संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः| दशमोऽध्यायः कूर्मपुराणम् पूर्वभागः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशतितमोऽध्यायः विंशतितमोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः नवविंशतितमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षड्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टत्रिंशत्तमोऽध्यायः नवत्रिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्वारिंशत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षड्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः नवचत्वारिंशात्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाषत्तमोऽध्यायः द्विपञ्चाषत्तमोऽध्यायः त्रिपञ्चाषत्तमोऽध्यायः पूर्वभागः - दशमोऽध्यायः पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे. Tags : kurmapuranpuranकूर्मपुराणपुराणसंस्कृत दशमोऽध्यायः Translation - भाषांतर श्रीकूर्म उवाच ।गते महेश्वरे देवे सोधिवासं पितामहः ।तदेव सुमहत्पद्मं भेजे नाभिसमुत्थितम् ॥१०.१अथ दीर्घेण कालेन तत्राप्रतिमपौरुषौ ।महासुरौ समायातौ भ्रातरौ मधुकैटभौ ॥१०.२क्रोधेन महताविष्टौ महापर्वतविग्रहौ ।कर्णान्तरसमुद्भूतौ देवदेवस्य शार्ङ्गिणः ॥१०.३तावागतौ समीक्ष्याह नारायणमजो विभुः ।त्रैलोक्यकण्टकावेतावसुरौ हन्तुमर्हसि ॥१०.४तदस्य वचनं श्रुत्वा हरिर्नारायणः प्रभुः ।आज्ञापयामास तयोर्वधार्थं पुरुषावुभौ ॥१०.५तदाज्ञया महद्युद्धं तयोस्ताभ्यामभूद् द्विजाः ।व्यजयत् कैटभं जिष्णुः विष्णुश्च व्यजयन्मधुम् ॥१०.६ततः पद्मासनासीनं जगन्नाथं पितामहम् ।बभाषे मधुरं वाक्यं स्नेहाविष्टमना हरिः ॥१०.७अस्मान्मयोह्यमानस्त्वं पद्मादवतर प्रभो ।नाहं भवन्तं शक्नोमि वोढुं तेजोमयं गुरुम् ॥१०.८ततोऽवतीर्य विश्वात्मा देहमाविश्य चक्रिणः ।अवाच वैष्णवीं निद्रामेकीभूतोऽथ विष्णुना ॥१०.९सहस्त्रशीर्षनयनः शङ्खचक्रगदाधरः ।ब्रह्मा नारायणाख्योऽसौ सुष्वाप सलिले तदा ॥१०.१०सोऽनुभूय चिरं कालमानन्दं परमात्मनः ।अनाद्यनन्तमद्वैतं स्वात्मानं ब्रह्मसंज्ञितम् ॥१०.११ततः प्रभाते योगात्मा भूत्वा देवश्चतुर्मुखः ।ससर्ज सृष्टिं तद्रूपां वैष्णवं भावमाश्रितः ॥१०.१२पुरस्तादसृजद्देवः सनन्दं सनकं तथा ।ऋभुं सनत्कुमारं च पुर्वजं तं सनातनम् ॥१०.१३ते द्वन्द्वमोहनिर्मुक्ताः परं वैराग्यमास्थिताः ।विदित्वा परमं भावं न सृष्टौ दधिरे मतिम् ॥१०.१४तेष्वेवं निरपेक्षेषु लोकसृष्टौ पितामहः ।बभूव नष्टचेता वै मायया परमेष्ठिनः ॥१०.१५ततः पुराणपुरुषो जगन्मूर्ति सनातनः।व्याजहारात्मनः पुत्रं मोहनाशाय पद्मजम् ॥१०.१६विष्णुरुवाच ।कच्चिन्न विस्मृतो देवः शूलपाणिः सनातनः ।यदुक्तवानात्मनोऽसौ पुत्रत्वे तव शंकरः ॥१०.१७प्रयुक्तवान् मनो योऽसौ पुत्रत्वेन तु शङ्करःअवाप संज्ञां गोविन्दात् पद्मयोनिः पितामहः ॥१०.१८प्रजाः स्त्रष्टुमनास्तेपे तपः परमदुश्चरम् ॥तस्यैवं तप्यमानस्य न किञ्चित् समवर्तत ॥१०.१९ततो दीर्घेण कालेन दुःखात्क्रोधोऽभ्यजायत ।क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥१०.२०ततस्तेभ्योऽश्रुबिन्दुभ्य भूताः प्रेतास्तथाभवन् ।सर्वांस्तान्ग्रतो दृष्ट्वा ब्रह्मात्मानमनिन्दत ॥१०.२१जहौ प्राणांश्च भगवान् क्रोधाविष्टः प्रजापतिः ॥तदा प्राणमयो रुद्रः प्रादुरसीत् प्रभोर्मुखात् ॥१०.२२सहस्त्रादित्यसंकाशो युगान्तदहनोपमः ॥रुरोद सुस्वरं घोरं देवदेवः स्वयं शिवः ॥१०.२३रोदमानं ततो ब्रह्मा मा रोदीरित्यभाषत ।रोदनाद् रुद्र इत्येवं लोके ख्यातिं गमिष्यसि ॥१०.२४अन्यानि सप्त नामानि पत्नीः पुत्रांश्चशाश्वतान् ।स्थानानि तेषामष्टानां ददौ लोकपितामहः ॥१०.२५भवः शर्वस्तथेशानः पशूनां पतिरेव च ।भीमश्चोग्रो महादेवस्तानि नामानि सप्त वै ॥१०.२६सूर्यो जलं मही वह्निर्वायुराकाशमेव च ।दीक्षितो ब्राह्मणश्चन्द्र इत्येता अष्टमूर्त्तयः ॥१०.२७स्थानेष्वेतेषु ये रुद्रान् ध्यायन्ति प्रणमन्ति च ।तेषामष्टतनुर्देवो ददाति परमं पदम् ॥१०.२८सुवर्चला तथैवोमा विकेशी च शिवा तथा ।स्वाहा दिशश्च दीक्षा च रोहिणी चेति पत्नयः ॥१०.२९शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः ।स्कन्दः सर्गोऽथ सन्तानो बुधश्चैषां सुताः स्मृताः ॥१०.३०एवंप्रकारो भगवान् देवदेवो महेश्वरः ।प्रजाधर्मं च काम च त्यक्त्वा वैराग्यमाश्रितः ॥१०.३१आत्मन्याधाय चात्मानमैश्वरं भावमास्थितः ।पीत्वा तदक्षरं ब्रह्म शाश्वतं परमामृतम् ॥१०.३२प्रजाः सृजति चादिष्टो ब्रह्मणा नीललोहितः ।स्वात्मना सदृशान् रुद्रान् ससर्ज मनसा शिवः ॥१०.३३कपरछ्दिनो निरातङ्कान् नीलकण्ठान् पिनाकिनः ।त्रिशूलहस्तानुद्रिक्तान् महानन्दांस्त्रिलोचनान् ॥१०.३४जरामरणनिर्मुक्तान् महावृषभवाहनान् ।वीतरागांश्च सर्वज्ञान् कोटिकोटिशतान्प्रभुः ॥१०.३५तान्दृष्ट्वा विविधान्रुद्रान्निर्मलान्नीललोहितान् ।जरामरणनिर्मुक्तान् व्याजहर हरं गुरुः ॥१०.३६मा स्राक्षीरीदृशीर्देव प्रजा मृत्युविवर्जिताः ।अन्याः सृजस्व भूतेश जन्ममृत्युसमन्विताः ॥१०.३७ततस्तमाह भगवान् कपर्दी कामशासनः ।नास्ति मे तादृशः सर्गः सृज त्वमशुभाः प्रजाः ॥१०.३८ततः प्रभृति देवोऽसौ न प्रसूतेऽशुभाः प्रजाः ।स्वात्मजैरेव तै रुद्रैर्निवृत्तात्मा ह्यतिष्ठत ॥१०.३९स्थाणुत्वं तेन तस्यासीद् देवदेवस्य शूलिनः ॥ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ॥१०.४०द्रष्टृत्वमात्मसंबोधो ह्यधिष्ठातृत्वमेव च ॥अव्ययानि दशैतानि नित्यं तिष्ठन्ति शंकरे ॥१०.४१एवं स शंकरः साक्षात्पिनाकी परमेश्वरः ॥ततः स भगवान् ब्रह्मा वीक्ष्य देवं त्रिलोचनम् ॥१०.४२सहैव मानसैः रुद्रैः प्रीतिविस्फारलोचनः ॥ज्ञात्वा परतरं भावमैश्वरं ज्ञानचक्षुषा ॥१०.४३तुष्टाव जगतामीशं कृत्वा शिरसि चाञ्जलिम् ॥ब्रह्मोवाच ।नमस्तेऽस्तु महादेव नमस्ते परमेश्वर ॥१०.४४नमः शिवाय देवाय नमस्ते ब्रह्मरूपिणे ॥नमोऽस्तु ते महेशाय नमः शान्ताय हेतवे ॥१०.४५प्रधानपुरुषेशाय योगाधिपतये नमः ॥नमः कालाय रुद्राय महाग्रासाय शूलिने ॥१०.४६नमः पिनाकहस्ताय त्रिनेत्राय नमो नमः ॥नमस्त्रिमूर्त्तये तुभ्यं ब्रह्मणो जनकाय ते ॥१०.४७ब्रह्मविद्याधिपतये ब्रह्मविद्याप्रदायिने ॥नमो वेदरहस्याय कालकालाय ते नमः ॥१०.४८वेदान्तसारसाराय नमो वेदात्ममूर्त्तये ॥नमो बुद्धाय शुद्धाय योगिनां गुरवे नमः ॥१०.४९प्रहीणशोकैर्विविधैर्भूतैः वरिवृताय ते ॥नमो ब्रह्मण्यदेवाय ब्रह्माधिपतये नमः ॥१०.५०त्र्यम्बकायदिदेवाय नमस्ते परमेष्ठिने ॥नमो दिग्वाससे तुभ्यं नमो मुण्डाय दण्डिने ॥१०.५१अनादिमलहीनाय ज्ञानगम्याय ते नमः ॥नमस्ताराय तीर्थाय नमो योगर्द्धिहेतवे ॥१०.५२नमो धर्माधिगम्याय योगगम्याय ते नमः ॥नमस्ते निष्प्रपञ्चाय निराभासाय ते नमः।१०.५३ब्रह्मणे विश्वरूपाय नमस्ते परमात्मने ॥त्वयैव सृष्टमखिलं त्वय्येव सकलं स्थितम् ॥१०.५४त्वया संह्रियते विश्वं प्रधानाद्यं जगन्मय ।त्वमीश्वरो महादेवः परं ब्रह्म महेश्वरः ॥१०.५५परमेष्ठी शिवः शान्तः पुरुषो निष्कलो हरः ॥त्वमक्षरं परं ज्योतिस्त्वं कालः परमेश्वरः ॥१०.५६त्वमेव पुरुषोऽनन्तः प्रधानं प्रकृतिस्तथा ॥भूमिरापोऽनलो वायुर्व्योमाहङ्कार एव च ॥१०.५७यस्य रूपं नमस्यामि भवन्तं ब्रह्मसंज्ञितम् ॥यस्य द्यौरभवन्मूर्द्धा पादौ पृथ्वी दिशो भुजाः ॥१०.५८आकाशमुदरं तस्मै विराजे प्रणमाम्यहम् ॥संतापयति यो नित्यं स्वभाभिर्भासयन् दिशः ॥१०.५९ब्रह्मतेजोमयं वश्वं तस्मै सूर्यात्मने नमः ॥हव्यं वहति यो नित्यं रौद्री तेजोमयी तनुः ॥१०.६०कव्यं पितृगणानां च तस्मै वह्न्यात्मने नमः ॥आप्यायति यो नित्यं स्वधाम्ना सकलं जगत् ॥१०.६१पीयते देवतासङ्घैस्तस्मै सोमात्मने नमः॥विभर्त्त्यशेषभूतानि यान्तश्चरति सर्वदा ॥१०.६२शक्तिर्माहेश्चरी तुभ्यं तस्मै वाय्वात्मने नमः ॥सृजत्यशेषमेवेदं यः स्वकर्मानुरूपतः ॥१०.६३आत्मन्यवस्थितस्तस्मै चतुर्वक्त्रात्मने नमः ॥यः शते शेषशयने विश्वमावृत्य मायया ॥१०.६४स्वात्मानुभूतियोगेन तस्मै विश्वात्मने नमः ।विभर्त्ति शिरसा नित्यं द्विसप्तभुवनात्मकम् ॥१०.६५ब्रह्माण्डं योऽखिलाधारस्तस्मै शेषात्मने नमः ॥यः परान्ते परानन्दं पीत्वा देव्यैकसाक्षिकम् ॥१०.६६नृत्यत्यनन्तमहिमा तस्मै रुद्रात्मने नमः ॥योऽन्तरा सर्वभूतानां नियन्ता तिष्ठतीश्वरः ॥१०.६७यस्य केशेषु जीमूताः नद्यः सर्वांगसन्धिषु।कुक्षौ समुद्रश्चत्वारस्तस्मै तोयात्मने नमः।१०.६८तं सर्वसाक्षिणं देवं नमस्ये विश्वतस्तनुम् ॥यं विनिन्द्रा जितश्वासाः संतुष्टाः समदर्शिनः ॥१०.६९ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥यया संतरते मायां योगी संक्षीणकल्मषः ॥१०.७०अपारतरपर्यन्तां तस्मै विद्यात्मने नमः ॥यस्य भासा विभातीदमद्वयं तमसः परम् ॥१०.७१प्रपद्ये तत् परं तत्त्वं तद्रूपं पारमेश्वरम् ॥नित्यानन्दं निराधारं निष्कलं परमं शिवम् ॥१०.७२प्रपद्ये परमात्मानं भवन्तं परमेश्वरम् ॥एवं स्तुत्वा महादेवं ब्रह्मा तद्भावभावितः ॥१०.७३प्राञ्जलिः प्रणतस्तस्थौ गृणन् ब्रह्म सनातनम् ॥ततस्तस्मै महादेवो दिव्यं योगमनुत्तमम् ॥१०.७४ऐश्वरं ब्रह्मसद्भावं वैराग्यं च ददौ हरः ॥कराभ्यां कोमलाभ्यां च संस्पृश्य प्रणतार्तिहा ॥१०.७५व्याजहरा स्वयं देवः सोऽनुगृह्य पितामहम् ॥यत्त्वयाऽभ्यर्थितं ब्रह्मन् पुत्रत्वे भवता मम ॥१०.७६कृतं मया तत्सकलं सृजस्व विविधं जगत् ॥त्रिधा भिन्नोऽस्म्यहं ब्रह्मन् ब्रह्मविष्णुहराख्यया ॥१०.७७सर्गरक्षालयगुणैर्निष्कलः परमेश्वरः ।स त्वं ममाग्रजः पुत्रः सृष्टिहेतोर्विनिर्मितः ॥१०.७८ममैव दक्षिणादङ्गाद् वामाङ्गात् पुरुषोत्तमः ।तस्य देवादिदेवस्य शंभोर्हृदयदेशतः ॥१०.७९संबभूवाथ रुद्रो वा सोहं तस्य परा तनुः ।ब्रह्मविष्णुशिवा ब्रह्मन् सर्गस्थित्यन्तहेतवः ॥१०.८०विभज्यात्मानमेकोऽपि स्वेच्छया शंकरः स्थितः ।तथान्यानि च रूपाणि मम मायाकृतानि च ॥१०.८१निरूपः केवलः स्वच्छो महादेवः स्वभावतः ।एभ्यः परतरो देवस्त्रिमूर्तिः परमा तनुः ॥१०.८२माहेश्वरी त्रिनयना योगिनां शान्तिदा सदा ।तस्या एव परां मूर्ति मामवेहि पितामह ॥१०.८३शाश्वतैश्वर्यविज्ञानतेजोयोगसमन्विताम् ।सोऽहं ग्रसामि सकलमधिष्ठाय तमोगुणम् ॥१०.८४कालो भूत्वा न मनसा मामन्योऽभिभविष्यति ।यदा यदा हि मां नित्यं विचिन्तयसि पद्मज ॥१०.८५तदा तदा मे सान्निध्यं भविष्यति तवानघ ।एतावदुक्त्वा ब्रह्माणं सोऽभिवन्द्य गुरुं हरः ॥१०.८६सहैव मानसैः पुत्रैः क्षणादन्तरधीयत ।सोऽपि योगं समास्थाय ससर्ज विविधं जगत् ॥१०.८७नारायणाख्यो भगवान् यथापूर्वं प्रिजापतिः ।मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् ॥१०.८८दक्षमत्रिं वसिष्ठं च सोऽसृजद् योगविद्यया ।नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥१०.८९सर्वे ते ब्रह्मणा तुल्याः साधका ब्रह्मवादिनः ॥संकल्पंचैव धर्मंच युगधर्मांश्च शाश्वतान् ॥१०.९०स्थानाभिमानिनः सर्वान्यथा ते कथितं पुरा ।इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे देशमोऽध्यायः ॥१०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP