पूर्वभागः - नवचत्वारिंशात्तमोऽध्यायः
पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.
सूत उवाच ।
जम्बूद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।
संवेष्टयित्वा क्षीरोदं प्लक्षद्वीपो व्यवस्थितः ॥४९.१
प्लक्षद्वीपे च विप्रेन्द्राः सप्तासन् कुलपर्वताः ।
सिद्धायुताः सुपर्वाणः सिद्धसङ्घनिषेविताः ॥४९.२
गोमेदः प्रथमस्तेषां द्वितीयश्चन्द्र उच्यते ।
नारादो दुन्दुभिश्चैव सोमस्य ऋषभस्तथा ॥४९.३
वैभ्राजः सप्तमः प्रोक्तो ब्रह्मणोऽत्यन्तवल्लभः ।
तत्र देवर्षिगन्धर्वैः सिद्धैश्च भगवानजः ॥४९.४
उपास्यते स विश्वात्मा साक्षी सर्वस्य विश्वसृक् ।
तेषु पुण्या जनपदा आधयो व्याधयो न च ॥४९.५
न तत्र पापकर्त्तारः पुरुषा वा कथञ्चन ।
तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः ॥४९.६
तासु ब्रह्मर्षयो नित्यं पितामहपुपासते ।
अनुतप्ता शिखे चैव विपापा त्रिदिवा कृता ॥४९.७
अमृता सुकृता चैव नामतः परिकीर्त्तिताः ।
क्षुद्रनद्यस्त्वसंख्याताः सरांसि सुबहून्यपि ॥४९.८
न चैतेषु युगावस्था पुरुषा वै चिरायुषः ।
आर्यकाः कुरराश्चैव विदशा भाविनस्तथा ॥४९.९
ब्रह्मक्षत्रियविट्शूद्रास्तस्मिन् द्वीपे प्रकीर्त्तिताः ।
इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः ॥४९.१०
तेषां च सोमसायुज्यं सारूप्यं मुनिपुंगवाः ।
सर्वे धर्मपरा नित्यं नित्यं मुदितमानसाः ॥४९.११
पञ्चवर्षसहस्राणि जीवन्ति च निरामयाः ।
प्लक्षद्वीपप्रमाणं तु द्विगुणेन समन्ततः ॥४९.१२
संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः ।
सप्त वर्षाणि तत्रापि सप्तैव कुलपर्वताः ॥४९.१३
ऋज्वायताः सुपर्वाणः सप्त नद्यश्च सुव्रताः ।
कुमुदश्चोन्नदश्चैव तृतीयश्च बलाहकः ॥४९.१४
द्रोणः कंसस्तु महिषः ककुद्वान् सप्त पर्वताः ।
योनी तोया वितृष्णा च चन्द्रा शुक्ला विमोचनी ॥४९.१५
निवृत्तिश्चैति ता नद्यः स्मृता पापहरा नृणाम् ।
न तेषु विद्यते लोभः क्रोधो वा द्विजसत्तमाः ॥४९.१६
न चैवास्ति युगावस्था जना जीवन्त्यनामयाः ।
यजन्ति सततं तत्र वर्णा वायुं सनातनम् ॥४९.१७
तेषां तस्याथ सायुज्यं सारूप्यं च सलोकता ।
कपिला ब्राह्मणाः प्रोक्ता राजानश्चारुणास्तथा ॥४९.१८
पीता वैश्याः स्मृताः कृष्णा द्वीपेऽस्मिन् वृषला द्विजाः ।
शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ॥४९.१९
संवेष्ट्य तु सुरोदाब्धिं कुशद्वीपो व्यवस्थितः ।
विद्रुमश्चैव हेमश्च द्युतिमान् पुष्पवांस्तथा ॥४९.२०
कुशेशयो हरिश्चाथ मन्दरः सप्त पर्वताः ।
धुतपापा शिवा चैव पवित्रा संमिता तथा ॥४९.२१
विद्युदन्ता मही चेति नद्यस्तत्र जलावहाः ।
अन्याश्च शतशोविप्रा नद्यो मणिजलाः शुभाः ॥४९.२२
तासु ब्रह्माणमीशानं देवाद्याः पर्युपासते ।
ब्राह्मणा द्रविणो विप्राः क्षत्रियाः शुष्मिणस्तथा ॥४९.२३
वैश्याः स्नेहास्तु मन्देहाः शूद्रास्तत्र प्रकीर्त्तिताः ।
सर्वे विज्ञानसंपन्ना मैत्रादिगुणसंयुताः ॥४९.२४
यथोक्तकारिणः सर्वे सर्वे भूतहिते रताः ।
यजन्ति विविधैर्यज्ञैर्ब्रह्माणं परमेष्ठिनम् ॥४९.२५
तेषां च ब्रह्मसायुज्यं सारूप्यं च सलोकता ।
कुशद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ॥४९.२६
क्रौञ्चद्वीपस्ततो विप्रा वेष्टयित्वा घृतोदधिम् ।
क्रौञ्चो वामनकश्चैव तृतीयश्चाधिकारिकः ॥४९.२७
देवाब्दश्च विवेदश्च पुण्डरीकस्तथैव च ।
नाम्ना च सप्तमः प्रोक्तः पर्वतो दुन्दुभिस्वनः ॥४९.२८
गौरी कुमुद्विती चैव संध्या रात्रिर्मनोजवा ।
कोभिश्च पुण्डरीकाच नद्यः प्राधान्यतः स्मृताः ॥४९.२९
पुष्कराः पुष्कला धन्यास्तिष्या वर्णा क्रमेण वै ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव द्विजोत्तमाः ॥४९.३०
अर्चयन्ति महादेवं यज्ञदानसमाधिभिः ।
व्रतोपवासैर्विविधैर्होमैः स्वाध्यायतर्पणैः ॥४९.३१
तेषां वै रुद्रसायुज्यं सारूप्यं चातिदुर्लभम् ।
सलोकता च सामीप्यं जायते तत्प्रसादतः ॥४९.३२
क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।
शाकद्वीपः स्थितो विप्रा आवेष्ट्य दधिसागरम् ॥४९.३३
उदयो रैवतश्चैव श्यामाकोऽस्तगिरिस्तथा ।
आम्बिकेयस्तथा रम्यः केशरी चेति पर्वताः ॥४९.३४
सुकुमारी कुमारी च नलिनी रेणुका तथा ।
इक्षुका धेनुका चैव गभस्तिश्चेति निम्नगाः ॥४९.३५
आसां पिबन्तः सलिलं जीवन्ते तत्र मानवाः ।
अनामयाश्चाशोकाश्च रागद्वेषविवर्जिताः ॥४९.३६
मृगाश्च मगधाश्चैव मानवा मन्दगास्तथा ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चात्र क्रमेण तु ॥४९.३७
यजन्ति सततं देवं सर्वलोकैकसाक्षिणम् ।
व्रतोपवासैर्विविधैर्देवदेवं दिवाकरम् ॥४९.३८
तेषां सूर्येण सायुज्यं सामीप्यं च सरूपता ।
सलोकता च विप्रेन्द्रा जायते तत्प्रसादतः ॥४९.३९
शाकद्वीपं समावृत्य क्षीरोदः सागरः स्थितः ।
श्वेतद्वीपश्च तन्मध्ये नारायणपरायणाः ॥४९.४०
तत्र पुण्या जनपदा नानाश्चर्यसमन्विताः ।
श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः ॥४९.४१
नाधयो व्याधयस्तत्र जरामृत्युभयं न च ।
क्रोधलोभविनिर्मुक्ता मायामात्सर्यवर्जिताः ॥४९.४२
नित्यपुष्टा निरातङ्का नित्यानन्दाश्च भोगिनः ।
नारायणपराः सर्वे नारायणपरायणाः ॥४९.४३
केचिद् ध्यानपरा नित्यं योगिनः संयतेन्द्रियाः ।
केचिज्जपन्ति तप्यन्ति केचिद् विज्ञानिनोऽपरे ॥४९.४४
अन्ये निर्बीजयोगेन ब्रह्मभावेन भाविताः ।
ध्यायन्ति तत् परं ब्रह्म वासुदेवं परं पदम् ॥४९.४५
एकान्तिनो निरालम्बा महाभागवताः परे ।
पश्यन्ति परमं ब्रह्म विष्णवाख्यं तमसः परं ॥४९.४६
सर्वे चतुर्भुजाकाराः शङ्खचक्रगदाधराः ।
सुपीतवाससः सर्वे श्रीवत्साङ्कितवक्षसः ॥४९.४७
अन्ये महेश्वरपरास्त्रिपुण्ड्राङ्कितमस्तकाः ।
सुयोगोद्भूतिकरणा महागरुडवाहनाः ॥४९.४८
सर्वशक्तिसमायुक्ता नित्यानन्दाश्च निर्मलाः ।
वसन्ति तत्र पुरुषा विष्णोरन्तरचारिणः ॥४९.४९
तत्र नारायणस्यान्यद् दुर्गमं दुरतिक्रमम् ।
नारायणं नाम पुरं व्यासाद्यैरुपशोभितम् ॥४९.५०
हेमप्राकारसंसुक्तं स्फाटिकैर्मण्डपैर्युतम् ।
प्रभासहस्रकलिलं दुराधर्षं सुशोभनम् ॥४९.५१
हर्म्यप्राकारसंयुक्तमट्टालकसमाकुलम् ।
हेमगोपुरसाहस्त्रैर्नानारत्नोपशोभितैः ॥४९.५२
शुभ्रास्तरणसंयुक्तै विचित्रैः समलंकृतम् ।
नन्दनैर्विविधाकारैः स्रवन्तीभीश्च शोभितम् ॥४९.५३
सरोभिः सर्वतो युक्तं वीणावेणुनिनादितम् ।
पताकाभिर्विचित्राभिरनेकाभिश्च शोभितम् ॥४९.५४
वीथीभिः सर्वतो युक्तं सोपानै रत्नभूषितैः ।
नारीशतसहस्राढ्यं दिव्यगोयसमन्वितम् ॥४९.५५
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।
चतुर्द्वारमनौपम्यमगम्यं देवविद्विषाम् ॥४९.५६
तत्र तत्राप्सरः सङ्धैर्नृत्यद्भिरुपशोभितम् ।
नानागीतविधानज्ञैर्देवानामपि दुर्लभैः ॥४९.५७
नानाविलाससंपन्नैः कामुकैरतिकोमलैः ।
प्रभूतचन्द्रवदनैर्नूपुरारावसंयुतैः ॥४९.५८
ईषत्स्मितैः सुबिम्बोष्ठैर्बालमुग्धमृगेक्षणैः ।
अशेषविभवोपेतैर्भूषितैस्तनुमध्य विभूषितैः ॥४९.५९
सुराजहंसचलनैः सुवेषैर्मधुरस्वनैः ।
संलापालापकुशलैर्दिव्याभरणभूषितैः ॥४९.६०
स्तनभारविनम्रैश्च मदघूर्णितलोचनैः ।
नानावर्णविचित्राङ्गैर्नानाभोगरतिप्रियैः ॥४९.६१
प्रफुल्लकुसुमोद्यानैरितश्चेतश्च शोभितम् ।
असंख्येयगुणं शुद्धमागम्यं त्रिदशैरपि ॥४९.६२
श्रीमत्पवित्रं देवस्य श्रीपतेरमितौजसः ।
तस्य मध्येऽतितेजस्कमुद्यत्प्राकारतोरणम् ॥४९.६३
स्थानं तद् वैष्णवं दिव्यं योगिनां सिद्धिदायकम् ।
तन्मध्ये भगवानेकः पुण्डरीकदलद्युतिः ॥४९.६४
शेतेऽशेषजगत्सूतिः शेषाहिशयने हरिः ।
विचिन्त्यमानो योगीन्द्रैः सनन्दनपुरोगमैः ॥४९.६५
स्वात्मानन्दामृतं पीत्वा पुरस्तात् तमसः परः ।
सुपीतवसनोऽनन्तो महामायो महाभुजः ॥४९.६६
क्षीरोदकन्यया नित्यं गृहीतचरणद्वयः ।
सा च देवी जगद्वन्द्या पादमूले हरिप्रिया ॥४९.६७
समास्ते तन्मना नित्यं पीत्वा नारायणामृतम् ।
न तत्राधार्मिका यान्ति न च देवान्तराश्रयाः ॥४९.६८
वैकुण्ठं नाम तत् स्थानं त्रिदशैरपि वन्दितम् ।
न मेऽत्र भवति प्रज्ञा कृत्स्नशास्त्रन्निरूपणे ॥४९.६९
एतावच्छक्यते वक्तुं नारायणपुरं हि तत् ।
स एव परमं ब्रह्म वासुदेवः सनातनः ॥४९.७०
शेते नारायणः श्रीमान् मायया मोहयञ्जगत् ॥४९.७१
नारायणादिदं जातं तस्मिन्नेव व्यवस्थितम् ।
तमेवाभ्येति कल्पान्ते स एव परमा गतिः ॥४९.७२
इति श्रीकूर्मपुराणे षट्साह्स्त्र्यां संहितायां पूर्वविभागे अष्टचत्वारिंशत्तमोऽध्यायः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP