संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|ब्रह्मकाण्डः (मोक्षकाण्डः)| अध्यायः १० ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ ब्रह्मकाण्डः - अध्यायः १० विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः १० Translation - भाषांतर गरुड उवाच ।देवैरेवं स्तुतो विष्णुर्भगवान्सात्त्वतां पतिः ।कीदृशं ह्याश्रयं दत्त्वैषां विवेश महाप्रभुः ॥१॥एतद्वेदितुमिच्छामि कृष्णकृष्ण महाप्रभो ।सम्यग्ब्रूहि दयालो त्वं यदि मच्छ्रोत्रमर्हति ॥२॥श्रीकृष्ण उवाच ।तेषु तत्त्वेषु भगवान्स विवेश महाप्रभुः ।क्षोभयामास भगवान् संबन्धविधुरो हरिः ॥३॥अदौ ससर्ज भगवान् ब्रह्माण्डं कन कात्मकम् ।पञ्चाशत्कोटिविस्तीर्णं योजनानां समन्ततः ॥४॥तदूर्ध्वमण्ववयवस्तावान्कनकरूपकः ।वर्तते तत ऊर्ध्वं तु पञ्चाशत्कोटिभूतलम् ॥५॥एवं कोटिशतं तस्यावयवः परिकीर्तितः ।ततश्च सप्तावरणैः समतात्परिधीकृतम् ॥६॥कबन्धावरणं ह्याद्यं कोट्या दशसहस्रकम् ।द्वितीया वरणं ज्ञेयं पावकस्य महात्मनः ॥७॥अपां दशगुणैर्युक्तं समन्तात्परिधी (खी) कृतम् ।तृतीयावरणं ज्ञेयं हरस्यैव महात्मनः ॥८॥दशाधिकं पावकाच्च समन्तात्परिवारितम् ।चतुर्थावरणं ज्ञेयं नभसोपि महाप्रभो ॥९॥हराद्दशगुणैरेवं समन्तात्परिवारितम् ।पञ्चमावरणं ज्ञेयमहङ्काराख्यमेवच ॥१०॥व्योम्नो दशगुणैरेवं समन्तात्परिवारि तम् ।षष्ठमावरणं प्रोक्तं महत्तत्त्वं खगेश्वर ॥११॥अहङ्काराद्दशगुणं समन्तात्परिवारितम् ।सप्तमावरणं प्रोक्तं त्रिगुणावरणं प्रभो ॥१२॥महत्तत्त्वाद्दशगुणैरधिकं परिकीर्तितम् ।महत्तत्त्वानन्तरं च तमो ह्यावरणं स्मृतम् ॥१३॥महत्तत्त्वात्पञ्चगुणैरधिकं परिकीर्तितम् ।तस्माच्च द्विगुणं ज्ञेयंरजो ह्यावरणं स्मृतम् ॥१४॥ततश्च द्विगुणं ज्ञेयं सत्त्वावरणमुत्तमम् ।त्रयश्चैवं मिलित्वा तु एकावरणमीरितम् ॥१५॥अव्याकृताख्यमाकाशं तदनन्तरमीरितम् ।मर्यादारहितश्चैवं तत्रास्ते हरिरव्ययः ॥१६॥अष्टमावरणं व्योम्नोरं तरा विरजा नदी ।पञ्चयोजनविस्तीर्णा समन्तात्परीधीकृता ॥१७॥अस्ति पुण्यतमा ज्ञेया लोकसंसारनाशिनी ।एवं चतुर्मुखेनैव तदा हृष्यं ति चाण्डज ॥१८॥ते सर्वे विरजानद्यां सम्यक्स्नात्वा विसर्ज्य च ।लिङ्गदेहं ततः पश्चान्मोक्षं विन्दन्ति ते हरेः ॥१९॥अपरोक्षदृशामेवं ब्रह्मणा सह गामिनाम् ।विरजातरणं विद्धि नान्येषां विनतासुत ॥२०॥अपरोक्षदृशां ब्रह्मन्व्यासादीनां खगेश्वर ।विरजातरणं नास्ति भोक्तव्यत्वाच्च कर्मणः ॥२१॥विरिञ्चेनैव साकं तु कल्पेस्मिन्नधिकारिणाम् ।तेषां तु नियमेनैव सर्वप्रारब्धसंक्षयः ॥२२॥भवत्येवं न संदेहो नान्येषां सर्वसंक्षयः ।अतस्तु विरजातरणं तेषामेव भवेत्पटो ॥२३॥विरजातरणं नास्ति तेषां त (तयोस्त)त्संगिनां तथा ।सर्वारब्धक्षयो नास्ति यतस्तेषां खगाधिप ॥२४॥अतश्च सर्वथा नास्ति विरजातरणं प्रभो ।प्रलये विरजानद्या लयो नास्ति खगेश्वर ॥२५॥लक्ष्म्यात्मिका तु सा ज्ञेया लिङ्गदेहविदारिणी ।ब्रह्मत्वयोग्या ऋजवो नाम देवाः प्रकीर्तिताः ॥२६॥तेपि प्रत्येकशः संति ह्यनन्ताश्च पृथग्गणाः ।पृथक्पृथक्च तैः साकं मोक्षयोग्याः खगेश्वर ॥२७॥जीवाः संति ह्यनेके च प्रतिकल्पे सृजन्ति ते ।द्वात्रिंशल्लक्षणैः सम्यग्युक्ता वायुत्वयोग्यकाः ॥२९॥(१०.२८)अष्टाविंशल्लक्षणैश्च गिरीशपदयोगिनः ।चतुर्विंशतिमारभ्याषोडशाच्च सुराः स्मृताः ॥२९॥अष्टका ऋषयः प्रोक्तास्तदूनाश्चक्रवर्तिनः ।शतजन्म समारभ्य ब्रह्मणः परमेष्ठिनः ॥३०॥अपरोक्षमिति प्रोक्तं तथा ह्यारब्धसंक्षयः ।एकेन शतकल्पेन वायुत्वं याति भो द्विज ॥३१॥शतजन्मनि ब्रह्मत्वं याति पश्चाद्धरेः पदम् ।चत्वारिंशद्ब्रह्मकल्पं समारभ्य खगेश्वर ॥३२॥रुद्रस्याप्यापरोक्ष्यं स्यात्तथा प्रारब्धसंक्षयः ।एकचत्वारिंशकल्पे शेषत्वं याति सुव्रत ॥३३॥ब्रह्मणा सह मोक्षं च याति सम्यङ्न चान्यथा ।कल्पविंशतिमारभ्य ब्रह्मणः परमेष्ठिनः ॥३४॥इन्द्रस्याप्यापरोक्ष्यं स्यात्तथा प्रारब्धसंक्षयः ।ब्रह्मणैव सहायाति हरिं नारायणं परम् ॥३५॥गरुड उवाच ।पञ्चाशीतिब्रह्मकल्पं समारभ्य महाप्रभो ।रुद्रस्याप्यापरोक्ष्यं स्यात्तथा प्रारब्धसंक्षयः ॥३६॥इति श्रुतं मया ब्रह्मन्ब्रह्मणोक्तं हरेः प्रियात् ।इत्थं त्वयोक्तं श्रीकृष्ण संशयोबाधते मम ॥३७॥अतो मे संशयं छिन्धि यथा न स्यात्तथा पुनः ।इति तद्वचनं श्रुत्वा कृष्णो वचनमब्रवीत् ॥३८॥श्रीकृष्ण उवाच ।ब्रह्मोक्तस्य मयोक्तस्य विवादो नास्ति सर्वथा ।संदेहस्त्वज्ञदृष्टीनां ज्ञानिनां नास्ति सर्वथा ॥३९॥अशीतिह्यष्टका प्रोक्ता अष्टपञ्च खगेश्वर ।चत्वारिंशद्ब्रह्मकल्प एवं प्राह चतुर्मुखः ॥४०॥तत्त्वानां बहुगोप्यत्वात्तथोक्तं ब्रह्मणा पुरा ।अभिप्रायस्त्वेवमेव ज्ञातव्यो नात्र संशयः ॥४१॥पञ्चा शीतिब्रह्मकल्पं ये विजानन्ति भो द्विज ।तेन्धं तमः प्रविशन्ति सत्यंसत्यं मयोदितम् ॥४२॥विरजानन्तरं विप्रं तथा व्याकृतमंबरम् ।अनन्तपारं तदपि लक्ष्मीस्तस्याभिमानिनी ॥४३॥संख्यानुगणनं नाम यस्य नास्ति महाप्रभो ।न दानं जातिप्रोक्तं सर्वदा नास्ति संशयः ॥४४॥अण्डाभिमानी ब्रह्मा तु विराडाख्यो ह्यभूत्तदा ।एवं मतं स निर्माय भगवान्हरिख्ययः ॥४५॥विशेषात्तत्र गरुड देवैस्तत्त्वाभिमानिभिः ।अधश्चोर्ध्वं तदाक्रम्य हरिस्तिष्ठति सर्वदा ॥४६॥एवं प्राकृतसर्गोक्तिर्वैकृतं शृणु पक्षिराट् ॥४७॥गरुड उवाच ।सृष्टिरुक्ता त्वया पूर्वं श्रुता सम्यङ्मया हरे ॥४८॥किं नाम प्राकृतं ज्ञेयं तथा किं वैकृतं प्रभो ।एतद्विस्तीर्य मे ब्रूहि श्रोतुं कौतूहलं हि मे ॥४९॥श्रीकृष्ण उवाच ।अव्यक्ताद्याः पृथिव्यन्ता अण्डाच्च बहिरुद्भवाः ।ते सर्वे प्राकृताः प्रोक्तास्तेषां ज्ञानाद्विमच्यते ॥५०॥ब्रह्माडं विकृतं ज्ञेयं ब्रह्माण्डान्तः खगेश्वर ।या सृष्टिरुच्यते सद्भिः सैवोक्ता विकृतेति च ॥५१॥सृष्टिश्च प्रलयश्चैव संसारो भक्तिरेव च ।देवता ऋषिमुख्याश्च लोका भूरादयस्तथा ॥५२॥अनाद्यनन्तकालीनाः सर्वदैकप्रकारकाः ।जगत्प्रवाहः सत्योऽयं नैव मिथ्या कथञ्चन ॥५३॥यत्त्वेतदन्यथा ब्रूयुः सर्वहन्तार एव ते ।जगत्प्रवाहः सत्योऽयं हरिसेवेतिसाथा ॥५४॥सत्यं सत्यं पुनः सत्यमुद्धत्य भुजमुत्यते ।वेदाच्छास्त्रं परं नास्ति न देवः केशवात्परः ॥५५॥सर्वोत्कृष्टं केशवं च विहायान्यमुपासते ।तेषामन्धं तमो ज्ञेयं पितॄणां गरुणामपि ॥५६॥इदानीं शृणु पक्षीन्द्र वैकृतं सर्गमुत्तमम् ।सम्यग्जानाति यो लोके स याति परमं पदम् ॥५७॥इति श्रीगारुडे महापुराणे श्रीकृष्णगरुडसंवादे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे ब्रह्माण्डादिवैकृतैकदेशप्राकृतसृष्टिनिरूपणं नाम दशमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP