संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
सप्तदशोऽध्यायः

पूर्वभागः - सप्तदशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


श्रीकूर्म उवाच ।
अन्दके निगृहीते वै प्रह्लादस्य महात्मनः ।
विरोचनो नाम सुतो बभूव नृपतिः सुतः ॥१७.१

देवाञ्जित्वा सदेवेन्द्रान बहून् वर्षान् महासुरः ।
पालयामास धर्मेण त्रैलोक्यं सचराचरम् ॥१७.२

तस्यैवं वर्तमानस्य कदाचिद् विष्णुचोदितः ।
सनत्कुमारो भगवान् पुरं प्राप महामुनिः ॥१७.३

दृष्ट्वा सिहासनगतो ब्रह्मपुत्रं महासुरः ।
ननामोत्थाय शिरसा प्राञ्जलिर्वाक्यमब्रवीत् ॥१७.४

धन्योऽस्म्यनुगृहीतोऽस्मि संप्राप्तो मे पुरातनः ।
योगीश्वरोऽद्य भगवान् यतोऽसौ ब्रह्मवित् स्वयम् ॥१७.५

किमर्थमागतो ब्रह्मन् स्वयं देवः पितामहः ।
ब्रूहि मे ब्रह्मणः पुत्र किं कार्यं करवाण्यहम् ॥१७.६

सोऽब्रवीद् भगवान् देवो धर्मयुक्तं महासुरम् ।
द्रष्टुमभ्यागतोऽहं वै भवन्तं भाग्यवानसि ॥१७.७

सुदुर्लभा नीतिरेषा दैत्यानां दैत्यसत्तम ।
त्रिलोके धार्मिको नूनं त्वादृशोऽन्यो न विद्यते ॥१७.८

इत्युक्तोऽसुरराजस्तु पुनः प्राह महामुनिम् ।
धर्माणां परमं धर्मं ब्रूहि मे ब्रह्मवित्तम ॥१७.९

सोऽब्रवीद् भगवान् योगी दैत्येन्द्राय महात्मने ।
सर्वगुह्यतमं धर्ममात्मज्ञानमनुत्तमम् ॥१७.१०

स लब्ध्वा परमं ज्ञानं दत्त्वा च गुरुदक्षिणाम् ।
निधाय पुत्रे तद्राज्यं योगाभ्यासरतोऽभवत् ॥१७.११

स तस्य पुत्रो मतिमान् बलिर्नाम महासुरः ।
ब्रह्मण्यो धार्मिकोऽत्यर्थं विजिग्येऽथ पुरंदरम् ॥१७.१२

कृत्वा तेन महद् युद्धं शक्रः सर्वामरैर्वृतः ।
जगाम निर्जितो विष्णुं देवं शरणमच्युतम् ॥१७.१३

तदन्तरेऽदितिर्देवी देवमाता सुदुः खिता ।
दैत्येन्द्राणां वधार्थाय पुत्रो मे स्यादिति स्वयम् ॥१७.१४

तताप सुमहद् घोरं तपोराशिस्तपः परम् ।
प्रपन्ना विष्णुमव्यक्तं शरण्यं शरणं हरिम् ॥१७.१५

कृत्वा हृत्पद्मकिञ्जल्के निष्कलं परमं पदम् ।
वासुदेवमनाद्यन्तमानन्दं व्योम केवलम् ॥१७.१६

प्रसन्नो भगवान् विष्णुः शङ्खचक्रगदाधरः ।
आविर्बभूव योगात्मा देवमातुः पुरो हरिः ॥१७.१७

दृष्ट्वा समागतं विष्णुमदितिर्भक्तिसंयुता ।
मेने कृतार्थमात्मानं तोषयामास केशवम् ॥१७.१८

अदितिरुवाच ।
जयाशेषदुःखौघनाशैकहेतो
जयानन्तमाहात्म्ययोगाभियुक्त ।
जयानादिमध्यान्तविज्ञानमूर्त्ते
जयाशेषकल्पामलानन्दरूप ॥१७.१९

नमो विष्णवे कालरूपाय तुभ्यं
नमो नारसिंहाय शेषाय तुभ्यम् ।
नमः कालरुद्राय संहारकर्त्रे
नमो वासुदेवाय तुभ्यं नमस्ते ॥१७.२०

नमो विश्वमायाविधानाय तुभ्यं
नमो योगगम्याय सत्याय तुभ्यम् ।
नमो धर्मविज्ञाननिष्ठाय तुभ्यं
नमस्ते वराहाय भूयो नमस्ते ॥१७.२१

नमस्ते सहस्त्रार्कचन्द्राभमूर्त्ते
नमो वेदविज्ञानधर्माभिगम्य ।
नमो देवदेवादिदेवाय तुभ्यं
प्रभो विश्वयोनेऽथ भूयो नमस्ते ॥१७.२२

नमः शंभवे सत्यनिष्ठाय तुभ्यं
नमो हेतवे विश्वरूपाय तुभ्यम् ।
नमो योगपीठान्तरस्थाय तुभ्यं
शिवायैकरूपाय भूयो नमस्ते ॥१७.२३

एवं स भगवान् कृष्णो देवमात्रा जगन्मयः ।
तोषितश्छंदयामास वरेण प्रहसन्निव ॥१७.२४

प्रणम्य शिरसा भूमौ सा वब्रे वरमुत्तमम् ।
त्वामेव पुत्रं देवानां हिताय वरये वरम् ॥१७.२५

तथास्त्वित्याह भगवान् प्रपन्नजनवत्सलः ।
दत्त्वा वरानप्रमेयस्तत्रैवान्तरधीयत ॥१७.२६

ततो बहुतिथे काले भगवन्तं जनार्दनम् ।
दधार गर्भं देवानां माता नारायणं स्वयम् ॥१७.२७

समाविष्टे हृषीकेशे देवमातुरथोदरम् ।
उत्पाता जज्ञिरे घोरा बलेर्वैरोचनेः पुरे ॥१७.२८

निरीक्ष्य सर्वानुत्पातान् दैत्येन्द्रो भयविह्वलः ।
प्रह्लादमसुरं वृद्धं प्रणम्याह पितामहम् ॥१७.२९

बलिरुवाच ।
पितामह महाप्राज्ञ जायन्तेऽस्मत्पुरेऽधुना ।
किमुत्पातो भवेत् कार्यमस्माकं किंनिमित्तकाः ॥१७.३०

निशम्य तस्य वचनं चिरं ध्यात्वा महासुरः ।
नमस्कृत्य हृषीकेशमिदं वचनमब्रवीत् ॥१७.३१

प्रह्लाद उवाच ।
यो यज्ञैरिज्यते विष्णुर्यस्य सर्वमिदं जगत् ।
दधारासुरनाशार्थं माता तं त्रिदिवौकसाम् ॥१७.३२

यस्मादभिन्नं सकलं भिद्यते योऽखिलादपि ।
स वासुदेवो देवानां मातुर्देहं समाविशत् ॥१७.३३

न यस्य देवा जानन्ति स्वरूपं परमार्थतः ।
स विष्णुरदितेर्देहं स्वेच्छयाऽद्य समाविशत् ॥१७.३४

यस्माद् भवन्ति भूतानि यत्र संयान्ति संक्षयम् ।
सोऽवतीर्णो महायोगी पुराणपुरुषो हरिः ॥१७.३५

न यत्र विद्यते नामजात्यादिपरिकल्पना ।
सत्तामात्रात्मरूपोऽसौ विष्णुरंशेन जायते ॥१७.३६

यस्य सा जगतां माता शक्तिस्तद्धर्मधारिणी ।
माया भगवती लक्ष्मीः सोऽवतीर्णो जनार्दनः ॥१७.३७

यस्य सा तामसी मूर्त्तिः शंकरो राजसी तनुः ।
ब्रह्मा संजायते विष्णुरंशेनैकेन सत्त्वभृत् ॥१७.३८

इत्थं विचिन्त्य गोविन्दं भक्तिनम्रेण चेतसा ।
तमेव गच्छ शरणं ततो यास्यसि निर्वृतिम् ॥१७.३९

ततः प्रह्लादवचनाद् बलिर्वैरोचनिर्हरिम् ।
जगाम शरणं विश्वं पालयामास धर्मतः ॥१७.४०

काले प्राप्ते महाविष्णुं देवानां हर्षवर्द्धनम् ।
असूत कश्यपाच्चैनं देवमाताऽदितिः स्वयम् ॥१७.४१

चतुर्भुजं विशालाक्षं श्रीवत्साङ्कितवक्षसम् ।
नीलमेघप्रतीकाशं भ्राजमानं श्रियावृतम् ॥१७.४२

उपतस्थुः सुराः सर्वे सिद्धाः साध्याश्च चारणाः ।
उपेन्द्र इन्द्रप्रमुखा ब्रह्मा चर्षिगणैर्वृतः ॥१७.४३

कृतोपनयनो वेदानध्यैष्ट भगवान् हरिः ।
समाचारं भरद्वाजात् त्रिलोकाय प्रदर्शयन् ॥१७.४४

एवं हि लौकिकं मार्गं प्रदर्शयति स प्रभुः ।
स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते ॥१७.४५

ततः कालेन मतिमान् बलिर्वैरोचनिः स्वयम् ।
यज्ञैर्यज्ञेश्वरं विष्णुमर्चयामास सर्वगम् ॥१७.४६

ब्राह्मणान् पूजयामास दत्त्वा बहुतरं धनम् ।
ब्रह्मर्षयः समाजग्मुर्यज्ञवाटं महात्मनः ॥१७.४७

विज्ञाय विष्णुर्भगवान् भरद्वाजप्रचोदितः ।
आस्थाय वामनं रूपं यज्ञदेशमथागमत् ॥१७.४८

कृष्णाजिनोपवीताङ्ग आषाढेन विराजितः ।
ब्राह्मणो जटिलो वेदानुद्‌गिरन् भस्ममण्डितः ॥१७.४९

संप्राप्यासुरराजस्य समीपं भिक्षुको हरिः ।
स्वपद्भ्यां क्रमितं देशमयाचत बलिं त्रिभिः ॥१७.५०

प्रक्षाल्य चरणौ विष्णोर्बलिर्भावसमन्वितः ।
आचामयित्वा भृङ्गारमादाय स्वर्णनिर्मितम् ॥१७.५१

दास्ये तवेदं भवते पदत्रयं
प्रीणातु देवो हरिरव्ययाकृतिः ।
विचिन्त्य देवस्य कराग्रपल्लवे
निपातयामास जलं सुशीतलम् ॥१७.५२

विचक्रमे पृथिवीमेष चैता-
मथान्तरिक्षं दिवमादिदेवः ।
व्यपेतरागं दितिजेश्वरं तं
प्रकर्तुकामः शरणं प्रपन्नम् ॥१७.५३

आक्रम्य लोकत्रयमीशपादः
प्राजापत्याद् ब्रह्मलोकं जगाम ।
प्रणेमुरादित्यसहस्त्रकल्पं
ये तत्र लोके निवसन्ति सिद्धाः ॥१७.५४

अथोपतस्थे भगवाननादिः
पितामहास्तोषयामास विष्णुम् ।
भित्त्वा तदण्डस्य कपालमूर्ध्वं
जगाम दिव्याभरणानि भूयः ॥१७.५५

अथाण्डभेदान्निपपात शीतलं
महाजलं तत् पुण्यकृद्भिश्चजुष्टम् ।
प्रवर्तते चापि सरिद्वरा तदा
गङ्गेत्युक्त्वा ब्रह्मणा व्योमसंस्था ॥१७.५६

गत्वा महान्तं प्रकृतिं प्रधानं
ब्रह्माणमेकं पुरुषं स्वबीजम् ।
अतिष्ठदीशस्य पदं तदव्ययं
दृष्ट्वा देवास्तत्र तत्र स्तुवन्ति ॥१७.५७

आलोक्य तं पुरुषं विश्वकायं
महान् बलिर्भक्तियोगेन विष्णुम् ।
ननाम नारायणमेकमव्ययं
स्वचेतसा यं प्रणमन्ति वेदाः ॥१७.५८

तमब्रवीद् भगवानादिकर्त्ता
भूत्वा पुनर्वामनो वासुदेवः ।
ममैव दैत्याधिपतेऽधुनेदं
लोकत्रयं भवता भावदत्तम् ॥१७.५९

प्रणम्य मूर्ध्ना पुनरेव दैत्यो
निपातयामास जलं कराग्रे ।
दास्ये तवात्मानमनन्तधाम्ने
त्रिविक्रमायामितविक्रमाय ॥१७.६०

प्रगृह्य सूनोरपि संप्रदत्तं
प्रह्लादसूनोरथ शङ्खपाणिः ।
जगाद दैत्यं जगदन्तरात्मा
पातालमूलं प्रविशेति भूयः ॥१७.६१

समास्यतां भवता तत्र नित्यं
भुक्त्वा भोगान् देवतानामलभ्यान् ।
ध्यायस्व मां सततं भक्तियोगात्
प्रवेक्ष्यसे कल्पदाहे पुनर्माम् ॥१७.६२

उक्त्वैवं दैत्यसिंहं तं विष्णुः सत्यपराक्रमः ।
पुरंदराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः ॥१७.६३

संस्तुवन्ति महायोगं सिद्धा देवर्षिकिन्नराः ।
ब्रह्मा शक्रोऽथ भगवान् रुद्रादित्यमरुद्‌गणाः ॥१७.६४

कृत्वैतदद्‌भुतं कर्म विष्णुर्वामनरूपधृक् ।
पश्यतामेव सर्वेषां तत्रैवान्तरधीयत ॥१७.६५

सोऽपि दैत्यवरः श्रीमान् पातालं प्राप चोदितः ।
प्रह्लादेनासुरवरैर्विष्णु भक्तस्तुतत्परः ॥१७.६६

अपृच्छद् विष्णुमाहात्मयं भक्तियोगमनुत्तमम् ।
पूजाविधानं प्रह्लादं तदाहासौ चकार सः ॥१७.६७

अथ रथचरणंसशङ्खपाणिं
सरसिजोलचनमीशमप्रमेयम् ।
शरणमुपपयौ स भावयोगात्
प्रणयगतिं प्रणिधाय कर्मयोगम् ॥१७.६८

एष वः कथितो विप्रा वामनस्य पराक्रमः ।
स देवकार्याणि सदा करोति पुरुषोत्तमः ॥१७.६९

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे सप्तदशोऽध्याय॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP