संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|ब्रह्मकाण्डः (मोक्षकाण्डः)| अध्यायः ७ ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ ब्रह्मकाण्डः - अध्यायः ७ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ७ Translation - भाषांतर श्रीकृष्ण उवाच ।पार्वत्यानन्तरोत्पन्न इन्द्रो वचनमब्रवीत् ।इन्द्र उवाच ।तव स्वरूपं हृदि संविजानन् समुत्सुकः स्यात्स्तवने यस्तु मूढः ।अजानतः स्तवनं देवदेव तदेवाहुर्हेलनं चक्रपाणे ॥१॥तथापि तद्वै तव नाम पूर्वं भवेत्तदा पुण्यकरं भवेदिति ।रुद्रादि कानां स्तवने नास्ति शक्तिस्तदा वक्तव्यं मम नास्तीति किं वा ॥२॥गुणांशतो दशभी रुद्रतो वै सदा न्यूनो मत्समः कामदेवः ।ज्ञाने बले समता सर्वदास्ति तथाः कामः किं च दूतः सदैव ॥३॥एवं स्तुत्वा देवदेवो हरिं च तूष्णीं स्थितः प्राञ्जलिर्नम्रभूर्धा ।तदनन्तरजो ब्रह्मा अहङ्कारिक ऊचिवान् ॥४॥अहङ्कारिक उवाच ।नमस्ते गणपूर्णाय नमस्ते ज्ञानमूर्तये ।नमोऽज्ञानविदूराय ब्रह्मणेनं तमूर्तये ॥५॥इन्द्रादहं दशगुणैः सर्वदा न्यून उक्तो न जनि त्वां सर्वदा ह्यप्रमेय ।तथापि मां पाहि जगद्गुरो त्वं दत्त्वा दिव्यं ह्यायतनं च विष्णो ॥६॥आहङ्कारिक एवं तु स्तुत्वा तूष्णींबभूव ह ।तदनन्तरजा स्तोतुं शची वचनमब्रवीत् ॥७॥शच्युवाच ।संचिन्तयामि अनिशं तव पादपद्मं वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ।वागीश्वरैरपि सदा मनसापि धर्तुं नो शक्यमीश तव पादरजः स्मरामि ॥८॥आहङ्कारिकप्राणाच्च गुणैश्च दशभिः सदा ।न्यूनभूतां च मां पाहि कृपालो भक्तवत्सल ॥९॥एवं स्तुत्वा शची देवी तूष्णीं भगवती ह्यभूत् ।तदनन्तरजा स्तोतुं रतिः समुपचक्रमे ॥१०॥रतिरुवाच ।संचिन्तयामि नृहरेर्वदनारविन्दं भृत्यानुकंपितधिया हि गृहीतमूर्तिम् ।यच्छ्रीनिकेतमजरुद्ररमादिकैश्च संलालितं कुटिलङ्कुन्तलवृन्दजुष्टम् ॥११॥एतादृशं तव मुखं नुवितुं न शक्तिः शच्या समापि भगवन्परिपाहि नित्यम् ।कृत्वा स्तुतिं रतिरियं परमादरेण तूष्णीं स्थिता भगवतश्च समीप एव ॥१२॥रत्यनन्तरजो दक्षः स्तोतुं समुपचक्रमे ॥१३॥दक्ष उवाच ।संचिन्तये भगवतश्चरणोदतीर्थं भक्त्या ह्यजेन परिषिक्तमजादिवन्द्यम् ।यच्छौचनिः सृतमजप्रवरावतारं गङ्गाख्यतीर्थमभवत्सरितां वरिष्ठम् ॥१४॥रुद्रोपि तेनव विधृतेन जटाकलापपूतेन पादरजसा ह्यशिवः शिवोभूत् ।एतादृशं ते चरणं करुणेश विष्णो स्तोतुं शक्तिर्मम नास्ति कृपावतार ।रत्या समः श्रुतिगतो न गतोस्मि मोक्षमेतादृशं च परिपाहि निदानमूर्ते ॥१५॥एवं स्तुत्वा स दक्षस्तु तूष्णी मेव बभूव ह ।तदनन्तरजः स्तोतुं बृहस्पतिरुपाक्रमीत् ॥१६॥बृहस्पतिरुवाच ।संचिन्तयामि सततं तव चाननाब्जं त्वं देहि दुष्टविषयेषु विरक्तिमीश ॥१७॥एतेषु शक्तिर्यदि वै स जीवो कर्ता च भोक्ता च सदा च दाता ।योषां च पुत्रसुहृदौ च पशूंश्च सर्वमेवं विनश्यति यतो हि तदाशु छिन्धि ॥१८॥संसारचक्रभ्रमणेनैव देव संसारदुः खमनुभूयेहागतोस्मि ।शक्तिर्न चास्ति नवने मम देवदेव सत्या समं च सततं परिपाहि नित्यम् ॥१९॥एवं श्रुत्वा च परमं तूष्णीमेव स्थितो मुनिः ।तदनन्तरजस्तोतुं ह्यनिरुद्धोपचक्रमे ॥२०॥अनिरुद्ध उवाच ।एवं हरेस्तव कथां रसिकां विहाय स्त्रीणां भगे च वदने परिमुह्य नित्यम् ।विष्ठान्त्रपूरितबिले रसिको हि नित्यं स्थायी च सूकरवदेव विमूढबुद्धिः ॥२१॥मज्जास्थिपित्तकफरफलादिपूर्णे चर्मान्त्रवेष्टितमुखे पतितं ह पीतम् ।आस्वादने मम च पापगतेर्मुरारे मायाबलं तव विभो परमं निमित्तम् ॥२२॥संसारचक्रे भ्रमतश्च नित्यं सुदुः खरूपे सुखलेशवर्जिते ।मलं वमन्तं नवभिश्च द्वारैः शरीरमारुह्य सुमूढबुद्धिः ॥२३॥नमामि नित्यं तव तत्कथामृतं विहायदेव श्रुतिमूलनाशनम् ।कुटुंबपोषं च सदा च कुर्वन्दानाद्यकुर्वन्निवसन् गृहे च ॥२४॥दूरे च संसारमलं त्विदं कुरु देहि ह्यदो दिव्यकथामृतं सदा ।एतादृशोहं तव सद्गुणौघं स्तोतुं समर्थो नास्मि शचीसमश्च ॥२५॥एवं स्तुत्वानिरुद्धस्तु तूष्णीमास खगेश्वर ।तदनन्तरजः स्तोत्रं मनः स्वायंभुवोब्रवीत् ॥२६॥स्वायंभुव उवाच ।स्तोतुं ह्यनुप्रविशतोपि न गर्भदुः खं तस्मादहं परमपूज्यपदं गतस्ते ॥२७॥मनोर्भार्या मानवी च यमः संयमिनीपतिः ।दिशाभिमानी चन्द्रस्तु सूर्यश्चक्षुर्नियामकः ।परस्परसमा ह्येते मुक्त्वा संसारमेव च ॥२८॥प्रवाहाद्विगुणोनश्चेत्येवं जानीहि चाण्डज ।सूर्यानन्तरजः स्तोतुं वरुणः संप्रचक्रमे ॥२९॥वरुण उवाच ।त्वद्विच्छया रचिते देहगेहे पुत्त्रे कलत्रेपि धने द्रव्यजातौ ।ममाहमित्यल्पधिया च मूढा संसारदुः खे विनिमज्जन्ति सर्वे ॥३०॥अतो हरे तादृशीं मे कुबुद्धिं विनाश्य मे देहि ते पाददास्यम् ।अहं मनोः पादपादार्धभूतगुणेन हीनः सर्वदा वै मुरारे ॥३१॥एवं स्तुत्वा तु वरुणः प्राञ्जलिः समुपस्थितः ।वरुणानन्तरोत्पन्नो नारदो ह्यस्तुवद्धरिम् ॥३२॥नारद उवाच ।यन्नामधेयश्रवणानुकीर्तनात्स्वाद्वन्यतत्त्वं मम नास्ति विष्णो ।पुनीह्यतश्चैव परोवरायान्यज्जिह्वाग्रे वर्तते नाम तस्य ॥३३॥यज्जिह्वाग्रे हरिनामैव नास्ति स ब्राह्मणो नैव स एव गोखरः ।अहं न जाने च तव स्वरूपं न्यूनो ह्यहं वरुणात्सर्वदैव ॥३४॥एवं स्तुत्वा नारदो वै खगेन्द्रस्तूष्णीमभूद्देवदेवस्य चाग्रे ।यो नारदानन्तरं संबभूव भृगुर्महात्मा स्तोतुमुपप्रचक्रमे ॥३५॥भृगुरुवाच ।किमासनं ते गरुडासनाय किं भूषणं कौस्तुभभूषणाय ।लक्ष्मीकलत्राय किमस्ति देयं वागीश किं ते वचनीयमस्ति ।अतो न जाने तव सद्गुणांश्च ह्यहं सदा वरुणा त्पादहीनः ॥३६॥एवं स्तुत्वा हरिं देवं भृगुस्तूष्णीं बभूव ह ।तदनन्तरजो ह्यग्निरस्तावीत्पुरुषोत्तमम् ॥३७॥अग्निरुवाच ।यत्तेजसाहं सुसमिद्धतेजा हव्यं वहाम्यध्वरे आज्यसिक्तम् ॥३८॥यत्तेजसाहं जठरे संप्रविश्य पचन्नन्नं सर्वदा पूर्णशक्तिः ।अतो न जाने तव सद्गुणांश्च भृगोरहं सर्वदैवं समोस्मि ॥३९॥तदनन्तरजा स्तोतुं प्रसूतिरुपचक्रमे ॥४०॥प्रसूतिरुवाच ।यन्नामार्थविचारणेपिमुनयो मुह्यति वै सर्वदा त्वद्भीता अपि देवता ह्यविरतं स्त्रीभिः सहैव स्थिताः ।मान्धातृध्रुवनारदाश्च भृगवो वैवस्वताद्याखिलाः प्रेम्णा वै प्रणमाम्यहं हितकृते तस्मै नमो विष्णवे ॥४१॥अतो न जाने तव सद्गुणान्सदा एवं विधा का मम शक्तिरस्ति ।स्तुत्वा ह्येवं प्रसूतिस्तु तूष्णीमासीत्खगेश्वर ॥४२॥अग्निर्वागात्मको ब्रह्मपुत्रो भृगु ऋषिस्तथा ।तद्भार्या वै प्रसूतिस्तु त्रय एते समाः स्मृताः ॥४३॥वरुणात्पादहीनाश्च प्रवहाद्विगुणाधमाः ।दक्षाच्छतावरा ज्ञेया मित्रात्तु द्विगुणाधिकाः ॥४४॥प्रसूत्यनन्तरं जातो वसिष्ठो ब्रह्मनन्दनः ।विनयावनतो भूत्वा स्तोतुं समुपचक्रमे ॥४५॥वसिष्ठ उवाच ।नमोस्तु तस्मै पुरुषाय वेधसे नमोनमोऽसद्वृजिनच्छिदे नमः ।नमोनमो स्वाङ्गभवाय नित्यं नतोस्मि हेनाथ तवाङ्घ्रिपङ्कजम् ॥४६॥मां पाहि नित्यं भगवन्वासुदेव ह्यग्नेरहं सर्वदा न्यून एव ।मित्रादहं सर्वदा किञ्चिदूनः स्तुत्वा देव सोभवत्तत्र तूष्णीम् ॥४७॥यो वसिष्ठानन्तरजो मरीचिर्ब्रह्मनन्दनः ।हरिन्तुष्टाव परया भक्त्या नारायणं गुरुम् ॥४८॥मरीचिरुवाच ।देवेन चाहं हतधीर्भवनप्रसङ्गात्सर्वाशुभोपगमनाद्विमुखेद्रियश्च ।कुर्वे च नित्यं सुखलेशलवादिना त्वद्दरं मनस्त्वशुभकर्म समाचरीष्ये ॥४९॥एतादृशोहं भगवाननन्तः सदा वसिष्ठस्य समान एव ॥५०॥एवं स्तुत्वा मरीचिस्तु तूष्णीमास तदा खग ।तदतन्तरजोह्यत्रिरस्तावीत्प्राञ्जलिर्हरिम् ॥५१॥आविर्भवज्जगत्प्रभवायावतीर्णं तद्रक्षणार्थमनवद्यञ्च तथाव्ययाय ।तत्त्वार्थमूलमविकारि तव स्वरूपं ह्यानन्दसारमत एव विकारशून्यम् ॥५२॥त्रैगुण्यशून्यमखिलेषु च संविभक्तं तत्र प्रविश्य भगवन्न हि पश्यतीव ।अतो मरारेस्तव सद्गुणांश्च स्तोतुं न शक्रोमि मरीचेतुल्यः ॥५३॥एवं स्तुत्वा ह्यत्रिरपितूष्णीमास तदा खग ।तदनन्तरजः स्तोतुमङ्गिरा वाक्यमब्रवीत् ॥५४॥अङ्गिरा उवाच ।द्रष्टुं न शक्रोमि तव स्वरूपं ह्यनन्तबाहूदरमस्तकं च ।अनन्तसाहस्रकिरीटजुष्टं महार्हनानाभरणैश्च शोभितम् ।एतादृशं रूपमनन्तपारं स्तोतुं ह्यशक्तस्तु समोस्मि चात्रेः ॥५५॥एवं स्तुत्वा ह्यङ्गिराश्च तूष्णीमास खगेश्वर ।तदनन्तरजः स्तोतुं पुलस्त्यो वाक्यमव्रवीत् ॥५६॥पुलस्त्य उवाच ।यो वा हरिस्तु भगवान्स (स्व) उपासकानां संदर्शयेद्भुवनमङ्गलमङ्गलं च ।(लश्च) यस्मै नमो भगवते पुरुपाय तुभ्यं यो वाविता निरयभागगमप्रसङ्गे ॥५७॥एतादृशांस्तव गुणान्नवितुं न शक्तं मां पाहि भगवन्सदृशो ह्यङ्गिरसा च ॥५८॥एवं स्तुत्वा पुलस्त्योपि स्तूष्णीमेव वभूव ह ।तदनन्तरजः स्तोतुं पुलहो वाक्यमब्रवीत् ॥५९॥पुलह उवाच ।निष्कामरूपरिहितस्य समर्पितं च स्नानावरोत्तमपयः फलपुष्पभोज्यम् ।आराधनं भगवतस्तव सत्क्रियाश्च व्यर्थं भवेदिति वदन्ति महानुभावाः ॥६०॥तस्मै सदा भगवते प्रणमामि नित्यं निष्कामया तव समर्पणमात्रवुद्ध्या ।वैकुण्ठनाथ भगवन्स्तवने न शक्तिः सोहं पुलसत्यसदृशोस्मि न संशयोत्र ॥६१॥एवं स्तुत्वा तु पुलहस्तूष्णीमास तदा खग ।तदनन्तरजः स्तोतुं क्रतुः समुपचक्रमे ॥६२॥क्रतुरुवाच ।प्राणप्रयाणसमये भगवंस्तवैव नामानि संसृतिजदुः खविनाशकानि ।येनैकजन्मशमलं सहसैव हित्वा संयाति मुक्तिममलां तमहं प्रपद्ये ॥६३॥ये भक्त्या विवशा विष्णो नाममात्रैकदजल्पकाः ।तेपि मुक्तिं प्रयान्त्याशु किमुत ध्यायिनः सदा ॥६४॥एवं स्तुत्वा क्रतुरपि तूष्णीमास खगेश्वर ।तदनन्तरजः स्तोतुं मनुर्वैवस्वतोब्रवीत् ॥६५॥वैवलस्वत उवाच ।सोहं हि कर्मकरणे निरतः सदैव स्त्रीणां भोगे च निरतश्च गुदे प्रमत्तः ।जिह्वेन्द्रिये च निरतस्तव दर्शने च सम्यग्विरागसहितः परमो दरेण ॥६६॥मांसास्थिमज्जरुधिरैः सहिते च देहे भक्तिं सदैव भगवन्नपि तस्करे च ।गुर्वग्निबाडबगवादिषु सत्सु दुः खात्सम्यग्विरक्तिमुपयामि सहस्व नित्यम् ॥६७॥लोकानुवादश्रवणे परमा च शक्तिर्नारायणस्य नमने न च मेस्ति शक्तिः ।लोकानुयानकरणे परमा च शक्तिः क्षेत्रादिमार्गगमने परमा ह्यशक्तिः ॥६८॥वैश्यादिकेषु धनिकेषु परा च शक्तिः सद्ब्राह्मणेष्वपि न शक्तिरहो मुरारे ॥६९॥वैवस्वतमनुर्देवं स्तुत्वा तूष्णीं बभूव ह ।तदनन्तरजः स्तोतुं विश्वामित्रोपचक्रमे ॥७०॥विश्वामित्र उवाच ।न ध्याते चरणांबुजे भगवतो संध्यापि नानुष्ठिता ज्ञानद्वारकपाटपाटनपटुर्धर्मोपिनोपार्जितः ।अन्तर्व्याफमलाभिघातकरणे पट्वी श्रुता ते कथा नो देव श्रवणेन पाहि भगवन्मामत्रितुल्यं सदा ॥७१॥विश्वामित्रऋषिस्त्वेवं स्तुत्वा तूष्णीं बभूव ह ।भृगुनारदक्षांश्च विहाय ब्रह्मपुत्रकाः ॥७२॥सप्तसंख्या वसिष्ठाद्या विश्वामित्रस्तथैव च ।वैवस्वतमनुस्त्वेते परस्परसमाः स्मृताः ॥७३॥वह्नेरप्यवरा नित्यं किञ्चिन्मित्राद्गुणाधिकाः ।तदनन्तजस्तोत्रं वक्ष्ये शृणु खगेश्वर ॥७४॥इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे कृष्णगरुडसंवादे देवादिस्तुतितत्तत्तारतम्यनिरूपणं नाम सप्तमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP