ब्रह्मकाण्डः - अध्यायः १८

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


श्रीकृष्ण उवाच ।
अथानन्तरजान्वक्ष्ये शृणु पक्षीन्द्रसत्तम ।
शृणु तान्सावधानेन श्रुत्वा तानवधारय ॥१॥

पुरुषाख्यविरिञ्चानुजातः शेषो महाबलः ।
हरे रमायाश्च यस्य स्वस्मिन्निद्रां प्रकुर्वतः ॥२॥

शयनार्थमभूदेष तेन कृत्यं हरेर्न तु ।
सर्वदा हरिदासोहं सर्वदा हरिपूजकः ॥३॥

हरे सदा नमामि त्वां बहु जन्मनि जन्मनि ।
एवं बुद्धा तु गरुडो ह्यभूच्च शयनं हरेः ॥४॥

सूत्रनाम्नस्तथा वायोः सदायं विनतासुत ।
कालनामा च गरुडो वाहनार्थं हरेरभूत् ॥५॥

ततो महत्तत्त्वतनोर्विरिञ्चात्तु खगेश्वर ।
अहं कारात्मको रुद्रः समभूत्सोवितुं हरिम् ॥६॥

त्रय एते महाभाग परस्परसमाः स्मृताः ।
गायत्रीभारतीभ्यां ते त्रयः शतगुणा वराः ॥७॥

शेषः स एव विज्ञेयो भक्तो नारायणस्य च ।
विष्णोर्वायोरनन्तस्य त्रिभिरंशैर्युतः सदा ॥८॥

सुमित्रांशो दशरथाज्जातो यो लक्ष्मणः खग ।
सोपि शेषस्तु विज्ञेयो वाय्वनन्तांशसंयुतः ॥९॥

रामस्य सेवां कर्तुं सा सीता भूम्यां खगाधिप ।
बलभद्रस्तु रोहिण्यां वसुदेवादभूत्खग ॥१०॥

सोयमेप तु विज्ञेयस्त्वंशद्वयसमन्वितः ।
आविष्टः शुक्लकृष्णे हरिणा रोहिणीसुतः ॥११॥

त्रय एते माहाभागावताराः फणिनः स्मृताः ।
न वीन्द्रास्यावतारोस्ति भूम्यां चाज्ञा तथा हरेः ॥१२॥

रुद्रावतारान्वक्ष्येहं ताञ्छृणु त्वं समाहितः ।
योहङ्कारात्मको रुद्रः स एवाभूत्खगेश्वर ॥१३॥

सदाशिव इति त्वाख्यामवाप स विनाशकः ।
तमोभिमानी स ज्ञेयस्त्वशिवत्वात्सदाशिवः ॥१४॥

कपालमालामशिवां सदा धारयते यतः ।
अतः सदाशैवो ज्ञेयो न च भागवतः शिवः ॥१५॥

गजाजिनं चापवित्रं यतो धारयते हरः ।
लोकानमङ्गलान्सर्वान्हरते च सदा हरः ॥१६॥

हर्याज्ञया सदा लोकान्विपयासक्तचेतसः ।
विमुखान्कुरुते यस्माद्विष्णोस्तस्मात्सदाशिवः ॥१७॥

कदाचिदसुरावेशाद्विरुद्धं कुरुते हरः ।
अतः सदाशिवो ज्ञेयो न च भागवतः शिवः ॥१८॥

सोयं श्मशानवसतिं कर्तुमैच्छद्यतो हरः ।
अतः सदाशिवो ज्ञेयो न च भागवतः शिवः ॥१९॥

दशवर्षं तपः कर्तुं विवेश लवणांभसि ।
अतो रुद्रस्तपः संज्ञामवाप च खगोत्तम ॥२०॥

व्यासपुत्रः शुकः प्रोक्तो वायोरावेशसंयुतः ।
रुद्रावतारो विज्ञेयो ज्ञानार्थमभवद्भुवि ॥२१॥

अत्रिपत्न्यनुसूयायां जज्ञे रुद्रो महातपाः ।
दुर्वासास्तु स विज्ञेयो मानभङ्गाय भूभृताम् ॥२२॥

द्रोणाज्जातो द्रौणिसंज्ञो रुद्र एव प्रकीर्तितः ।
प्रारब्धं भोक्तुकामोसौ परपक्षप्रकाशकः ॥२३॥

ईशानकोणे संस्थितो यस्तु रुद्रो ह्यवाप वै वामदेवेति संज्ञाम् ।
स्ववामभागे संस्थितं चैव वायुस्तं योग्यभक्तं सेवते सर्वदैव ॥२४॥

अतो रुद्रो वामदेवेति संज्ञा मवाप शिष्टत्वमथोत्तमत्वम् ।
कालात्मकत्वं च बलात्मकत्वमवाप रुद्रो न तु सुंदरत्वतः ॥२५॥

सदा रुद्रो त्रिपुरस्थांश्च दैत्यान्विष्णुदुहो हन्तु कामो महात्मा ।
अघोररूपं धृपवान्रुद्र एव ततस्त्वघोरेति स आप संज्ञाम् ॥२६॥

सेवां कर्तुं त्विच्छतो दैत्यसंघान्किञ्चित्कालं तपसा क्लिश्यमानान् ।
वरान्दातुं सद्य एवाभिजातः सद्योजातेत्येव संज्ञामवाप ॥२७॥

उरोः पुत्रस्तु और्वश्च रुद्र एव प्रकीर्तितः ।
इत्यकृष्टवाचित्वाद्रुस्तुरोदनवाचकः ॥२८॥

उरू रुद्रो ह्यतः प्रोक्तस्तत्पुत्रश्चौर्वसंज्ञकः ।
रुद्रमुर्वरितं कर्तुमौर्वोभूद्रुद्र एव सः ॥२९॥

गरुड उवाच ।
रोदनं कुरुते कस्मादुरुसंज्ञो हरे हरः ।
रुदमुर्वरितं कस्मात्कुरुते और्वाकारकः ॥३०॥

एतद्विस्तार्य मेब्रूहि पौत्राय तव सुव्रत ।
इत्युक्तस्तेन स हरिरुवाच करुणानिधिः ॥३१॥

श्रीकृष्ण उवाच ।
दृष्ट्वा स्वबिंबं सुगुणैस्तु पूर्णं संकर्षणाख्यं नतपादपद्म् ।
श्रीब्रह्मशेषैर्जिष्णुकामैस्तथान्यैर्भारत्या वै स्वस्ति पैश्चापि नित्यम् ॥३२॥

दृष्ट्वा हरिं पुलकाङ्गस्तु रुद्रः सभाष्पचक्षू रुद्धकण्ठश्च हृष्टः ।
अनाद्यनन्तब्रह्मकल्पेषु नैव कृतं यया स्मरणं सर्वदैव ॥३३॥

पादारविन्दे सुनखैर्विभूषिते दृष्टे मया केन पुण्येन देव ।
दृष्ट्वादृष्ट्वा पादपद्मं मुरारेः पुनः पुना रुद्धकण्ठो बभूव ॥३४॥

रुरोद रुद्रो भयकंपिताङ्गः कथं पुनर्दर्शनं मे प्रभोः स्यात् ।
मुकुन्द नारायण विश्वमूर्ते वागिन्द्रियेण स्तवनं मे कथं स्यात् ॥३५॥

मद्दर्शनं सर्वदा पापुयुक्तं तथा मद्वाक्सर्वदा पापयुक्ता ।
मद्दर्शनं सर्वदा स्त्रीषु सक्तमभूच्च ते दर्शनं मे ह्यसक्तम् ॥३६॥

आसक्तता पुत्रदारादिकानां सम्यक्शक्तिस्तवने नास्ति विष्णोः ।
विष्णुस्तुतौ नावकाशोस्ति वाचो दृष्टोहं त्वं केन पुण्येन देव ॥३७॥

अनन्तकर्णेश सुचन्द्रसंज्ञ श्रोत्रेण नित्यं न कथा श्रुता ते ।
श्रुता मया बहुधा लोकवार्ता दृष्टो मया त्वं केन पुण्येन देव ॥३८॥

दृष्ट्वादृष्ट्वा पादपीठं हरेश्च पुनः पुना रुद्धङ्कठो बभूव ।
रुरोद रुद्रो भयकंपिताङ्गः कथं पुनः श्रवणं स्यात्कथायाः ॥३९॥

त्वमीश वैकुण्ठ सुवायुसंज्ञस्त्वदर्पितं गन्धपुष्पादिकं च ।
सदा न लिप्तं च भुजैर्विलिप्तं तन्मूत्रविष्ठादिमकर्दमाम्बुभिः ॥४०॥

स्त्रीणां कुचोदैश्च कचोदकैश्चकक्षोदकैर्गात्रजलैर्मुकुन्द ।
अनर्पितैर्वस्त्रगन्धादिकैश्च दृष्टो मया केन पुण्येन देव ॥४१॥

स्पृष्ट्वास्पृष्ट्वा हरिनिर्माल्यगन्धं पुनः पुना रुद्धकण्ठो बभूव ।
रुरोद रुद्रो भयकंपिताङ्गः कथं पुनः स्पर्शनं स्यात्सदा मे ॥४२॥

नृसिंह नासास्थित नासिकेश मन्नासया क्वापि सुपद्मसौरभम् ।
नाघ्रातमित्थं पुनराघ्रातमेव ह्यनर्पितं गन्धपुष्पादिकं च ॥४३॥

सुनासिकं सुष्ठुदन्तं मुरारे दृष्टं मुखं केन पुण्येन देव ।
घ्रात्वा घ्रात्वा विष्णुनिर्माल्यगन्धं पुनः पुना रुद्धकण्ठो बभूव ॥४४॥

रुरोद रुद्रो भयकंपिताङ्गो जिघ्रामि निर्माल्यमिदं कथं ते ।
जिह्वास्थितो जिह्व संज्ञो मुरारे जिह्वेन्द्रियेणापि तथार्पितं च ॥४५॥

नैवेद्यशेषं तुलसीविमिश्रितं विशेषतः पादजलेन सिक्तम् ।
यो स्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम् ॥४६॥

एतादृशं तव नैवेद्यशेषं न भुक्तं वै सर्वदादित्यरूपम् ।
अनर्पितं तव देवस्य विष्णोर्भुक्तं मया बहुवारं मुकुन्द ॥४७॥

पादारविन्दे नार्पितं भक्ष्यभोज्यं दृष्टो मया केन पुण्येन देव ।
भुक्त्वाभुक्त्वा हरिनैरवेद्यजातं सुखं त्वदीयं रमया लालितं च ॥४८॥

द्युभ्वाश्रयं तव मूर्धानमाहुः किरीटयुक्तं कुटिलैः कुन्तलैश्च ।
अनेकजन्मार्जितपुण्यसंचयैर्दृष्टं मया सज्जनसंगमाच्च ॥४९॥

अनेकजन्मार्जितपापसंचयैरदर्शनं यास्यति देवदेव ।
एवं सुभक्त्या च रुरोद रुद्रो दृष्ट्वा हरिं सुर्वगुणैः संपूर्णम् ॥५०॥

पादारविन्दं तव विश्वमूर्ते योगीश्वरैर्हृदये संगृहीतम् ।
दृष्टं मया दयया वासुदेव द्रक्ष्ये कथं पुनरित्थं रुरोद ॥५१॥

दृष्टं मया त्वरिवले भविनाशिशङ्खचक्रादिकैस्त्रिजगतापि च देव पूर्णम् ।
एतादृशं त्वदुदरं च कथं रमेश द्रक्ष्ये पुनः पुनरहं त्विति संरुरोद ॥५२॥

आनन्दपूर्ण नखपूर्ण सुकेशपूर्ण लोमादिपूर्ण गुणपूर्ण सुघोणपूर्ण ।
वक्षः स्थलं तव विभोस्तु विशालभूतं सद्भूषणं विमलकौस्तुभशोभि लक्ष्म्या ॥५३॥

सुकोमलं श्रीतुलस्यास्तथैव सुपुष्पितं चन्द नैश्चर्चितं च ।
एतादृशं तव वक्षः स्थलं च दृष्टं मया तव कारुण्यदृष्ट्या ॥५४॥

पुनः पुनर्दर्शनं मे कथं स्यादेवं रुद्रः स च भक्त्या रुरोद ।
अतस्तूरुर्नाम संप्राप्य रुद्रस्तत्पुत्रोभूद्दौर्वसंज्ञः स एव ॥५५॥

यस्माद्रुदं चोर्वरितं वै चकार तस्मात्स रुद्रस्त्वौर्वसंज्ञो बभूव ।
और्वस्तु लोकान्मोक्षयोग्यांश्च दृष्ट्वा ह्यत्यन्तं वै विषयेष्वेव निष्ठान् ॥५६॥

स्तूद्दैव चौर्वो विष्णुपादारविदं स्मृत्वास्मृत्वा रुद्धकण्ठो बभूव ।
ते पापिष्ठाः पापरूपान्भजन्तो दिनेदिने दुर्विषयान्कदिन्द्रियैः ॥५७॥

कदा चैतान्हेयबुद्ध्या विमुञ्चे न जानेहं चेति सम्यग्रुरोद ।
एते हि मूर्खा विषयानर्थलब्ध्यै कुर्वन्ति यत्नं परमादरेण ॥५८॥

कदिन्द्रियार्थं हि धनादिकं च त्यजन्ति च सर्वे विषयेषु निष्ठाः ।
त्वन्मायया मोहितान्नष्टबुद्धीन्कदा चैतान्मुञ्चसे विश्वमूर्ते ॥५९॥

स्मृत्वास्मृत्वा वासुदेवस्य मायां रुरोद चौर्वो भयकंपिताङ्गः ।
अतीव कष्टेन च लोकवृत्त्या श्रिता दैन्यं स्वीयकार्यं विहाय ॥६०॥

अतीव दैन्येन धनादिकं च संपाद्य सर्वेऽपि सुपापशीलाः ।
कष्टार्जितं द्रव्यधनादिकं च त्यजन्ति सर्वे पशवो व्यर्थमेव ॥६१॥

सत्पात्रभूते विष्णुबुद्ध्या कदापि त्यजन्ति नैते मायया वै मुरारेः ।
एषामायुर्व्यर्थमाहुर्महान्तः कथं नष्टा इति सम्यग्रुरोद ॥६२॥

एषामायुर्व्यर्थमेवं गतं च एषां दृष्ट्वा यौवनं तु ध्रुवं च ।
स्कन्धस्थमृत्युर्हसते कृष्ण विष्णो तं वै न जानन्ति विमूढचेतसः ॥६३॥

गृहं मदीयं शतवर्षं च जीवेत्पुत्रा मदीया शवतवर्षं तथैव ।
अहं च जीवे शतवर्षं सुखेन मदीयभार्यापि सुलक्षणाऽस्ते ॥६४॥

गावश्च मे संति सदुग्धपूर्णा मित्राणि मे संति मुदा हि युक्ताः ।
दास्ये सुतं वारणार्थं तु वध्वै पुत्रीं विवाहार्थमहं ददामि ॥६५॥

दास्ये चाहं सत्सु पुत्रीं धनं वा दास्ये चाहं धनिकेष्वेव नित्यम् ।
अदृष्टशून्यान् भगवान्वासुदेवो दृष्ट्वादृष्ट्वा हसते सर्वदैव ॥६६॥

नाहं करिष्ये श्रवणं कथाया मद्भाग्यना शश्च भविष्यतीति ।
नाहं हरिं पूजयिष्ये सदैव पुत्रादिनाशश्च भविष्यतीति ॥६७॥

कालेकाले दिष्टनामा हरिस्तु फलप्रदो वासुदेवोऽखिलस्य ।
एतादृशान्मूर्खजनांश्च दृष्ट्वा रुरोद चौर्वो वासुदेवैकनिष्ठः ॥६८॥

अतस्त्वौर्वो रुद्ररूपी खगेन्द्र जानीहि नित्यं कृष्णसुशिक्षितार्थः ।
यदा सती दक्षपुत्री खगेन्द्र दक्षाध्वरे स्वशरीरं विसृज्य ॥६९॥

जज्ञे पुनर्मेनकायां हिमाद्रेस्तदा रुद्रस्त्वौर्वसंज्ञा मवाप ।
ऊर्ध्वरेता भवेत्युक्त्वा ऊर्ध्वरेता बभूव ह ॥७०॥

पाणिग्राहं रुद्रदेवो महात्मा यदा हिमाद्रेः कन्यकायाश्चकार ।
तस्यां परं लंपटः संबभूव अतो रुद्रः परसंज्ञामवाप ॥७१॥

सदाशिवाद्या दश रुद्रभ्रातरः सौमित्रेयो हौहिणेयस्त्रयश्च ।
समा एते मोक्षकाले सृतौ च शतैर्गुणैर्न्यूनभूताश्च ताभ्याम् ॥७२॥

गरुड उवाच ।
आनन्दनिर्णयं ब्रूहि कृष्ण पूर्णदयानिघे ।
निर्णेतुं ज्ञानिनां यद्वज्ज्ञापनार्थं तथा मम ॥७३॥

ब्रूहि शिष्याय दयया उद्धर्तुं मां च सर्वदा ।
पूर्णकामस्य ते कृष्ण का स्पृहा विद्यते प्रभो ॥७४॥

एवमुक्तो हृषीकेशः पक्षीशेन महात्मना ।
उवाच कृपया कृष्णः प्रसन्नः कमलेक्षणः ॥७५॥

श्रीकृष्ण उवाच ।
गायत्र्याश्च शतानन्द एकानन्दस्तु वेधसः एतादृशः शतानन्दो ब्रह्मणः परिकीर्तितः ॥७६॥

शेषादेश्च शतानन्दः सरस्वत्याः खगोत्तम ।
एकानन्दस्तु विज्ञेयो भारत्या विनतासुत ॥७७॥

एवं तु निर्णयो ज्ञेय आनन्दस्य सदा खग ।
एवमुक्तं मया सर्वं किमन्यच्छ्रोतुमिच्छसि ॥७८॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे रुद्ररोदनहेत्वाननन्तानन्दतारतम्यनिरूपणं नामाष्टादशोध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP