संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|गरूडपुराणम्|ब्रह्मकाण्डः (मोक्षकाण्डः)| अध्यायः ४ ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ ब्रह्मकाण्डः - अध्यायः ४ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ४ Translation - भाषांतर श्रीकृष्ण उवाच ।यथा ससर्ज भगवांस्त्रीन् गुणान्प्रकृतेस्तदा ।लक्ष्मीस्त्रिरूपा संभूता श्रीर्भूर्दुर्गोति संज्ञिता ॥१॥सत्त्वाभिमानिनी श्रीस्तु भूर्देवी रजमानिनी ।तमोभिमानिनी दुर्गा ह्येवमाहुर्मनीषिणः ॥२॥अन्तरं न विजानीयाद्रूपाणां च परस्परम् ।गुणानां चैव संबन्धाद्दुर्गादीनां खगेश्वर ॥३॥अन्तरं ये विजानन्ति ते यान्त्यन्धन्तमः परम् ।पुरुषस्तु त्रिरूपोभूद्विष्णुर्ब्रह्मा भवेतिसः ॥४॥सत्त्वेन लोकान्वर्धयितुं विष्णुः साक्षाद्धरिः स्वयम् ।सृष्टिं कर्तुं च रजसा ब्रह्मणि प्राविशद्धरिः ॥५॥आद्यो ब्रह्मा स विज्ञेयो न तु साक्षाद्धरिः स्वयम् ।तमसापि समान्हन्तुं रुद्रे च प्राविशद्धरिः ॥६॥रुद्रे स्थितो रुद्रसंज्ञो न रुद्रस्तु हरिः स्वयम् ।विष्णुरेव हरिः साक्षात्तावुभौन हरी स्मृतौ ॥७॥आविष्टरूपौ विज्ञेयौ ब्रह्मरुद्राभिधायकौ ।एवं ज्ञात्वा मोक्षमेति नान्यथा तु कथञ्चन ॥८॥विष्णुब्रह्मादिरूपाणामैक्यं जानन्ति ये द्विजाः ।ते यान्ति नरकं घोरं पुनरावृत्तिवर्जितम् ॥९॥गुणत्रयं प्रविष्टस्तु पुरुषो हरिरव्ययः ।कार्योन्मुखं यथा भूयात्क्षोभयामास वै तथा ॥१०॥जातक्षोभाद्भगवतो महानासीद्गुणत्रयात् ।गुणत्रये विद्यमानाद्भागादेव न संशयः ॥११॥महतो ब्रह्मवायू च जज्ञाते खाभिमानिनौ ।तस्य संवत्सरात्पश्चाद्यमलौ संबभूवतुः ॥१२॥रजः प्रधानं यत्तत्वं महत्तत्तवमितीरितम् ।सर्गं त्विमं विजानीयाद्गुणवैषम्यनामकम् ॥१३॥गरुड उवाच ।महत्तत्तवस्वरूपस्य ज्ञानार्थं देवकीसुत ।त्वयोक्ता गुणवैषम्यनामिका सृष्टिरुत्तमा ॥१४॥गुणवैषम्यशब्दार्थं मम ब्रूहि महाप्रभो ।श्रीकृष्ण उवाच ।गुणवैषम्यशब्दार्थज्ञापनाय खगेश्वर ॥१५॥अपिक्षितं च तत्रादौ गुणसाम्यं न संशयः ।सम्यग्ज्ञापयितुं तत्र खादौ तावत्स्वगेश्वर ॥१६॥राशिभूतं गुणानां तु दर्शयिष्ये स्थितिं च वै ।राशीभूतस्य तसमः सकाशाद्विनतासुत ॥१७॥राशीभूतं रजो ज्ञेयन्द्विगुणं तत्तु नान्यथा ।राशीभूतस्य रजसः सकाशाद्विनतासुत ॥१८॥राशीभूतं तथा सत्त्वं द्विगुणं समुदाहृतम् ।मूलप्रकृतिजा ह्येते न मूला प्रकृतिः स्मृता ॥१९॥यतः प्रकृतिरूपाणां परिच्छेदो न विद्यते ।अतः प्रकृतिजा ज्ञेया न मूलास्ते खगेश्वर ॥२०॥एवं तव गुणानाञ्च परिमाणं खगेश्वर ।उक्तं स्वरूपं तेषां तु तव सम्यक्खगेश्वर ॥२१॥तत्र राशित्रये सत्त्वं केवलं समुदाहृतम् ।रजस्तमोभ्यां गरुड ह्यविमिश्रं ह्यतस्तु तत् ॥२२॥केवलं सत्त्वमित्युक्तं न तु श्रेष्ठत्वतः प्रभो ।सृष्टिकाले केवलं स्यात्प्रलये मिश्रितं भवेत् ॥२३॥सर्वदाप्यविमिश्रं च सत्त्वराशिं खगेश्वर ।सर्वदापि विमिश्रं च सत्त्वराशिं द्विजोत्तम ॥२४॥ये विजानन्ति ते सर्वे विशन्ति ह्यधरं तमः ।रजस्तमोगुणौ वीन्द्र इतराभ्यां विमिश्रितौ ॥२५॥सृष्टौ प्रलयकालेपि मिश्रावेव खगेश्वर ।राशिभूतेपि रजसि रजोभागाच्छताधिकम् ॥२६॥सत्त्वं च मिश्रितं ज्ञेयं नान्यथा पक्षिसत्तम ।रजसः शतभागानां मध्ये तु विनतासुत ॥२७॥य एको भाग उद्दिष्टस्तावत्परिमितं तमः ।राशिभूतेपि रजसि मिश्रितं परिकीर्तितम् ॥२८॥रजोराशिस्थितिस्त्वेवं तात व्याप्तं तमोगुणैः ।राशिभूतेपि तमसि सत्त्वं च विनतासुत ॥२९॥तमः सकाशाद्गरुड दशभागाधिकेन च ।मिश्रितं भवतीत्येवं ज्ञातव्यं नात्र संशयः ॥३०॥तमसो दशभागानां मध्ये तु विनतासुत ।य एको भाग उद्दिष्टस्तावत्परिमितं रजः ॥३१॥राशिभूतेपि तमसि मिश्रितं भवति ध्रुवम् ।तमोराशिस्थितिस्त्वेवं ज्ञातव्या पक्षिसत्तम ॥३२॥गरुड उवाच ।रशिभूतेपि रजसि राशिभूते तमस्यपि ।सत्त्वांशा ह्यधिकाः संतीत्येवमुक्तं मयानघ ॥३३॥तत्र मे संशयो ह्यस्ति शृणु त्वं सात्त्वतां पते ।यद्राश्यां यद्रा शिभागा ह्यधिकाः संति यावता ॥३४॥तावता व्यवहारः स्यात्क्षीरनीरमिव प्रभो ।श्रुत्वा स गरुडेनोक्तं भगवान्पुरुषोत्तमः ॥३५॥उवाच पर मप्रीत्या संस्तुवन् गरुडं हरिः ।श्रीकृष्ण उवाच ।रजोराश्या तमोराश्या सत्त्वराश्यधिका सदा ॥३६॥मिश्रितं चापि पक्षीन्द्र न सत्तवमिति कीर्त्यते ।रजोराशिस्तमोराशिरित्येवं विबुधा विदुः ॥३७॥विषं तु चरुदुग्धस्थं विषमित्युच्यते यथा ।एवं मयोक्ता गरुड गुणानां निजसंस्थितिः ॥३८॥साम्यावस्थां गुणानां च शृण्विदानीं खगेश्वर ।राशीकृताच्च रजसः जन्यं यच्च कगेश्वर ॥३९॥महत्तत्त्वे प्रविष्टं च यद्रजः परिकीर्तितम् ।प्रलये समनुप्राप्ते महत्तत्त्वे स्थितं रजः ॥४०॥द्वादशांशेन तु ह्यद्धा विभक्तं भवतिं प्रभो ।राशीभूते हि सत्त्वे तु दशभागेन मिश्रितम् ॥४१॥सम्यक्भवति पक्षीन्द्र तथैकांशेन चाण्डज ।तमोराश्या मिश्रितं च भवत्येव न संशयः ॥४२॥अन्येनैकेन भागेन रजोराश्या खगेश्वर ।मिश्रितं भवतीत्येवं ज्ञातव्यं नान्यथा क्वचित् ॥४३॥गुणत्रयेपि भगवान्महत्तत्त्वस्य चाण्डज ।एवं लयस्तु ज्ञातव्यो हृदि तत्त्वार्थवोदिभिः ॥४४॥एवं गुणत्रयाणां च मिश्रितत्त्वात्खगेश्वर ।गुणसाम्यमिति प्राहुरेवं जानीहि वै खग ॥४५॥अन्यथा ये विजानन्ति ते यान्ति ह्यधरं तमः ।गरुड उवाच ।राशीकृतगुणानां च त्रयाणां परमेश्वर ॥४६॥विशालानां परं ब्रह्मन्प्रलये गुणसाम्यता ।कथं ब्रूहि महाभाग एतत्तत्त्वं समासतः ॥४७॥श्रीकृष्ण उवाच ।राशीभूतगुणानां तु त्रयणामपि सत्तम ।तदा विमिश्रितत्वेन ह्यवस्थानं विदुर्बुधाः ॥४८॥इदानीं गुणवैषम्यं शृणु सम्यङ्मम प्रिय ।सृष्टिकाले तु संप्राप्ते यत्पूर्वं प्रलये खग ॥४९॥दशभागैश्च सत्त्वे तु मिश्रितं यद्र जस्तथा ।तमस्यप्येकभागेन प्रविष्टं यत्तु तद्रजः ॥५०॥रजस्यप्येकभागेन प्रविष्टं यच्च तद्रजः ।एवं द्वादशभागैश्च प्रविष्टं सर्वशो रजः ॥५१॥सत्त्वस्तैर्दशभागैश्च तथैकेन रजोंशिना ।एवमेकादशैर्भागैस्तमस्थांशेन वै व्दिज ॥५२॥मिश्रितं भवति ह्यद्धा महत्तत्त्वं तदा स्मृतम् ।एतदन्यो विशेषश्च मन्तध्यो विनतासुत ॥५३॥एकांशस्तामसो ज्ञेयो महत्तत्त्वे न संशयः ।एवं त्रयोदशैर्भागैर्मिश्रितं तच्च सत्तम ॥५४॥एवमेतद्विजानीयान्नान्यथा तु कथञ्चन ।गरुड उवाच ।चतुर्मुखाच्छ्रुतं पूर्वं भगवन्सात्त्वतां पते ॥५५॥चतुर्भागात्समुत्पन्नं महत्तत्त्वमिति प्रभो ।तत्रैकांशस्तमः प्रोक्तः त्रिभागो रज एव च ॥५६॥तदाहुर्ब्रह्मणो रूपं गुणवैषम्यनामकम् ।चतुर्भागात्मकं प्रोक्तं महत्तत्त्वं श्रुतं मया ॥५७॥त्रयोदशांशैः संभूतमिति प्रोक्तं त्वयानघ ।तदेतत्संशयं छिन्धि कृपालो भक्तवत्सल ॥५८॥श्रीकृष्ण उवाच ।ब्रह्मोक्तम्य मयोक्तस्य विवादो नास्ति सर्वथा ।मूलसत्त्वे मिश्रितं च दशभागेन यद्रजः ॥५९॥तत्सर्वं च मिलित्वैव त्वेको भागस्तु कीर्तितः ।मूले रजसि यच्चोक्तो रजोभागः खगेश्वर ॥६०॥भागे द्वितीये विज्ञेयस्तद्रजो नात्र संशयः ।मूले तमसि यच्चोक्तो रजोभागस्तथैव च ॥६१॥तृतीयभागो विज्ञेयो नात्र कार्या विचारणा ।तथा मूले च तमसि ह्येको भागस्तमः स्मृतः ॥६२॥एवं त्रिभागो रजसः एकांशस्तमसः स्मृतः ।तदाहुर्ब्रह्मणो देहं गुणवैषम्यनामकम् ॥६३॥गरुड उवाच ।महत्तत्त्वस्य चत्वारो भागास्तेषु रजस्त्रयः ।तमसस्त्वेक एवेति त्वयोक्तं गरुडध्वज ॥६४॥रजोभागात्मको देहोः ब्रह्मणः परमेष्ठिनः ।इति प्रतीयते ब्रह्मन्वचनात्तव माधव ॥६५॥शुद्धसत्त्वात्मको देहो ब्रह्मणः परमेष्ठिनः ।एवं हि श्रूयते कृष्ण संशयो मेत्र बाधते ॥६६॥तमेवं संशयं छिन्धि यद्धि तच्छ्रोतुमर्हति ।श्रीकृष्ण उवाच ।त्रिभागभूते रजसि तथा द्वादशधापि च ॥६७॥रजसोपेक्षया सत्त्वं दशांशाधिकमेव च ।प्रविष्टमस्तीति खग ज्ञातव्यं तच्छणु द्विज ॥६८॥तमसोपेक्षया सत्त्वं दशांशाधिकमेव वै ।प्रविष्टमस्तीति खग वक्तव्यं नात्र संशयः ॥६९॥तमसोपेक्षया तत्र तम एकादशं स्मृतम् ।एकांशस्तु रजो ज्ञेयमेवमाहुर्मनीषिणः ।एवं च मिलितान्भागान्वक्ष्ये शृणु महामते ॥७०॥महत्तत्त्वसमुत्पत्ता उपादानं खगेश्वर ।त्रयोदशांशा विज्ञेया द्वादशाशं रजः स्मृतम् ॥७१॥एकांशस्तमसो ज्ञेयस्तत्र भागाञ्छृणु द्विजा ।आदौ तु द्वादशांशेषु भागान्वक्ष्यामि तच्छृणु ॥७२॥एकांशस्तमसो ज्ञेयस्तद्दशां शाधिकं रजः ।तच्छतांशाधिकं सत्त्वमेवमाहुर्मनीषिणः ॥७३॥एकांशतमसि ह्येवं विभागाञ्छृणु सत्तम ।एकांशस्तु रजो ज्ञेयस्तमो ह्येका दशाधिकम् ॥७४॥तमोभागास्तु विज्ञेयास्तद्दशांशाधिकः स्मृतः ।सत्त्वभाग इति ज्ञेयो महत्तत्त्वे खगेश्वर ॥७५॥सत्त्वांशो बहुलो यस्माच्छुद्धसत्त्वं चतुर्मुखः ।उत्पत्तिर्महतश्चोक्ता एवं च विनतासुत ॥७६॥तज्ज्ञानान्मोक्षमाप्नोति नान्यथा तु कथञ्चन ॥७७॥इति श्रीगारुडे महापुराणे उत्तरखण्डे कृष्ण गरुडसंवादे तृतीयांशे ब्रह्मकाण्डे गुणवैषम्यभेदब्रह्मदेहस्वरूपगुणसाम्यनिरूपणं नाम चतुर्थोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP