संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ३०

उत्तरभागः - अध्यायः ३०

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


सनत्कुमार उवाच ॥
अधुना संप्रवक्ष्यामि तिलपर्वतमुत्तमम् ॥
पूर्वोक्तस्थानकाले तु कृत्वा संपूज्य यत्नतः ॥१॥

सुसमे भूतले रम्ये वेदिना च विवर्जिते ॥
दशतालप्रमाणएन दंडं संस्थाप्य वै मुने ॥२॥

अद्भिः संप्रोक्ष्य पश्चाद्धि तिलांस्त्वस्मिन्विनिक्षिपेत् ॥
पंचगव्येन तं देशं प्रोक्षयेद्ब्राह्मणोत्तमः ॥३॥

मंडलं कल्पयेद्विद्वान्पूर्ववत्सुसमंततः ॥
नववस्त्रैश्च संस्थाप्य रम्यपुष्पैर्विकीर्य च ॥४॥

तस्मिन्संचयनं कार्यं तिलभारैर्विशेषतः ॥
दंडप्रादेशमुत्सेधमुत्तमं परिकीर्तितम् ॥५॥

चतुरंगुलहीनं तु मध्यमं मुनिपुंगवाः ॥
दंडतुल्यं कनिष्ठं स्याद्दंडहीनं न कारयेत् ॥६॥

वेष्टयित्वा नवैर्वस्त्रैः परितः पूजयेत्क्रमात् ॥
सद्यादीनि प्रविन्यस्य पूजयेद्विधिपूर्वकम् ॥७॥

अष्टदिक्षु च कर्तव्याः पूर्वोक्ता मूर्तयः क्रमात् ॥
त्रिनिष्केन सुवर्णेन प्रत्येकं कारयेत्क्रमात् ॥८॥

दक्षिणा विधिना कार्या तुलाभारवदेव तु ॥
होमश्चपूर्ववत्प्रोक्तो यथावन्मुनिसत्तमाः ॥९॥

अर्चयेद्देवदेवेशं लोकपालसमावृतम् ॥
तिलपर्वतमध्यस्थं तिलपर्वतरूपिणम् ॥१०॥

शिवार्चना च कर्तव्या सहस्रकलशादिभिः ॥
दर्शयेत्तिलमध्यस्थं देवदेवमुमापतिम् ॥११॥

पूजयित्वा विधानेन क्रमेण च विसर्जयेत् ॥
श्रोत्रियाय दरिद्राय दापयेत्तिलपर्वतम् ॥१२॥

एवं तिलनगः प्रोक्तः सर्वस्मादधिकः परः ॥१३॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे तिलपर्वतदानं नाम त्रिंशोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP