संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|ब्रह्मकाण्डः (मोक्षकाण्डः)| अध्यायः १६ ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ ब्रह्मकाण्डः - अध्यायः १६ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः १६ Translation - भाषांतर श्रीकृष्ण उवाच ।महालक्ष्म्याः स्वरूपं च अवतारान्खगेश्वर ।शृणु सम्यङ्महाभाग तज्ज्ञानस्य विनिर्णयम् ॥१॥ईशादन्यस्य जगतो ह्यात्मो लोचन एव तु ।विषयीकुरुते तत्स्याज्ज्ञानं लक्ष्म्याः प्रकीर्तितम् ॥२॥नित्यावियोगिनी देवी हरिपादैकसंश्रया ।नित्यमुक्ता नित्यबुद्धा महालक्ष्मीः प्रकीर्तिता ॥३॥मूलस्य च हरेर्भार्या लक्ष्मीः संप्रकीर्तिता ।पुंसो हिभार्या प्रकृतिः प्रकृतेश्चा भिमानिनी ॥४॥सृष्टिं कर्तुं गुणान्वीन्द्र पुरुषेण सह प्रभो ।तमः पानं तथा कर्तुं प्रकृत्याख्या तदाभवत् ॥५॥वासुदेवस्य भार्या तु माया नाम्नी प्रकीर्तिता ।संकर्षणस्य भार्या तु जयेति परिकीर्तिता ॥६॥अनिरुद्धस्य भार्या तु शान्ता नाम्नीति कीर्तिता ।कृतिः प्रद्युम्नभार्यापिं सृष्टिं कर्तुं बभूवह ॥७॥विष्णुपत्नी कीर्तिता च श्रीदेवी सत्त्वमानिनी ।तमोभिमानिनी दुर्गा कन्यकेति प्रकीर्तिता ॥८॥कृष्णावतारे कन्येव नन्दपुत्रानुजा हि सा ।रजोभिमानिभूदेवी भार्या सा सूकरस्य च ॥९॥वेदाभिमानिनी वीन्द्र अन्नपूर्णा प्रकीर्तिता ।नारायणस्य भार्या तु लक्ष्मीरूपा त्वजा स्मृता ॥१०॥यज्ञाख्यस्य हरेर्भार्या दक्षिणा संप्रकीर्तिता ॥११॥जयन्ती वृषभस्यैव पत्नी संपरिकीर्तिता ।विदेहपुत्री सीता तु रामभार्या प्रकीर्तिता ॥१२॥रुक्मिणीसत्यभामा च भार्ये कृष्णस्य कीर्तिते ।इत्यादिका ह्यनन्ताश्चाप्यावताराः पृथग्विधाः ॥१३॥रमायाः संति विप्रेन्द्र भेदहीनाः परस्परम् ।अनन्तानन्तगुणकाद्विष्णोर्न्यूनाः प्रकीर्तिताः ॥१४॥अथ ब्रह्मा च वायुश्च श्रियः कोटिगुणाधमौ ।वक्ष्ये च ब्रह्मणो रूपं शृणु पक्षीन्द्रसत्तम ॥१५॥वासुदेवात्समुत्पन्नो मायायां च खगेश्वर ।स एव पुरुषोनाम विरिञ्च इति कीर्तितः ॥१६॥अनिरुद्धात्तु शान्तायां महत्तत्त्वतनुस्त्वभूत् ।तदा महान्विरिञ्चेति संज्ञामाप खगेश्वर ॥१७॥रजसात्र समुत्पन्नो मायायां वासुदेवतः ।विधिसंज्ञो विरिञ्चः स ज्ञातव्यः पक्षिसत्तम ॥१८॥ब्रह्माण्डान्तः पद्मनाभो यो जातः कमलासनः ।स चर्तुमुखसंज्ञां चाप्यवाप खगसत्तम ॥१९॥एवं चत्वारिरूपाणि ब्रह्मणः कीर्तितानि च ।वायोर्नामानि वक्ष्येहं शृणु पक्षीन्द्रसत्तम ॥२०॥संकर्षणाच्च गरुड जयायां यो वभूव ह ।स वायुः प्रथमो ज्ञेयो प्रधान इति कीर्तितः ॥२१॥लोकचेष्टाप्रदत्वात्स सूत्रनाम्नापि कीर्तितः ।बदरीस्थस्य विष्णोश्च धैर्येण स्तवनाय सः ॥२२॥धृतिरूपं ययौ वायुस्तस्माद्धृतिरिति स्मृतः ।योग्यानां हरिभक्तानां धृतिरूपेण संस्थितः ॥२३॥यतो हृदि स्थितो वायुस्ततो वै धृतिसंज्ञकः ।सर्वेषां च दृदि स्थित्वा स्मरते सर्वदा हरिम् ॥२४॥अतो वायुःस्थितिर्नाम बभूव खगसत्तम ।अथवा वायुरेवैकः श्वेतद्वीपगतं हरिम् ॥२५॥सदा स्मरति वै वीन्द्र अतोसौ स्मृतिसंज्ञकः ।सर्वेषां च हृदिस्थित्वा ज्ञातो विष्णोरुदीरणात् ॥२६॥अतो मे मुक्तिनामाभूद्वायुरेव न संशयः ।ज्ञानद्वारेण भक्तानां मुक्तिदो मदनुज्ञया ॥२७॥यतो सौ वायुरेवैको मुक्तिनामा भूवह ।विष्णौ भक्तिं वर्ध्यति भक्तानां हृदि संस्थितः ॥२८॥अतोसौ विष्णुभक्तश्च कीर्तितो नात्र संशयः ।एषोसौ सर्वजीवानां चित्तसंज्ञानमेव च ॥२९॥चित्तरूपो यतो वायुरतश्चित्तमिति स्मृतः ।प्रभुः प्रभूणां गरुड सोदराणां च सर्वशः ॥३०॥अतस्तु वायुरेवैको महाप्रभुरिति स्मृतः ।सर्वेषां च हृहि स्थित्वा बलं पश्यति सत्तम ॥३१॥अतो बलमिति ह्याख्यामवाप विनतासुत ।सर्वेषां च हृदि स्थित्वा पुत्रपौत्रादिकैर्जनैः ॥३२॥याजनं कुरुते नित्यमतोसौ यष्टृसंज्ञकः ।अनन्तकल्पमारभ्य वायुपर्यन्तमेव च ॥३३॥वक्रत्वं नास्ति योगस्य ऋजुर्योग्य इति स्मृतः ।योगस्य वक्रता नाम काम्यता हरिपूजने ।ईशरुद्रादिकानां च काम्येन हरिपूजनम् ॥३४॥कस्यचित्त्वथ पक्षीन्द्र ह्यतस्त्वनृजवः स्मृताः ॥३५॥ऋष्यादीनां च मध्येपि काम्येन हरिपूजनम् ।अतो न ऋजवो ज्ञेया मनुष्याणां च का कथा ॥३६॥यावत्काम्यसपर्यां वै न जहाति नरोत्तमः ।तथा ऋष्यादयश्चैव मोक्षस्य परिपन्थिनीम् ॥३७॥अनादिकालमारभ्य कर्मजन्या च वासना ।मोक्षाधिकारिणः सर्वे कुर्वते कस्य पूजनम् ॥३८॥नष्टप्रायं च तत्सर्वं गुरोः संज्ञानबोधकात् ।प्राप्ययोगं समाचर्य अन्ते मोक्षमवाप्नुयात् ॥३९॥काम्येन पूजनं विष्णोरैश्वर्यं प्रददाति च ।ज्ञानं च विपरीतं स्यात्तेन यात्यधरं तमः ॥४०॥तदेव विपरीतं चेज्ज्ञानाय परिकीर्तितम् ।शिलायां विष्णुबुद्धिस्तु विष्णुबुद्धिर्द्विजे तथा ॥४१॥सलिले तीर्थबुद्धिस्तु रोणुकायां तथैव च ।शिवे सूर्ये पण्मुखे च विष्णुबुद्धिः खगेश्वर ॥४२॥इत्याद्यमखिलं ज्ञानं विपरीतमिति स्मृतम् ।शिलाद्येषु च सर्वेषु ऐक्येनव विचिन्तनम् ॥४३॥विष्णुबुद्धिरिति प्रोक्तं न तु तत्रस्थवेदनम् ।अनाद्यनन्तकालेपि काम्येन हरिपूजनम् ॥४४॥यतो नास्ति ततो वायुरृजुर्योग्यः प्रकीर्तितः ।अन्येषां सर्वदा नास्ति अतो न ऋजवः स्मृताः ॥४५॥हरिं दर्शयते वापि अपरोक्षेण सर्वदा ।मोक्षाधिकारिणां काले अतः प्रज्ञेति कथ्यते ॥४६॥परोक्षेणापि सर्वेषां हरिं दर्शयते सदा ।अतो वायुः सदा वीन्द्र ज्ञानमित्येव कीर्तितः ॥४७॥हिताहितोपदेष्टृत्वाद्भक्तानां हृदये स्थितः ।ततश्च गुरुसंज्ञां चाप्यवाप स च मारुतः ॥४८॥योगिनां हृदये स्थित्वा सध्यायति हरिं परम् ।पार्थक्येनापि तं ध्यायन्महाध्यातेति स स्मृतः ॥४९॥यद्योग्यतानुसारेण विजानाति परं हरिम् ।रुद्रादौ विद्यमानांश्च गुणाञ्जानाति सर्वदा ॥५०॥अतो वै विज्ञनामासौ प्रोक्तो हि खगसत्तम ।काम्यानां कर्मणां त्यागाद्विराग इति स स्मृतः ॥५१॥अथवायोगिनां नित्यं हृदि स्थित्वा स मारुतः ।वैराग्यं संजनयति विराग इति स स्मृतः ॥५२॥देवानां पुण्यपापाभ्यां सुखमेवोत्तरोत्तरम् ।तत्सुखं तूत्तरेषां च वायुपर्यन्तमेव च ॥५३॥देवानां च ऋषीणां च उत्तमानां नृणां तथा ।सुखांशं जनयेद्वायुर्यतोतः सुखसंज्ञकः ॥५४॥भुनक्ति सर्वदा वीद्रं तत्र मुख्यस्तु मारुतः ।दुः खशोकादिकं किञ्चिद्देवानां भवति प्रभो ॥५५॥तच्चासुरावेशवशादित्यवेहि न संशयः ।तज्जीवस्य भवेत्किञ्चिद्दैत्यानां क्रमशो भवेत् ॥५६॥यतः कलिश्चाधिकः स्यादतो दुः खीति स स्मृतः ।दैत्यानां पुण्यपापाभ्यां दुः ख मेवोत्तरोत्तरम् ॥५७॥तद्दुः खमुत्तरेषां च कलिपर्यन्तमेव च ।भुनक्ति सर्वदा वीन्द्र ततः कलिरिति स्मृतः ॥५८॥सुखहर्षादिकं किं चिद्दैत्यानां भवति प्रभो ।देवावेशो भवेत्तस्य नात्र कार्या विचारणा ॥५९॥देवानां निरयो नास्ति दैत्यानां विनतासुत ।सुखस्वरूपं तन्नास्ति विषयोत्थमपि द्विज ॥६०॥विषयोत्थं किञ्चिदपि देवावेशादुदीरितम् ।तमो नास्त्येव देवानां दुः खं नास्ति स्वरूपतः ॥६१॥विषयोत्थं महादुः खं देवानां नास्ति सर्वदा ।दुः खशोकादिकं किं चिदसुरावेशतो भवेत् ॥६२॥अतः कलिः सदा दुः खी सुखी वायुस्तु सर्वदा ।मनुष्याणा मृषीणां च सुखं दुः खं खगेश्वर ॥६३॥भवेत्तत्पुण्यिपापाभ्यां पुण्यभोगी च मारुतः ।कष्टभङ्गः कलिलयो नात्र कार्या विचारणा ॥६४॥प्राणादिसुखपर्यन्ता अंशा एकोनविंशतिः ।प्रविष्टाः संति लोकेषु पृथक्संति खगेश्वर ॥६५॥मारुतरेवतारांश्च शृणु पक्षीन्द्रसत्तम ।चतुर्दशसु चन्द्रेषु द्वितीयौयो विरोचनः ॥६६॥स वायुरिति संप्रोक्त इन्द्रादीनां खगेश्वर ।हरितत्त्वेषु सर्वेषु स विष्वग्याव्यतेक्षणः ॥६७॥अतो रोचननामासौ मरुदंशः प्रकीर्तितः रामावतारे हनुमान्रामकार्यार्थसाधकः ।स एव भीमसेनस्तु जातो भूम्यां महाबलः ॥६८॥कृष्णावतारे विज्ञेयो मरुदंशः प्रकीर्तितः ॥६९॥मणिमान्नाम दैत्यस्तु संराख्यो भविष्यति ।सर्वेषां संकरं यस्तु करिष्यति न संशयः ॥७०॥तेन संकरनामासौ भविष्यति खगेश्वर ।धर्मान्भागवतान्सर्वान्विनाशयति सर्वथा ॥७१॥तदा भूमौ वासुदेवो भविष्यति न संशयः ।यज्ञार्थैः सदृशो यस्य नास्ति लोके चतुर्दशे ॥७२॥अतः स प्रज्ञया पूर्णो भविष्यति न संशयः ।अवतारास्त्रयो वायोर्मतं भागवताभिधम् ॥७३॥स्थापनं दुष्टदमनं द्वयमेव प्रयोजनम् ।नान्यत्प्रयोजनं वायोस्तथा वैरोचनात्मके ॥७४॥अवतारत्रये वीन्द्र दुः खं गर्भादिसंभवम् ।नास्ति नास्त्येव वायोस्तु तथा वैरोचनादिके ॥७५॥शुक्रशोणितसंबन्धो ह्यवतारचतुष्टये ।नास्ति नास्त्येव पक्षीन्द्र यतो नास्त्यशुभं ततः ॥७६॥पूर्वं गर्भं समाशोष्य समये प्रभवस्य च ।प्रादुर्भवति देवेशी ह्यवतारचतुष्टये ॥७७॥त्रयोविंशतिरूपाणां वायोश्चैव खगेश्वर ।रूपैरृजुस्वरूपैश्च ब्रह्मणः परमेष्ठिनः ॥७८॥सत्यमेव न संदेहो नित्यानन्दसुखादिषु ।एवमेव विजानीयान्नान्यथा तु कथञ्चन ॥७९॥एतस्य श्रवणादेव मोक्षं यान्ति न संशयः ।तदनन्तरजान्वक्ष्ये शृणु पक्षीन्द्रसत्तम ॥८०॥कृतौ प्रद्युम्नतश्चैव समुत्पन्ने खगेश्वर ।स्त्रियौ द्वे यमले चैव तयोर्मध्ये तु यद्यिका ॥८१॥वाणीतिसंज्ञकां वीन्द्र ब्रह्माणीसंज्ञकां विदुः ।पुरुषाख्यविरिञ्चस्य भार्या सावित्रिका मता ।चतुर्मुखस्य भार्या तु कीर्तिता सा सरस्वती ॥८२॥एवं त्रिरूपं विज्ञेयं वाण्याश्च खगसत्तम ।वक्ष्येऽवतारान् भारत्याः समाहितमनाः शृणु ॥८३॥सर्ववेदाभिमानित्वात्सर्ववेदात्मिका स्मृता ।महाध्यातुश्च वायोस्तु भार्यासा परिकीर्तिता ॥८४॥ज्ञानरूपस्य वायोस्तु भार्या सा परिकीर्तिता ।सदा सुखस्वरूपत्वाद्भारती तु सुखात्मिका ॥८५॥सुखस्वरूप वायोस्तु भार्या सा परिकीर्तिता ।गुरुस्तु वायुरेवोक्तस्तस्मिन् भक्तियुता सती ॥८६॥ततस्तु भारती नित्या गुरुभक्तिरिति स्मृता ।महागुरोर्हि वायोश्च भार्या वै परिकीर्तिता ॥८७॥हरौ स्नेहयुतत्वाच्च हरिप्रीतिरिति स्मृता ।धृतिरूपस्य वायोश्च भार्या सा परिकीर्तिता ॥८८॥सर्वमन्त्राभिमानित्वात्सर्वमन्त्रात्मिका स्मृता ।महाप्रभोश्च वायोश्च भार्या वै सा प्रकीर्तिता ॥८९॥भुज्यन्ते सर्वभोगास्तु विष्णुप्रीत्यर्थमेवच ।अतस्तु भारती ज्ञेया भुजिनाम्ना प्रकीर्तिता ॥९०॥चित्ररूपस्य वायोस्तु भार्या सा परिकीर्तिता ।रोचनेन्द्रस्य भार्या च श्रद्धाख्या परिकीर्तिता ॥९१॥हनुमांश्च तदा जज्ञे त्रेतायां पक्षिसत्तम ।तदा शिवाख्यविप्राच्च जज्ञे सा भारती स्मृता ॥९२॥न केवलं भारती साशच्याद्यैश्चैव संयुता ।तस्मिन्संजनिताः सर्वाः प्रापुर्योगं स्वभर्तृभिः ॥९३॥अन्यगेति च विज्ञेया कन्या तन्मतिसंज्ञिका ।त्रेतान्ते सैव पक्षीन्द्र शच्याद्यैश्चैव संयुता ॥९४॥दमयन्त्यनलाज्जाता इन्द्रसेनेति चोच्यते ।नलं नन्दयते यस्मात्तस्माच्च नलनन्दिनी ॥९५॥तत्र स्वभर्तृसंयोगं नैव चाप खगेश्वर ।तत्रान्यगात्वं विज्ञेयं पुरुषस्थेन वायुना ॥९६॥किञ्चित्कालं तथा स्थित्वा कन्यैव मृति माप सा ।शच्यादिसंयुता सैव द्रुपदस्य महात्मनः ॥९७॥वेदिमध्यात्समुद्भूता भीमसेनार्थमेव च ।तत्रान्यगात्वं नास्त्येव योगश्च सह भर्तृभिः ॥९८॥केवला भारती ज्ञेया काशिराजस्य कन्यका ।काली नाम्ना तु सा ज्ञेया भीमसेनप्रिया सदा ॥९९॥वाच्यादिभिः संयुतैवद्रौपदी द्रुपदात्मजा ।देहं त्यक्त्वाविशिष्टैव कारटीग्रामसंज्ञकै ॥१००॥संकरस्य गृहे वीन्द्र भविष्यति कलौ युगे ।वायोस्तृतीयरूपार्थं सा कन्यैव मृतिं गता ॥१०१॥इत्याद्या वायुभार्याश्च ब्रह्मभार्याश्च सतम ।स्वभर्तृभ्यां च पक्षीन्द्र गुणैश्चैव शताधमाः ॥१०२॥इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे महालक्ष्म्यवतारादिनिरूपणं नाम षोडशोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP