संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|ब्रह्मकाण्डः (मोक्षकाण्डः)| अध्यायः १२ ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ ब्रह्मकाण्डः - अध्यायः १२ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः १२ Translation - भाषांतर श्रीकृष्ण उवाच ।नाडीं समाविश्य महानुभावः श्रीविष्णुभक्तो त्वथ पुष्करस्थः ।विचारयामास गुरुं स्वमूलं नारायणं निर्गुणमद्वितीयम् ॥१॥एतावता हरिभक्तस्य तस्याप्यच्छिन्नभक्तस्य चतुर्मुखस्य ।विचारकाले च विचिन्तनीयो ह्यज्ञानलेशस्तु खगेश्वरेश्वर ॥२॥यथास्ति विष्णोर्मनः सङ्कल्प एव तथैव सोपि प्रकरोति नित्यम् ।आलोचने तस्य सदास्ति भूमन्स्वयोग्यतामनतिक्रम्य चैव ॥३॥हरेः स्वरूपे च तथा प्रपञ्चः स्वस्मिन्स्वरूपे च खगस्ति ज्ञानम् ।यथापि नित्यं परिचारवारि च अज्ञातवद्दृश्यते विष्णुना च ॥४॥हरेः प्रीत्यर्थं कुरुते सौ कदाच्चित्तत्रापि कश्चिद्विशेषोऽस्ति वीन्द्र ।शृणुष्व सम्यङ्निगृहीतचित्तो यथा प्रोवाच स विजानाति देवः ॥५॥सदा त्वदोषं प्रविशेषेश्च मुक्तवेदास्तथा वा पविजानन्ति नित्यम् ।तस्य स्वरूपं न तथा हरिं च स्वयोग्यतामनतिक्रम्य वेधाः ॥६॥हरेः स्वरूपं न विजानाति सर्वं स्वयो ग्यरूपं सर्वदा वेत्ति विष्णोः ।तत्राज्ञानं नास्ति किञ्चिद्द्विजेन्द्र यावत्स्वरूपं च तथैव लक्ष्म्याः ॥७॥वेधा न जानाति कुतस्तदन्ये तयोः स्वरूपंन विजानाति सर्वम् ।तथापि वेदानेकदेशेन वेद जानाति लक्ष्मीर्हरिरूपं च यावत् ॥८॥तावन्न जानाति विधिः खगेन्द्र ज्ञाने विधातुश्च स्वयोग्यभूते ।अतो विरिञ्चस्य न चिन्तनीयो ह्यज्ञानलेशः क्वापि देशे च काले ॥९॥नाडीं समाविश्य तदा विरिञ्चो न वेद नारायणमेकवच्च ।तदा शृणोत्तं कमलासनं प्रभुस्तपस्तप द्व्यक्षरं सादरेण ॥१०॥अभिप्रायं तस्य सम्यग्विदित्त्वा तपः कुरु त्वं हरितुष्ट्यर्थमेव ।तपोऽकरोद्धरिपादैक निष्ठो हरेः प्रीत्यर्थं दिव्यसहस्रवर्षम् ॥११॥ततो हरिः प्रादुरासीत्खगेन्द्र वरं दातुं भक्तवरस्य दिव्यम् ।सदा विष्णुं देवदेवो ददर्श चतुर्भुजं तं जलजायताक्षम् ॥१२॥श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं संपश्यन्तं सुप्रसन्नार्द्रदृष्ट्या ।दृष्ट्वा हरिं ब्रह्म नारायणं च पुरः स्थितं भक्तवश्यं दयालुम् ॥१३॥समर्चयामास महाविभूत्या भक्त्या हरेः पादतीर्थं दधार ।अस्तौन्महाभागवतप्रधानो हरिं गुरुं भक्तिविवर्धितात्मा ॥१४॥ब्रह्मोवाच ।रमेश लोकेश जगन्निवास तव स्वरूपं न विजानाति देवी ।तव प्रसादात्सुविजानाति देवी गुणान्वेदोक्तान्सर्वदा वीन्द्र सर्वान् ॥१५॥तथापि सा न विजानाति देवी साकल्येनाशेषितः सद्गुणांश्च ।यद्यप्यनुक्तं पञ्चभिर्नास्ति वेदैस्तथापि देवेऽत्र विशेष आस्ते ॥१६॥तत्त्वेच्छवः प्रविजानन्ति नित्यं वेदे सूक्तान्क्वाप्यनुक्तांश्च सर्वान् ।आदौ जानन्त्यत्र वेदा मुरारे ऋगादयः सुष्ठु चत्वार एव ॥१७॥वेदा ह्येते वेदयन्तीति देव तथा पुराणं भारतं पञ्चरात्रम् ।क्रमादितो विचिन्त्य सा विष्णुगुणान्स्वयोग्यान्सदा विजानाति रमापि देवी ॥१८॥विशेषतो ह्युक्तगुणा नृगादिषु स्वयोग्यभूतान्संविजानाति देवी ।सामान्यतः प्रविजानाति देवी हरेर्गुणान्न विशेषाच्च नित्यम् ॥१९॥अहं विजानामि रमाप्र सादात्तव प्रसादाच्च गुणान्सदैव ।स्वयोग्यभूताञ्छ्रुतिपूक्तान् गुणांश्च कांश्चिद्विजानाति हरेर्न कश्चित् ॥२०॥तव प्रसादाच्च मम प्रसादात्कालान्तरे तांश्च जानाति शेषः ।दुष्कर्मलेशान्न तिरोहितान् गुणान्यानेव पूर्वं विदितान् स्वयोग्यान् ॥२१॥तानेव ज्ञात्वा पुनरेव शेषस्तिरो हितांल्लब्धगुणस्ततः स्मृतः ।सदा स्वयोग्यांश्च हरेर्गुणांश्च उमापतिश्चापि तव प्रसादात् ॥२२॥यदा विजानाति हरे मुरारे अप्राप्तलब्धेति तदोच्यते हरः ।ममापि लोकं च यदा मुरारे तदा विजानाति तव स्वरूपम् ॥२३॥गोविन्द नित्याव्यय चित्सुपूर्ण तव प्रसादान्नास्ति शतेषु तन्ममयेये हि देवाश्च शरीरधारिणस्ते ज्ञानहीना विषयेषु निष्ठाः ॥२४॥येये देवा विषयेषु निष्ठास्तेते देवा बहिरर्थभावाः ।येये देवा बहिरर्थभावा मोक्षा दन्ये प्रलपन्तः सदैव ॥२५॥तव स्वरूपे च जगत्स्वरूपे तवासमानं नास्ति विष्णो सदैव ।यतस्तव प्राकृतो नास्ति देहो यतो ज्ञानं नास्ति नास्त्ये व नित्यम् ॥२६॥पूर्णानन्दज्ञानदेहोऽपि नित्यं सदा शरीरी भाष्यते भक्तिमद्भिः ।यतस्तव प्राकृतो नास्ति देहो ह्यतोपि नित्यमशरीरीति च स्मृतः ॥२७॥नतोऽहं सर्वदास्मिञ्शरीरेऽहंममेत्यभिमानेन शून्यः ।अत्तोऽप्यहं त्वशरीरी सदैव तथैव नित्यं बहिरर्थैश्च शून्यः ॥२८॥स्वभोगभार्यासत्यलोकादिभोगः स्वयोग्यभोगो वस्त्रमाल्यादिभोगः ।एते हि सर्वे बहिरर्थसंज्ञकाः नैसर्गकामाः सर्वदा मे हि विष्णो ॥२९॥तथाप्यहं कामहीनो हि नित्यं रुद्रादयः कामवन्तो यतोतः ।शरीरिणस्ते बहिरर्थभावा अज्ञानवन्तोऽपि च संस्मृताः खग ॥३०॥स्वदारभोगे केवलां प्रीतिमेवं हरेरेवं सर्वदाहं करोति ।स्तम्बास्त्रादीन्धारियिष्ये सदैव विष्णोः प्रीत्यर्थं नैव गात्रार्थमेव ॥३१॥नित्यानन्दादन्यकामो न मेस्ति अतः सदा बहिरर्थैश्च शून्यः ।ममापि भार्या बहिरर्थशून्या अमूढभावा मूढवतीव दृश्यते ॥३२॥अमूढभूता ज्ञानिनां सर्वदैव तथाज्ञानां ज्ञानहीनेति भाति ।यावज्ज्ञानं चास्ति मे वास्तुदेव तावज्ज्ञानं वासुदेवस्य चास्ति ॥३३॥यावज्ज्ञानं वासुदेवस्य चास्ति तावज्ज्ञानं ज्ञानवतामृजूनाम् ।क्रमेणैवाज्ञानिनां वानृजूनामस्पष्टरूपो ज्ञानगतो विशेषः ॥३४॥सौरिप्रकाशे च यथैव दर्शनं तथा मम ज्ञानगतो विशेषः ।दीपप्रकाशे च यथैव दर्शनं तथा ज्ञानं वासुदेवस्य चास्ति ॥३५॥अस्पष्टपरूपा न्यूनता ह्यस्ति वायौ तथा ज्ञानं नैव संचिन्तनीयम् ।एतादृशी ज्ञानशक्तिर्मुरारेर्वाय्वादीनां मोक्षपर्यन्तमस्ति ॥३६॥ज्ञानं त्वृजूनां मोक्षकाले पिपञ्चवाय्वादीनां प्रलयेनाद्रादीर्न ।वायोर्मम प्रलये सृष्टिकाले तथा गायत्र्या नास्तिनास्त्येव मोहः ॥३७॥गायत्रीवद्भारत्या देवदेव ज्ञातव्यमेवं हरितत्त्ववेदिभिः ।ममाज्ञानं दृश्यते यत्र कुत्र दैत्यादीनां मोहनार्थ सदैव ॥३८॥तेन प्रीतिर्देवदेवस्य विष्णर्भविष्यतीत्येव विनिश्चितात्मा ।प्रश्रादिकं त्वज्ञवत्सर्वदैवं करिष्येहं मोहनायाधमानाम् ॥३९॥सूर्योदये नास्ति यथा तमश्च तथाज्ञानं नास्तिनास्त्येव देव ।करोम्यहं श्रवणं सर्वदैव हरिप्रीत्यर्थं निश्चतार्थं सतां हि ॥४०॥शतजन्मगतानां त्वनृजूनां पूर्वमेव तु ।अपरोक्षाभाव एव ह्यज्ञानं समुदीरितम् ॥४१॥अपरोक्षानन्तरं तु नास्त्यज्ञानं न संशयः ।शतजन्मसु देवेश अपरोक्षेण सर्वदा ॥४२॥पूर्णज्ञानं ममास्त्येव नात्र कार्या विचारणा ।शतजन्मसु पूर्वं तु परोक्षेण मम प्रभो ॥४३॥पूर्णं ज्ञानं सदाप्यस्तीत्येवमाहुर्महर्षयः ।संज्ञाजन्मगतायाश्च सरस्वत्या महाप्रभो ॥४४॥नाज्ञानं चिन्तनीयं हि ब्रह्मय्वोश्च देव हि ।अत्र कश्चिद्विशेषोस्ति ज्ञातव्यस्तत्वमिच्छुभिः ॥४५॥अवतारेषु भारत्याः कदाचिज्ज्ञानपूर्वकम् ।सर्वदा ज्ञानरूपा सा सर्वदुः खविवर्जिता ॥४६॥दैत्यानां मोहनार्थाय अंशे दुः खीव दृश्यते ।तस्या दुः खादिकं किञ्चिन्नास्तिनास्त्येव सर्वथा ॥४७॥अपरोक्षतिरोभाव ईषत्काले प्रदृश्यते ।तावन्मात्रेण वाज्ञानं तस्यां नैवाहितं च यत् ॥४८॥मूलरूपे तु नास्त्येव भारत्या ज्ञानविस्मृतिः ।भारत्यास्तु यथा नास्ति सरस्वत्यास्तु किं पुनः ॥४९॥अंशावतरणं नास्ति सरस्वत्याः कदाचन ।अंशावतरणं नास्ति ममापि मधुसूदन ॥५०॥तथैव ज्ञानमस्त्येव हरेर्नारायणस्य च ।वायोरंशावतारोस्ति यथा मूले तथैव च ॥५१॥बलज्ञाना दिकं सर्वं चिन्तनीयं न संशयः ।तथापि वायौ दृश्यन्ते बलज्ञानादिव्यक्तयः ॥५२॥अवतारेषु वायोस्तु सम्यक्शक्त्यात्मनास्ति हि ।अपरोक्षतिरोभावौ नांशावतरणेष्वपि ॥५३॥बलज्ञानादिकं यावन्मूलरूपे प्रदृश्यते ।त्रेतायुगस्वरूपे च न दर्शयति तादृशम् ॥५४॥त्रेतायुगस्वरूपे च यादृक्चादर्शयत्प्रभो ।द्वापरस्थे स्वरूपे तत्तद्दर्शयति तादृशम् ।त्रेतायुगस्वरूपे च यादृक्चादर्शयत्प्रभो ॥५५॥द्वापरस्थे वायुरूपे यादृग्वा दर्शयत्प्रभुः ।वायुः कलियुगे रूपे तद्दर्शयति तादृशम् ॥५६॥तथा दर्शयते वायुर्दैत्यानां मोहनाय च ।अवतारेषु वायोश्च अन्तरं ये विदुः प्रभो ॥५७॥तेऽधं तमः प्रविशन्ते ते दैत्या न च ते सुराः ।वायावप्यन्तरं नास्ति हरितत्त्वविनिर्णये ॥५८॥निन्दां कुर्वन्ति ये विष्णोर्जिह्वाछेदं करोम्यहम् ।तदर्थमेव वायोश्च अवतारः सदा भुवि ॥५९॥गुणपूर्णस्य विष्णोस्तु निर्गुणत्वविचिन्तनम् ।जातानन्दादिपूर्णाङ्ख्यं सोहमित्यादिचिन्तनम् ॥६०॥चिदानन्दात्मके देहे उत्पत्त्यादिविचिन्तनम् ।अच्छेद्याभेद्यगात्रेषु च्छेदभेदादिचिन्तनम् ॥६१॥देव्या नित्यावियोगिन्या वियोगादिविचिन्तनम् ।क्लेशशोकादिशून्यस्य हरेः क्लेशादिचिन्तनम् ॥६२॥व्यासरामादिरूपेष्वनृषिविप्रत्वचिन्तनम् ।कृष्णरामादिरूपेषु अन्तरस्य विचिन्तनम् ॥६३॥रामकृष्णादिरूपेषु अन्तरस्य विचिन्तनम् ।रामकृष्णादिरूपेषु पराजयविचिन्तनम् ॥६४॥सन्तानार्थं तु कृष्णे न शिवपूजादिचिन्तनम् ।रामेण दुः खयुक्तेन लिङ्गस्य स्थापनं कृतम् ॥६५॥पञ्चधातुमये कृष्णे हरिरूपविचिन्तनम् ।स्वयं व्यक्तस्थले चापि चिदा नन्दत्वकल्पनम् ॥६६॥पितृमातृद्विजातीनां हरिरूपत्वचिन्तनम् ।अस्वतन्त्रेण रुद्रेण हरेरैक्यदिचिन्तनम् ॥६७॥विष्णोः सूर्येण साकं च अभेदा दिविचिन्तनम् ।सर्वोत्तमः सूर्य एव विष्ण्वाद्यास्तस्य किङ्कराः ॥६८॥इत्यादिचिन्तनं दोषो हरिनिन्देति चोच्यते ।अस्वयं व्यक्तिलिङ्गेषु अश्वत्थतुलसीषु च ॥६९॥शालग्रामं विहायैव नमनं ये प्रकुर्वते ।ते सर्वे हरिनिन्दायामविकारिण एव हि ॥७०॥मोक्षाधिकारिणो ये तु अज्ञानात्परमेश्वरम् ।पार्थक्यनयनं येषु कुर्वन्ति यर्हि वा प्रभो ॥७१॥तर्हि तेषां हि कालेषु दुः खं याति न संशयः ।अतः प्रार्थक्यनयनं ये कुर्वन्त्येषु सर्वदा ॥७२॥ते सर्वे त्वबुधा ज्ञेया नात्र कार्या विचारणा ।अस्वयंव्यक्तलिङ्गेषु नमनं ये प्रकुर्वते ॥७३॥ते सर्वे ह्यसुरा ज्ञेया नान्यथा तु कथञ्चन ।विहाय शून्यमश्वत्थं नमनं ये प्रकुर्वते ॥७४॥द्विमासहीनां तुलसीमप्रसूतां च गां नवाम् ।ते सर्वे ह्यसुरा ज्ञेया नात्र कार्या विचारणा ॥७५॥गुल्माद्याश्च मनुष्यान्तास्ते ज्ञेया ब्रह्मबाहवः ।अस्मच्छतायुः पर्यन्तमेक एव कलिः स्मृतः ॥७६॥कलौ संति कल्पमानं कलेरन्ते संति च ।तस्मिन्दिने ब्रह्मरूपे गच्छन्ति च तमोन्तिकम् ॥७७॥तत्र स्थित्वा लोकमार्गं प्रतीक्षन्ते न संशयः ।साधकैर्विष्णुकार्याणां वायुदासैः प्रपीडिताः ॥७८॥शतवर्षानन्तरं च सर्वेषां कलिना सह ।वायोर्गदाप्रहारेण लिङ्गभङ्गो भविष्यति ॥७९॥तमोन्धं प्रविशन्त्येते तारतम्येन सर्वशः ।तमस्यन्धेपि संसारे नात्र कार्या विचारणा ॥८०॥सर्वेषामुत्तमोन्ते यः कलिरेव न संशयः ।दूषको विष्णुभक्तानां तत्समो नास्ति सर्वदा ॥८१॥संसारे वान्धतमसि सर्वत्र हरिदूषकः ।मिथ्यादाने ज्ञानबुद्धिर्दुः खे च सुखबुद्धिमान् ॥८२॥तस्मात्कलिसमो लोके शिवभक्तो न कुत्रचित् ।दुर्योधनः स एवोक्तो दुः खानन्त्यस्वरूपवान् ॥८३॥तस्माच्छतगुणांशेन कलिभार्या तु सर्वदा ।अलक्ष्मीरिति विख्याता सा लोके मन्थरा स्मृता ॥८४॥तस्माद्दशगुणांशोनो विप्रचित्तिस्तु सर्वदा ।जरासंधः स एवोक्तः कालनेमिस्ततः परम् ॥८५॥तस्माच्छतगुणांशोनः स तु कंसेति विश्रुतः ।तस्मात्पञ्चगुणैर्हीनौ मधुक्रैटभसंज्ञकौ ॥८६॥तावेव हंसहिडंबकौ ज्ञेयौ तौ च जनार्दन ।विप्रचित्तिसमो ज्ञेयो भौमो वै भूतले स्मृतः ॥८७॥तस्मादष्ट गुणैरुच्यो हरिण्यकशिषुः स्मृतः ।तस्माच्च त्रिगुणैर्हीनो हिरण्याक्षो महासुरः ॥८८॥मणिमांस्तत्समो ज्ञेयः किञ्चिदूनो बकः स्मृतः ।तस्माद्विंशद्गुणैर्हीनस्तारकाख्यो महासुरः ॥८९॥तस्मात्षड्गुणतो हीनः शंबरो लोककण्टकः ।शंबरस्य समो ज्ञेयः शाल्वो दैत्येषु चाधमः ॥९०॥शंबरात्तु द्विगुणतो हिडिंबो न्यून उच्यते ।बाणस्ततोऽधमो ज्ञेयः स तु कीचकनामतः ॥९१॥द्वापारख्यो महाहासोबाणासुरसमः स्मृतः ।तस्माद्दशगुणैर्हीनो नमुचिदैत्यसत्तमः ॥९२॥नमुचेस्तुसमौ ज्ञेयौ पाक इल्वल इत्युभौ ।तस्माच्चतुर्गुणैर्हीनो वातापिर्दानवाधमः ॥९३॥तस्मात्सार्धगुणैर्हीनो धेनुको नाम दैत्यराट् ।धेनुकादर्धगुणतः केशी दैत्यस्तु चावरः ॥९४॥केशीदैत्यसमो ज्ञेयस्तृणावर्तो महासुरः ।तस्माद्दशगुणैर्हीनो हंसो नामरमापते ॥९५॥त्रिरिकस्तु समो ज्ञेयस्तत्समः पौरुकस्मृतः ।वेतः स एव विज्ञेयः पूर्वजन्मनि सत्तम ॥९६॥तस्मादेकगुणैर्हीनौ कुंभाण्डककुपर्णकौ ।दुः शासनस्तु विज्ञेयो जरासंधसमः प्रभो ॥९७॥कंसेन तुल्यो विज्ञेयो विकर्णो दैत्यसत्तमः ।कुंभकर्णाच्छतगुणैर्हीनौ क्रध्येति विश्रुतः ॥९८॥तस्माच्छतगुणैर्हीनः शतधन्वा महासुरः ।समानस्तस्य विज्ञेयः कर्मारिर्दैत्यसत्तमः ॥९९॥कालकेयस्तु विज्ञेयः सदा वेनसमो मतः ।अधमानां तु दैत्यानामुत्तमैः साम्यमुच्यते ॥१००॥तत्रावेशाच्च विज्ञेयं देवानां नात्र संशयः ।तस्माच्छतगुर्णैहीनश्चित्तमानसुरो महान् ॥१०१॥तच्छरीराभिमानी तु तस्माच्छतगुणैर्वरः ।तस्माच्छतगुणैहींनो हस्तमानसुरो महान् ॥१०२॥तस्माच्छतगुणैर्हीनः पादमानसुरो महान् ।नेत्रेन्द्रियाभिमानी तु तस्माच्छतगुणो वरः ॥१०३॥चक्षुरिन्द्रियमानी तु तस्माच्छतगुणो वरः ।तस्माच्छगुणैर्हीनः स्पर्शमानसुरो महान् ॥१०४॥तस्माच्छतगुर्णैहीनश्चण्डमानसुरो महान् ।तस्माच्छतगुर्णैर्हीनः शिश्रमानसुरो महान् ॥१०५॥तस्माच्छतगुणैर्हीनः कर्ममानसुरः स्मृतः ।कल्पाद्यैः प्रेरिताः सर्वे रुद्राद्या अधिकारिणः ॥१०६॥कदाचित्सुविरुद्धं च कुर्वन्ति तव सत्तम ।कदाप्यहं च वायुश्च विरुद्धं नाचरेव भोः ॥१०७॥मूलेष्वंशावतारेषु रुद्रादीना महाप्रभो ।बुद्धिर्विनश्यते यस्मात्तस्माच्छिन्ना हि तेऽखिलाः ॥१०८॥महीपते च मद्बुद्धिस्तस्मादच्छिन्नसंज्ञिकः ।एतादृशोप्यहं देव न च शक्तिस्तु नस्तवे ॥१०९॥मह्यमच्छिन्नभक्ताय दयां कुरु महाप्रभो ।इति स्तुत्वा हरिं ब्रह्मा स्थितः प्राञ्ज लिरग्रतः ॥११०॥इति श्रीगारुडे महापुराणे द्वितीयांशे धर्मकाण्डे श्रीकृष्णगरुडसंवादे ब्रह्मस्तुतिवर्णनं नाम द्वादशोऽद्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP