीर्थ मिति प्रोक्तं तत्रास्ते चन्द्रमाः सदा ॥५९॥श्रीनिवासस्य पूजां च तत्र स्थित्वा करोत्ययम् ।तत्र स्नानं प्रकुर्वन्ति पुण्यदेशे च कन्यके ॥६०॥गुरुतल्पादिपापेभ्यो मुच्यन्ते नात्र संशयः ।तत्र स्नात्वा पूर्वभागे शालग्रामं ददाति यः ॥६१॥ज्ञानद्वारा मोक्षमेति नात्र कार्या विचारणा ।दधिवामनमूर्तेश्च दानं तत्र सुदुर्लभम् ॥६२॥बदरीफलमात्रं तु वतुलं नीलवर्णकम् ।प्रसन्नवदनं सूक्ष्मं सुस्निग्धं कन्यके शुभे ॥६३॥चक्रद्वयसमायुक्तं गौपूरैः पञ्चभिर्युतम् ।चापबाणसमायुक्तमनतं कुण्डलाकृतिम् ॥६४॥वनमाल सुखयुतं मूर्ध्नसाहस्रसंयुतम् ।रौप्यबिन्दुसमायुक्तं सव्ये भद्रार्धमात्रकम् ॥६५॥चन्द्रेण सहितं देवि दधिवामनमुच्यते ।एतादृशं कलौ नॄणां दुर्लभं बहुभाग्यदम् ।लक्ष्मीनारायणसमां तां मूर्तिं विद्धि भामिनि ॥६६॥सुदुर्लभं तस्य मूर्तेश्च दानं तच्चन्द्रतीर्थे श्रवणं दुर्घटं च ।सम्यक्स्वरूपं दधिवामनस्य सुदुर्घटं श्रवणं वैष्णवाच्च ॥६७॥तत्र स्नात्वा वामनस्य स्वरूपश्रवणाद्विदुर्दानफलं समं च ।दशहस्तप्रमाणं तु चन्द्रतीर्थमुदाहृतम् ॥६८॥मध्याह्ने दुर्लभं स्नानं नृणां तत्र सुमङ्गले ।तत्र स्थित्वा धन्यनरः सदा भजति वै हरिम् ॥६९॥वराहमूर्तिदानं तु शालग्रामस्य दुर्लभम् ।जंबूफलप्रमाणं तु एतद्वै कुक्कुटाण्डवत् ॥७०॥वदनं वलयाकारं प्रमाणं चणकादिवत् ।देवस्य वामभागे च मध्यदेशं विहाय च ॥७१॥चक्रद्वयसमायुक्तंमूर्धदेशे च भामिनि ।सुवर्णबिन्दुना युक्तं भूवराहाख्यमुच्यते ॥७२॥पूजां कृत्वा भूवराहस्य मर्तेर्दानं दत्त्वा श्रवणं चापि कृत्वा ।तत्र स्थितं भूवराहं च दृष्ट्वा स वै नरः कृतकृत्यो हि लोके ॥७३॥तत्र स्नात्वा भूवराहस्य मर्तेः शृणोति यो लक्षणं सम्यगेव ।स तेन पुण्यं समुपैति देवि स मुक्तिभाङ्नात्र विचार्यमस्ति ॥७४॥ईशानकोणे श्रीनिवासस्य देवि रौद्रं तीर्थं परमं पावनं च ।तत्र स्थित्वा रुद्रदेवो महात्मा पूजां करोति श्रीनिवासस्य नित्यम् ॥७५॥हस्ताष्टकं तत्प्रमाणं वदन्ति तत्र स्नानं वैष्णवैः कार्यमेव ।तत्र स्नात्वा प्रयतो वै मुरारेः कथां दिव्यां शृणुयादादरेण ।स्नानं पानं तत्र दानं च कुर्याल्लक्ष्मीनृसिंहप्रीयते देवि नित्यम्३,२६.७६॥बदरीफलमात्रं च वर्तुलं बिन्दुसंयुतम् ॥७७॥देवस्य वामभागे तु चक्रद्वयसमन्वितम् ।सुवर्णरेखासंयुक्तं किञ्चिद्रक्तसमन्वितम् ॥७८॥वैश्यवर्णं सवदनं पद्मरेखादिचिह्नितम् ।लक्ष्मीनृसिंहं तं विद्धि भुक्तिमुक्तिप्रदायकम् ॥७९॥एता दृशं गण्डिकायाः शिलाया मूर्तेर्दानं दुर्घटं विद्धि वीन्द्र ।तत्र स्नात्वा श्रीनृसिंहस्वरूपं लक्ष्मीपतेः शृणुयाद्भक्तियुक्तः ॥८०॥मूर्तेर्दानात्फलमाप्नोति देवि सत्यंसत्यं नात्र विचार्यमस्ति ॥८१॥ईशानशक्रयोर्मध्ये ब्रह्मतीर्थमुदाहृतम् ।दुर्लभं मानुषाणां तु स्नानं सर्वार्थसाधकम् ॥८२॥शालग्रामस्य दानं तु दुर्लभं तत्र वै नृणाम् ।लक्ष्मीनारायणस्यैव मूर्तेर्दानं सुदुर्लभम् ॥८३॥स्थलमौदुंबरसमं तत्प्रमाणमुदाहृतम् ।छत्त्राकारं वर्तुलं च प्रसन्नवदनं शुभम् ॥८४॥चणकप्रदेशमात्रं च वदनं समुदाहृतम् ।सव्ये दक्षिणपार्श्वे च समयोः पुष्कलान्वितम् ॥८५॥गोयूथवत्सवर्णं च चतुश्चक्रसमन्वितम् ।गोखुरैश्च समायुक्तं सुवर्णकिणसंयुतम् ॥८६॥वनमालाभिसंयुक्तं वज्रपुङ्खैश्च संयुतम् ।एतादृशीं दरेर्मूर्ति लक्ष्मीनारायणं विदुः ॥८७॥कलौ नृणां तस्य लाभो दुर्लभः संस्मृतो भुवि ।दानं च सुतरां देवि दर्लभं किं वदामि ते ॥८८॥ब्रह्मतीर्थे च संस्नाय श्रोतव्या वै हरेः कथा ।गण्डिकायाः शिलायाश्च लक्ष्मीनारायणस्य तु ॥८९॥लक्षणं यो विजानाति तदा तत्सदृशं फलम् ।प्राप्नोत्येव न संदेहो नात्र कार्या विचारणा ॥९०॥श्रीनिवासस्य तीर्थस्य पूर्वे स्यादिन्द्रतीर्थकम् ।श्रीनिवासस्य पूजां तु कर्तुमास्ते शचीपतिः ॥९१॥शालग्रामशिलादानं कर्तव्यं श्रोत्रियायवै ।शालग्रामशिलादानं हत्याकोटिविनाशनम् ॥९२॥तस्मिंस्तीर्थे तु यो देवि सीतारामशिलाभिधाम् ।ददाति भूतले भद्रे भूपतेः सदृशो भवेत् ॥९३॥सीतारामशिला देवि द्विविधा संप्रकीर्तिता ।पञ्चचक्रयुता काचित्षट्रचक्रेण च संयुता ॥९४॥तत्रापि षट्रचक्रयुता ह्युत्तमा संप्रकीर्तिता ।पञ्चचक्रयुतायाश्च फलं द्विगुणमीरितम् ॥९५॥कुक्कुटाण्डप्रमाणं च सुसिग्धं नीलवर्णकम् ।वदनत्रयसंयुक्तं सट्चक्रैः केसरैर्युतम् ॥९६॥स्वर्णरेखासमायुक्तं ध्वजवज्राङ्कुशैर्युतम् ।एतादृशं तु वै भद्रे सीतारामाभिधं स्मृतम् ॥९७॥वदनेवन्दने देवि सीतारामस्य कोशकम् ।दुर्लभं तु कलौ नॄणां स्वसाम्राज्यप्रदं शुभम् ॥९८॥इन्द्रतीर्थे महादेवि सीताराम भिधाशिला ।या तद्दानं दुर्लभं तन्नाल्पस्य तपसः फलम् ॥९९॥दानस्य शक्त्यभावे तु श्रोतव्यं लक्षणं हरेः ।शालग्राम शिलादानाद्यत्फलं तत्फलं लभेत् ॥१००॥आग्नेयकोणे श्रीनिवासस्य देवि तीर्थं त्वास्ते वह्निसंज्ञं सुशस्तम् ।स वह्निदेवः श्रीनिवासस्य पूजां कर्तुं ह्यास्ते सर्वदा तीर्थमध्ये ॥१०१॥यो वा तीर्थे वह्निसंज्ञे च देवि भक्त्या स्नानं कुरुतेऽजं स्मरन्हि ।ज्ञानद्वारा मोक्षमाप्नोति देवि तत्र स्नानं दुर्ल्लभं वै नृणां च ॥१०२॥ज्ञात्वा स्नानं दुष्करं तीर्थराजे भक्तिस्तस्मिन्दुर्ल्लभा चैव देवि ।शालग्रामे तच्छिलायाश्च दानं सुदुर्लभं वासुदेवाभिधायाः ॥१०३॥ह्रस्वं तथा वर्तुलं नीलवर्णं सूक्ष्मं मुखं मुखचक्रं सुशुद्धम् ।सुवेणुयुक्तं वासुदेवाभिधेयं दानं कलौ दुर्लभं तस्य भद्रे ॥१०४॥दाने तस्याः शक्त्य भावे च देवि स्नात्वा तीर्थे वासुदेवाभिधस्य ।सम्यक्श्राव्यं लक्षणं वै शिलायास्तयोस्तुल्यं फलमाहुर्महान्तः ॥१०५॥दक्षिणे श्रीनिवासस्य यमतीर्थं च संस्मृतम् ।तत्रास्ते यमराजस्तु पूजां कर्तुं हरेः सदा ॥१०६॥तत्र स्नानं च दानं चाप्यक्षयं परमं स्मृतम् ।शालग्रामशिलादानं कार्यं तत्र महामुने ॥१०७॥पट्टाभिरामसंज्ञायाः शिलाया दानमिष्यते ।तच्चूतफलवत्स्थूलं वदनत्रयसंयुतम् ॥१०८॥शिरश्चक्रेण रहितं सप्तचक्रैः समन्वितम् ।नीलवर्णं स्वर्णरेखं गोशुराद्यैः समन्वितम् ॥१०९॥पट्टवर्धनरामं तु दुर्लभं बहुभाग्यदम् ।पट्टवर्धनरामं तु यो ददाति च तत्र वै ।पट्टाभिषिक्तो भवति नात्र कार्या विचारणा ॥११०॥श्रीनिवासस्य नैरृत्ये नैरृतं तीर्थमुत्तमम् ।आस्ते हि निरृतिस्तत्र पूजां कुर्तुं च सर्वदा ॥१११॥तत्र स्नानं प्रकर्तव्यं पुनर्जन्म न विद्यते ।शालग्रामशिलायाश्चः पुरुषोत्तमसंज्ञिकाम् ॥११२॥मूर्तिं ददाति यो मर्त्यः स याति परमां गतिम् ।औदुंबरफलाकारं प्रसन्नवदनं शुभम् ॥११३॥चक्रद्व्यसमायुक्तं शिरश्चक्रसमन्वितम् ।सुवर्णबिन्दुसंयुक्तं वज्राङ्कुशसमान्वतम् ॥११४॥तन्मूर्तिदानं दुर्लभं तत्र देवः प्रीणाति यस्माच्छ्रीनिवासो महात्मा ।यदा दानं दुर्घटं स्याच्च देवि तदा श्रोतव्यं लक्षणं तस्य मूर्तेः ॥११५॥पाशिनैरृतयोर्मध्ये शेषतीर्थं परं स्मृतम् ।तत्र स्नात्वा शेषमूर्तिं प्रददाति द्विजातये ॥११६॥स याति परमं लोकं पुनरावृत्तिवर्जितम् ।औदुंबरफलाकारं कुण्डलाकृतिमेव च ॥११७॥शेषवद्वदनं तस्य तस्मिंश्चक्रद्वयं स्मृतम् ।फलं तमेकचक्रेण संयुतं वल्मिकान्वितम् ॥११८॥किञ्चिद्वर्णसमायुक्तं शेषमूर्ति मतिस्फुटम् ।सुप्ता प्रबुद्धा द्विविधा शेषमूर्तिरुदाहृता ॥११९॥फणोन्नता प्रबुद्धा स्यात्सप्तलक्षफणान्विता ।तत्रापि दुर्लभा सुप्ता महाभाग्यकरीस्मृता ॥१२०॥इह लोके परत्रापि मोक्षदा नात्र संशयः ।नवचक्रादुपक्रम्य विंशत्यन्तं च यत्र सः ॥१२१॥अनन्त इति विज्ञेयो ह्यनन्तफलदायकः ।विश्वंभरः स विज्ञेयो विंशत्यूर्ध्वं वरानने ॥१२२॥तत्रापि केसरैश्चैक्रर्लक्षणैश्च समन्वितम् ।कलौ तु दुर्लभं नणां तद्दानं चातिदुर्लभम् ॥१२३॥स्नानं कृत्वा शेषतीर्थे विशुद्धेनैव चेतसा ।एतेषां लक्षणं श्रुत्वा प्रयाति परमां गतिम् ॥१२४॥ततः परं महाभागे वारुणं तीर्थमुत्तमम् ।तत्रास्ते वरुणो देवः पूजां कर्तुं हरेः सदा ॥१२५॥तत्र स्नानं प्रकर्तव्यं दातव्यं दानमुत्तमम् ।शिशुमारं च मत्स्यं च त्रिविक्रममथापि वा ।दातव्यं भूतिकामेन तीर्थेस्मिन्विरवर्णिनि ॥१२६॥जंबूफलसमाकारा पुच्छे सूक्ष्मा सबिन्दुका ।चक्रत्रया च वदने पुच्छोपरि सचक्रका ॥१२७॥श्रीवत्सबिन्दुमालाढ्या मत्स्यमूर्तिरुदाहृता ।पुच्छादधश्चक्रयुतं शिशुमारमुदाहृतम् ॥१२८॥वक्रचक्रयुतश्चेत्स्यात्त्रिविक्रम उदाहृतः ।एतेषां लक्षणं श्रुत्वा वारुणे तीर्थ उत्तमे ॥१२९॥एतद्दानफलं प्राप्य मोदते विष्णुमन्दिरे ।पूर्वौक्ता मूर्तयो यस्मिन् गृहे तिष्ठन्ति भामिनि ।भागीरथी तीर्थवरा संनिधत्ते न संशयः ॥१३०॥स्वामि पुष्करिणीस्नानं दुर्घटं तु कलौ नृणाम् ।तत्र स्थितानां तीर्थानां स्नानं चाप्यतिदुर्घटम् ॥१३१॥शालग्रामशिलादानं दुर्घटं च तथा स्मृताम् ।स्वामिपुष्करिणीतीरे कन्यादानं सुदुर्घटम् ॥१३२॥दुर्घटं कपिलादानं भक्ष्यदानं सुदुर्घटम् ।स्वामिपुष्करिणीतीर्थे तीर्थेष्वन्येषु भामिनि ॥१३३॥स्नानं कुरु यथान्या यं शय्यादानं तथा कुरु ।जैगीषव्येन मुनिना त्वेवमुक्ता च कन्यका ॥१३४॥स्वामिपुष्करिणीस्नानं सा चकार धृतव्रता ।तीर्थेष्वेतेषु सुस्नाता दानं चक्रे सुभामिनी ॥१३५॥उवास तत्र सा दवी त्रिः सप्तकन्दिनानि च ।स्वामिपुष्करणीतीरमहिमानं शृणोति यः ।स याति परमां भक्तिं श्रीनिवासे जगन्मये ॥१३६॥इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे व्यङ्कटगिरिमाहात्म्ये स्वामिपुष्करिण्यादितीर्थतत्रत्यदेवतदीयशालग्रामलक्षण तद्दानादिवर्णनं नाम षड्विंशोध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP