संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|गरूडपुराणम्|ब्रह्मकाण्डः (मोक्षकाण्डः)| अध्यायः ११ ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ ब्रह्मकाण्डः - अध्यायः ११ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ११ Translation - भाषांतर श्रीकृष्ण उवाच ।पुरुषाख्यो हरिः साक्षाद्भगवान्पुरुषोत्तमः ।शिश्येत्वण्डोदक विष्णुर्नृणां साहस्रवत्सरम् ।लक्ष्मीश्चोदकरूपेण शय्यारूपेण भोण्डजा ॥१॥विद्या तरङ्गरूपेण वायुरूपेण भोण्डज ॥२॥तमोरूपेण सैवासी न्नान्यदासीत्कथञ्चन ।असीद्गर्भोदके चैव नान्यदासीत्कथञ्चन ॥३॥लक्ष्मीस्तुष्टाव च हरिं गर्भोदे पक्षिसत्तम ।लक्ष्मीधराभ्यां रूपाभ्यां प्रकृतिर्हरिणा तथा ॥४॥शेत श्रुतिस्वरूपेण स्तौति गर्भोदके हरिम् ।नारायण नमस्तेऽस्तु शृणु विज्ञापनं मम ॥५॥अजां जहि महाभाग योग्यानां मुक्तिमावह ।अजा तु प्रकृतिः प्रोक्ता चापरा प्रकृतिः परा ॥६॥शततोवरा तु ब्रह्माणी ब्रह्मपत्नी वरानना ।उमा शच्यवरा तस्या अवराः संप्रकीर्तिताः ॥७॥एतासां हननं नैव प्रार्थयामः सदा हरे ।अस्ति प्रतिनृषु ब्रह्म प्रकृती द्वे व्यवस्थिते ॥८॥एका तु नित्यसंसारा त्वजशब्दाभिधायिका ।द्वितीया तु तमोऽपोह्या अजशब्दाभिधायिका ॥९॥अत एव त्वजे ज्येष्ठे इति लोके प्रकीर्तिते ।सुखदुः खप्रदा चैव अपरा दुः खदैव तु ॥१०॥मोक्षाधिकारिणामेव ज्ञानैश्वर्यादयो गणाः ।तेषामाच्छादिका होका तमोङ्गा सा प्रकीर्तिता ॥११॥जीवं प्रति महाविष्णुं पाह्याच्छादयति प्रभो ।सा परा प्रकृतिर्ज्ञेया परमाच्छादिका स्मृता ॥१२॥एवं सा परमा दुष्टा होका तमोङ्गा तु प्रकीर्तिता ।जीववर्गेष्वेव खग ब्रह्मादेर्नास्ति सा क्वचित् ॥१३॥पिशाचवत्समुद्दिष्टा जीवस्येत्यधिकारिणः ।प्रेरिका तु तयोर्देव्यो स्त्वहमाद्या सुखात्मिका ॥१४॥तत्र विष्णो महाभाग सगुणाच्छादको हितः ।परमाच्छादिकां दुष्टां व्यामुच्यैव महाप्रभो ॥१५॥मोक्षं देहि महादेव त्वद्भक्तानां महाप्रभो ।परमाच्छादिका ह्यस्मान्नित्य संसारिणो यतः ॥१६॥अत एव च नित्यत्वात्तस्मात्तदपसारणम् ।कुरु देव महाभाग इति विज्ञायतां मम ॥१७॥एवं स्तुतो हरिः कृष्णो सुप्रबुद्धोऽपि सर्बदा ।उद्वुद्धवन्महा विष्णुरभूदज्ञपरीक्षया ॥१८॥तस्य नाभेरभूत्पद्मं सौवर्णं भुवनाश्रयम् ।तत्प्राकृतं च विज्ञेयं भूदेवी त्वभिमानिनी ॥१९॥अनन्तसूर्यवच्चैव प्रकाशकरमीरितम् ।चिदानन्दमयो विष्णुस्तस्माद्भिन्नो न संशयः ॥२०॥विष्णोः स्वरूपभूतं च ये विजानन्ति ते नराः ।ते यान्ति ह्यधरं लोकं तथा तत्संगिसंगिनः ॥२१॥किरीटादिकवच्चैव ज्ञातव्यं च खगेश्वर ।किरीटाद्या अपि हरेर्द्विधा संति न संशयः ॥२२॥स्वरूपा ह्यस्वरूपाश्च स्वस्वरूपनि दर्शने ।गृहीता इति विज्ञेया न स्वरूपाः खगेश्वर ॥२३॥भ्माण्डं ह्यसृजत्तत्र सर्वलोकविधायकम् ।प्रलये मुक्तिहीनश्च सुप्त इत्युच्यते बुधः ॥२४॥तस्य समिवस्त्रिवं च न ज्ञातव्या खगेश्वर ।प्रलयोपि महाभाग ब्रह्मवाय्वोर्न चास्ति हि ॥२५॥वृत्तिरूपं परं ज्ञानं पाद्यार्घ्यं नात्र संशयः ।इन्द्रियाणामुपरतिः सुप्तिरित्युच्यते बुधैः ॥२६॥ब्रह्मवाय्वोश्च पासग्नि वास्तवं स्यात्खगेश्वर ।कथं तर्हि तयोर्वर्ते ह्यविलत्यत्वमुच्यते ॥२७॥तस्मात्तद्वास्तवं नास्ति ब्रह्मवाय्वोः खगेश्वर ।स्वप्नावस्थायाः सदृशी ह्यवस्था सुप्तिसंज्ञिका ॥२८॥ब्रह्मण्यमुख्यया वृत्त्या ह्यस्तीत्येवं निबोध मे ।अतो न वास्तवमिदमङ्गीकार्यं खगेश्वर ॥२९॥वास्तवं ये विजानन्ति तेषां नित्यं धनं तपः ।श्रीगरुड उवाच ।सुप्तिस्त्वज्ञानकार्यत्वात्सुप्तिर्नास्तीत्युदीरिता ॥३०॥यदा हि कारणं चास्ति तदा कार्यमिति प्रभो ।इत्यभिप्रायगर्भेण त्वं समाधास्य ते यदि ॥३१॥तर्हि तस्य महाभाग कथं ब्रूहि भयादिकम् ।भयादिकं ह्यस्तु नाम का वास्माकं क्षतिर्भवेत् ॥३२॥एवमुक्तस्तु गोविन्दोब्रवीत्तत्रापि कारणम् ।भयं त्वज्ञानकार्यं स्यात्कार्याकारणमत्र हि ॥३३॥प्रीयते मत्वा ब्रह्म तस्मात्सुप्तिश्च तत्र हि ।अज्ञादिकं यदि ब्रह्म तस्य न स्यात्कथञ्चन ॥३४॥कथं सुखी प्रदृश्येत न कथञ्चित्करिष्यति ।कथं वा मुक्तिपर्यन्तं ज्ञानव्यक्तिर्वदस्व मे ॥३५॥यद्यज्ञानं तस्य सत्यं न स्यात्तर्हि महाप्रभो ।अत्यादरात्कथं ब्रह्मञ्छ्रवणं कुरुते वद ॥३६॥इति तस्य वचः श्रुत्वा कृष्णो वचनमब्रवीत् ।भयं च वास्तवं तस्य न जानीहि महामते ॥३७॥दृश्यते मद्भयं तस्य हरिप्रीत्यर्थमेव च ।भयाकामवतीवानमुवास्तवमीरितम् ॥३८॥प्राप्तप्राब्धलेशस्त तस्य नास्ति खगेश्वर ।दुः खाज्ञानादिकं किञ्चित्कथं तस्मिन् भविष्यति ॥३९॥विष्णोराज्ञानुसारेण भयायानुकरोत्यसौ ।तेन प्रीणाति च हरिस्तस्य नास्त्यत्र संशयः ॥४०॥शृणोति सततं ब्रह्मा न चिन्त्यात्तावताज्ञता ।कदाचिद्दृश्यते ब्रह्मा दुः खी न च खगेश्वर ॥४१॥यद्ब्रह्म च न जानीयाद्धरिप्रीत्यर्थमेव च ।दुः खिवद्दृश्यते ब्रह्मा आज्ञानां मोहनाय च ॥४२॥योग्यतामनतिक्रम्य यावज्ज्ञानं च तिष्ठति ।ब्रह्मणस्तावदेवास्ति नात्र कार्या विचारणा ॥४३॥ज्ञानस्य व्यक्तता नाम विद्यमानस्य चादरात् ।ज्ञानस्यासादनं चैव ज्ञानव्यक्तिरिति स्मृता ॥४४॥अतो ज्ञानादिकं नास्ति ब्रह्मणः परमेष्ठिनः ।पद्माद्धिरण्म याज्जातो ब्रह्मा तु चतुराननः ॥४५॥सर्वदाऽलोचनायुक्तस्तेन स्वालोचनं कृतम् ।अज्ञानां मोहनार्थाय हरिप्रीत्यर्थमेव च ॥४६॥संकल्पोपि तथैवास्ति न ह्यज्ञानात्कृतस्तथा ।को वा मां सृष्टवानत्र इति ह्यालोच्य स प्रभुः ॥४७॥तं विचारयितुं ब्रह्मा पद्मनाडीं विवेश ह ॥४८॥इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे श्रीकृथ्णगरुडसंवादेऽज्ञानहेतुनिरूपणं नामैकादशोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP