ब्रह्मकाण्डः - अध्यायः ४
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
श्रीकृष्ण उवाच ।
यथा ससर्ज भगवांस्त्रीन् गुणान्प्रकृतेस्तदा ।
लक्ष्मीस्त्रिरूपा संभूता श्रीर्भूर्दुर्गोति संज्ञिता ॥१॥
सत्त्वाभिमानिनी श्रीस्तु भूर्देवी रजमानिनी ।
तमोभिमानिनी दुर्गा ह्येवमाहुर्मनीषिणः ॥२॥
अन्तरं न विजानीयाद्रूपाणां च परस्परम् ।
गुणानां चैव संबन्धाद्दुर्गादीनां खगेश्वर ॥३॥
अन्तरं ये विजानन्ति ते यान्त्यन्धन्तमः परम् ।
पुरुषस्तु त्रिरूपोभूद्विष्णुर्ब्रह्मा भवेतिसः ॥४॥
सत्त्वेन लोकान्वर्धयितुं विष्णुः साक्षाद्धरिः स्वयम् ।
सृष्टिं कर्तुं च रजसा ब्रह्मणि प्राविशद्धरिः ॥५॥
आद्यो ब्रह्मा स विज्ञेयो न तु साक्षाद्धरिः स्वयम् ।
तमसापि समान्हन्तुं रुद्रे च प्राविशद्धरिः ॥६॥
रुद्रे स्थितो रुद्रसंज्ञो न रुद्रस्तु हरिः स्वयम् ।
विष्णुरेव हरिः साक्षात्तावुभौन हरी स्मृतौ ॥७॥
आविष्टरूपौ विज्ञेयौ ब्रह्मरुद्राभिधायकौ ।
एवं ज्ञात्वा मोक्षमेति नान्यथा तु कथञ्चन ॥८॥
विष्णुब्रह्मादिरूपाणामैक्यं जानन्ति ये द्विजाः ।
ते यान्ति नरकं घोरं पुनरावृत्तिवर्जितम् ॥९॥
गुणत्रयं प्रविष्टस्तु पुरुषो हरिरव्ययः ।
कार्योन्मुखं यथा भूयात्क्षोभयामास वै तथा ॥१०॥
जातक्षोभाद्भगवतो महानासीद्गुणत्रयात् ।
गुणत्रये विद्यमानाद्भागादेव न संशयः ॥११॥
महतो ब्रह्मवायू च जज्ञाते खाभिमानिनौ ।
तस्य संवत्सरात्पश्चाद्यमलौ संबभूवतुः ॥१२॥
रजः प्रधानं यत्तत्वं महत्तत्तवमितीरितम् ।
सर्गं त्विमं विजानीयाद्गुणवैषम्यनामकम् ॥१३॥
गरुड उवाच ।
महत्तत्तवस्वरूपस्य ज्ञानार्थं देवकीसुत ।
त्वयोक्ता गुणवैषम्यनामिका सृष्टिरुत्तमा ॥१४॥
गुणवैषम्यशब्दार्थं मम ब्रूहि महाप्रभो ।
श्रीकृष्ण उवाच ।
गुणवैषम्यशब्दार्थज्ञापनाय खगेश्वर ॥१५॥
अपिक्षितं च तत्रादौ गुणसाम्यं न संशयः ।
सम्यग्ज्ञापयितुं तत्र खादौ तावत्स्वगेश्वर ॥१६॥
राशिभूतं गुणानां तु दर्शयिष्ये स्थितिं च वै ।
राशीभूतस्य तसमः सकाशाद्विनतासुत ॥१७॥
राशीभूतं रजो ज्ञेयन्द्विगुणं तत्तु नान्यथा ।
राशीभूतस्य रजसः सकाशाद्विनतासुत ॥१८॥
राशीभूतं तथा सत्त्वं द्विगुणं समुदाहृतम् ।
मूलप्रकृतिजा ह्येते न मूला प्रकृतिः स्मृता ॥१९॥
यतः प्रकृतिरूपाणां परिच्छेदो न विद्यते ।
अतः प्रकृतिजा ज्ञेया न मूलास्ते खगेश्वर ॥२०॥
एवं तव गुणानाञ्च परिमाणं खगेश्वर ।
उक्तं स्वरूपं तेषां तु तव सम्यक्खगेश्वर ॥२१॥
तत्र राशित्रये सत्त्वं केवलं समुदाहृतम् ।
रजस्तमोभ्यां गरुड ह्यविमिश्रं ह्यतस्तु तत् ॥२२॥
केवलं सत्त्वमित्युक्तं न तु श्रेष्ठत्वतः प्रभो ।
सृष्टिकाले केवलं स्यात्प्रलये मिश्रितं भवेत् ॥२३॥
सर्वदाप्यविमिश्रं च सत्त्वराशिं खगेश्वर ।
सर्वदापि विमिश्रं च सत्त्वराशिं द्विजोत्तम ॥२४॥
ये विजानन्ति ते सर्वे विशन्ति ह्यधरं तमः ।
रजस्तमोगुणौ वीन्द्र इतराभ्यां विमिश्रितौ ॥२५॥
सृष्टौ प्रलयकालेपि मिश्रावेव खगेश्वर ।
राशिभूतेपि रजसि रजोभागाच्छताधिकम् ॥२६॥
सत्त्वं च मिश्रितं ज्ञेयं नान्यथा पक्षिसत्तम ।
रजसः शतभागानां मध्ये तु विनतासुत ॥२७॥
य एको भाग उद्दिष्टस्तावत्परिमितं तमः ।
राशिभूतेपि रजसि मिश्रितं परिकीर्तितम् ॥२८॥
रजोराशिस्थितिस्त्वेवं तात व्याप्तं तमोगुणैः ।
राशिभूतेपि तमसि सत्त्वं च विनतासुत ॥२९॥
तमः सकाशाद्गरुड दशभागाधिकेन च ।
मिश्रितं भवतीत्येवं ज्ञातव्यं नात्र संशयः ॥३०॥
तमसो दशभागानां मध्ये तु विनतासुत ।
य एको भाग उद्दिष्टस्तावत्परिमितं रजः ॥३१॥
राशिभूतेपि तमसि मिश्रितं भवति ध्रुवम् ।
तमोराशिस्थितिस्त्वेवं ज्ञातव्या पक्षिसत्तम ॥३२॥
गरुड उवाच ।
रशिभूतेपि रजसि राशिभूते तमस्यपि ।
सत्त्वांशा ह्यधिकाः संतीत्येवमुक्तं मयानघ ॥३३॥
तत्र मे संशयो ह्यस्ति शृणु त्वं सात्त्वतां पते ।
यद्राश्यां यद्रा शिभागा ह्यधिकाः संति यावता ॥३४॥
तावता व्यवहारः स्यात्क्षीरनीरमिव प्रभो ।
श्रुत्वा स गरुडेनोक्तं भगवान्पुरुषोत्तमः ॥३५॥
उवाच पर मप्रीत्या संस्तुवन् गरुडं हरिः ।
श्रीकृष्ण उवाच ।
रजोराश्या तमोराश्या सत्त्वराश्यधिका सदा ॥३६॥
मिश्रितं चापि पक्षीन्द्र न सत्तवमिति कीर्त्यते ।
रजोराशिस्तमोराशिरित्येवं विबुधा विदुः ॥३७॥
विषं तु चरुदुग्धस्थं विषमित्युच्यते यथा ।
एवं मयोक्ता गरुड गुणानां निजसंस्थितिः ॥३८॥
साम्यावस्थां गुणानां च शृण्विदानीं खगेश्वर ।
राशीकृताच्च रजसः जन्यं यच्च कगेश्वर ॥३९॥
महत्तत्त्वे प्रविष्टं च यद्रजः परिकीर्तितम् ।
प्रलये समनुप्राप्ते महत्तत्त्वे स्थितं रजः ॥४०॥
द्वादशांशेन तु ह्यद्धा विभक्तं भवतिं प्रभो ।
राशीभूते हि सत्त्वे तु दशभागेन मिश्रितम् ॥४१॥
सम्यक्भवति पक्षीन्द्र तथैकांशेन चाण्डज ।
तमोराश्या मिश्रितं च भवत्येव न संशयः ॥४२॥
अन्येनैकेन भागेन रजोराश्या खगेश्वर ।
मिश्रितं भवतीत्येवं ज्ञातव्यं नान्यथा क्वचित् ॥४३॥
गुणत्रयेपि भगवान्महत्तत्त्वस्य चाण्डज ।
एवं लयस्तु ज्ञातव्यो हृदि तत्त्वार्थवोदिभिः ॥४४॥
एवं गुणत्रयाणां च मिश्रितत्त्वात्खगेश्वर ।
गुणसाम्यमिति प्राहुरेवं जानीहि वै खग ॥४५॥
अन्यथा ये विजानन्ति ते यान्ति ह्यधरं तमः ।
गरुड उवाच ।
राशीकृतगुणानां च त्रयाणां परमेश्वर ॥४६॥
विशालानां परं ब्रह्मन्प्रलये गुणसाम्यता ।
कथं ब्रूहि महाभाग एतत्तत्त्वं समासतः ॥४७॥
श्रीकृष्ण उवाच ।
राशीभूतगुणानां तु त्रयणामपि सत्तम ।
तदा विमिश्रितत्वेन ह्यवस्थानं विदुर्बुधाः ॥४८॥
इदानीं गुणवैषम्यं शृणु सम्यङ्मम प्रिय ।
सृष्टिकाले तु संप्राप्ते यत्पूर्वं प्रलये खग ॥४९॥
दशभागैश्च सत्त्वे तु मिश्रितं यद्र जस्तथा ।
तमस्यप्येकभागेन प्रविष्टं यत्तु तद्रजः ॥५०॥
रजस्यप्येकभागेन प्रविष्टं यच्च तद्रजः ।
एवं द्वादशभागैश्च प्रविष्टं सर्वशो रजः ॥५१॥
सत्त्वस्तैर्दशभागैश्च तथैकेन रजोंशिना ।
एवमेकादशैर्भागैस्तमस्थांशेन वै व्दिज ॥५२॥
मिश्रितं भवति ह्यद्धा महत्तत्त्वं तदा स्मृतम् ।
एतदन्यो विशेषश्च मन्तध्यो विनतासुत ॥५३॥
एकांशस्तामसो ज्ञेयो महत्तत्त्वे न संशयः ।
एवं त्रयोदशैर्भागैर्मिश्रितं तच्च सत्तम ॥५४॥
एवमेतद्विजानीयान्नान्यथा तु कथञ्चन ।
गरुड उवाच ।
चतुर्मुखाच्छ्रुतं पूर्वं भगवन्सात्त्वतां पते ॥५५॥
चतुर्भागात्समुत्पन्नं महत्तत्त्वमिति प्रभो ।
तत्रैकांशस्तमः प्रोक्तः त्रिभागो रज एव च ॥५६॥
तदाहुर्ब्रह्मणो रूपं गुणवैषम्यनामकम् ।
चतुर्भागात्मकं प्रोक्तं महत्तत्त्वं श्रुतं मया ॥५७॥
त्रयोदशांशैः संभूतमिति प्रोक्तं त्वयानघ ।
तदेतत्संशयं छिन्धि कृपालो भक्तवत्सल ॥५८॥
श्रीकृष्ण उवाच ।
ब्रह्मोक्तम्य मयोक्तस्य विवादो नास्ति सर्वथा ।
मूलसत्त्वे मिश्रितं च दशभागेन यद्रजः ॥५९॥
तत्सर्वं च मिलित्वैव त्वेको भागस्तु कीर्तितः ।
मूले रजसि यच्चोक्तो रजोभागः खगेश्वर ॥६०॥
भागे द्वितीये विज्ञेयस्तद्रजो नात्र संशयः ।
मूले तमसि यच्चोक्तो रजोभागस्तथैव च ॥६१॥
तृतीयभागो विज्ञेयो नात्र कार्या विचारणा ।
तथा मूले च तमसि ह्येको भागस्तमः स्मृतः ॥६२॥
एवं त्रिभागो रजसः एकांशस्तमसः स्मृतः ।
तदाहुर्ब्रह्मणो देहं गुणवैषम्यनामकम् ॥६३॥
गरुड उवाच ।
महत्तत्त्वस्य चत्वारो भागास्तेषु रजस्त्रयः ।
तमसस्त्वेक एवेति त्वयोक्तं गरुडध्वज ॥६४॥
रजोभागात्मको देहोः ब्रह्मणः परमेष्ठिनः ।
इति प्रतीयते ब्रह्मन्वचनात्तव माधव ॥६५॥
शुद्धसत्त्वात्मको देहो ब्रह्मणः परमेष्ठिनः ।
एवं हि श्रूयते कृष्ण संशयो मेत्र बाधते ॥६६॥
तमेवं संशयं छिन्धि यद्धि तच्छ्रोतुमर्हति ।
श्रीकृष्ण उवाच ।
त्रिभागभूते रजसि तथा द्वादशधापि च ॥६७॥
रजसोपेक्षया सत्त्वं दशांशाधिकमेव च ।
प्रविष्टमस्तीति खग ज्ञातव्यं तच्छणु द्विज ॥६८॥
तमसोपेक्षया सत्त्वं दशांशाधिकमेव वै ।
प्रविष्टमस्तीति खग वक्तव्यं नात्र संशयः ॥६९॥
तमसोपेक्षया तत्र तम एकादशं स्मृतम् ।
एकांशस्तु रजो ज्ञेयमेवमाहुर्मनीषिणः ।
एवं च मिलितान्भागान्वक्ष्ये शृणु महामते ॥७०॥
महत्तत्त्वसमुत्पत्ता उपादानं खगेश्वर ।
त्रयोदशांशा विज्ञेया द्वादशाशं रजः स्मृतम् ॥७१॥
एकांशस्तमसो ज्ञेयस्तत्र भागाञ्छृणु द्विजा ।
आदौ तु द्वादशांशेषु भागान्वक्ष्यामि तच्छृणु ॥७२॥
एकांशस्तमसो ज्ञेयस्तद्दशां शाधिकं रजः ।
तच्छतांशाधिकं सत्त्वमेवमाहुर्मनीषिणः ॥७३॥
एकांशतमसि ह्येवं विभागाञ्छृणु सत्तम ।
एकांशस्तु रजो ज्ञेयस्तमो ह्येका दशाधिकम् ॥७४॥
तमोभागास्तु विज्ञेयास्तद्दशांशाधिकः स्मृतः ।
सत्त्वभाग इति ज्ञेयो महत्तत्त्वे खगेश्वर ॥७५॥
सत्त्वांशो बहुलो यस्माच्छुद्धसत्त्वं चतुर्मुखः ।
उत्पत्तिर्महतश्चोक्ता एवं च विनतासुत ॥७६॥
तज्ज्ञानान्मोक्षमाप्नोति नान्यथा तु कथञ्चन ॥७७॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे कृष्ण गरुडसंवादे तृतीयांशे ब्रह्मकाण्डे गुणवैषम्यभेदब्रह्मदेहस्वरूपगुणसाम्यनिरूपणं नाम चतुर्थोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP