संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
एकत्रिंशत्तमोऽध्यायः

पूर्वभागः - एकत्रिंशत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


ऋषय ऊचुः ।
प्राप्य वाराणसीं दिव्यां कृष्णद्वैपायनो मुनिः ।
किमकार्षीन्महाबुद्धिः श्रोतुं कौतूहलं हि नः ॥३१.१

सूत उवाच ।
प्राप्य वाराणसीं दिव्यामुपस्पृश्य महामुनिः ।
पूजयामास जाह्नव्यां देवं विश्वेश्वरं शिवम् ॥३१.२

तमागतं मुनिं दृष्ट्वा तत्र ये निवसन्ति वै ।
पूजयाञ्चक्रिरे व्यासं मुनयो मुनिपुंगवम् ॥३१.३

पप्रच्छुः प्रणताः सर्वे कथाः पापविनाशनीम् ।
महादेवाश्रयाः पुण्यां मोक्षधर्मान् सनातनान् ॥३१.४

स चापि कथयामास सर्वज्ञो भगवानृषिः ।
माहात्म्यं देवदेवस्य धर्मान् वेदनिदर्शितान् ॥३१.५

तेषां मध्ये मुनीन्द्राणां व्यासशिष्यो महामुनिः ।
पृष्टवान् जैमिनिर्व्यासं गूढमर्थं सनातनम् ॥३१.६

जैमिनिरुवाच ।
भगवन् संशयञ्चैकं छेत्तुमर्हसि तत्त्ववित् ।
न विद्यते ह्यविदितं भवता परमर्षिणः ॥३१.७

केचिद् ध्यानं प्रशंसन्ति धर्ममेवापरे जनाः ।
अन्ये सांख्यं तथा योगं तपस्त्वन्ये महर्षयः ॥३१.८

ब्रह्मचर्यमथो मौनमन्ये प्राहुर्महर्षयः ।
अहिंसां सत्यमप्यन्ये संन्यासमपरे विदुः ॥३१.९

केचिद् दयां प्रशंसन्ति दानमध्ययनं तथा ।
तीर्थयात्रां तथा केचिदन्ये चेन्द्रियनिग्रहम् ॥३१.१०

किमेतेषां भवेज्ज्यायः प्रब्रूहि मुनिपुंगव ।
यदि वा विद्यतेऽप्यन्यद् गुह्यं तद्वक्तुमर्हसि ॥३१.११

श्रुत्वा स जैमिनेर्वाक्यं कृष्णद्वैपायनो मुनिः ।
प्राह गम्भीरया वाचा प्रणम्य वृषकेतनम् ॥३१.१२

साधु साधु महाभाग यत्पृष्टं भवता मुने ।
वक्ष्ये गुह्यतमाद् गुह्यं श्रुण्वन्त्वन्ये महर्षयः ॥३१.१३

ईश्वरेण पुरा प्रोक्तं ज्ञानमेतत् सनातनम् ।
गूढमप्राज्ञविद्विष्टं सेवितं सूक्ष्मदर्शिभिः ॥३१.१४

नाश्रद्दधाने दातव्यं नाभक्ते परमेष्ठिनः ।
न वेदविदुषे देयं ज्ञानानां ज्ञानमुत्तमम् ॥३१.१५

मेरुश्रृङ्गे महा देवंमीशानं त्रिपुरद्विषम् ।
देवासनगता देवी महादेवमपृच्छत ॥३१.१६

देव्युवाच ।
देवदेव महादेव भक्तानामार्त्तिनाशन ।
कथं त्वां पुरुषो देवमचिरादेव पश्यति ॥३१.१७

सांख्ययोगस्तथा ध्यानं कर्मयोगोऽथ वैदिकः ।
आयासबहुलान्याहुर्यानि चान्यानि शंकर ॥३१.१८

येन विब्रान्तचित्तानां योगिनां कर्मिणामपि ।
दृश्यो हि भगवान् सूक्ष्मः सर्वेषामपि देहिनाम् ॥३१.१९

एतद् गुह्यतमं ज्ञानं गूढं ब्रह्मादिसेवितम ।
हिताय सर्वभक्तानां ब्रूहि कामाङ्गनाशन ॥३१.२०

ईश्वर उवाच ।
अवाच्यमेतद् विज्ञानं ज्ञानमज्ञैर्बहिष्कृ ।
वक्ष्ये तव यथा तत्त्वं यदुक्तं परमर्षिभिः ॥३१.२१

परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी ।
सर्वेषामेव भूतानां संसारार्णवतारिणी ॥३१.२२

तत्र भक्ता महादेवि मदीयं व्रतमास्थिताः ।
निवसन्ति महात्मानः परं नियममास्थिताः ॥३१.२३

उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च तत् ।
ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम ॥३१.२४

स्थानान्तरं पवित्राणि तीर्थान्यायतनानि च ।
श्मशानेसंस्थितान्येव दिव्यभूमिगतानि च ॥३१.२५

भूर्लोके नैव संलग्नमन्तरिक्षे ममालयम् ।
अयुक्तास्तन्न पश्यन्ति युक्ताः पश्यन्ति चेतसा ॥३१.२६

श्मसानमेतद् विख्यातमविमुक्तमिति श्रुतम् ।
कालो भूत्वा जगदिदं संहराम्यत्र सुन्दरि ॥३१.२७

देवीदं सर्वगुह्यानां स्थानं प्रियतमं मम ।
मद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्तते ॥३१.२८

दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ।
ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत् ॥३१.२९

जन्मान्तरसहस्रेषु यत्पापं पूर्वसंचितम् ।
अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ॥३१.३१

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये वर्णसंकराः ।
स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः ॥३१.३१

कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः ।
कालेन निधनं प्राप्ता अविमुक्ते वरानने ॥३१.३२

चन्द्रार्द्धमौलयस्त्र्यक्षा महावृषभवाहनाः ।
शिवे मम पुरे देवि जायन्ते तत्र मानवाः ॥३१.३३

नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषः ।
ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम् ॥३१.३४

मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् ।
अश्मना चरणौ हत्वा वाराणस्यां वसेन्नरः ॥३१.३५

दुर्लभा तपसा चापि पूतस्य परमेश्वरि ।
यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी ॥३१.३६

प्रसादाज्जायते ह्येतन्मम शैलेन्द्रनन्दिनि ।
अप्रबुद्धा न पश्यन्ति मम मायाविमोहिताः ॥३१.३७

अविमुक्तं न सेवन्ति मूढा ये तमसावृताः ।
विण्मूत्ररेतसां मध्ये संवसन्ति पुनः पुनः ॥३१.३८

हन्यमानोऽपि यो विद्वान् वसेद् विघ्नशतैरपि ।
स याति परमं स्थानं यत्र गत्वा न शोचति ॥३१.३९

जन्ममृत्युजरामुक्तं परं याति शिवालयम् ।
अपुनर्मरणानां हि सा गतिर्मोक्षकाङिक्षणाम् ॥३१.४०

यां प्राप्य कृतकृत्यः स्यादिति मन्यन्ति पण्डतः ।
न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया ॥३१.४१

प्राप्यते गतिरुत्कृष्टा याऽविमुक्ते तु लभ्यते ।
नानावर्णा विवर्णाश्च चण्डालाद्या जुगुप्सिताः ॥३१.४२

किल्बिषैः पूर्णदेहा ये विशिष्टैः पातकैस्तथा ।
भेषजं परमं तेषामविमुक्तं विदुर्बुधाः ॥३१.४३

अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् ।
अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् ॥३१.४४

कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसन्ति ये ।
तेषां तत्परमं ज्ञानं ददाम्यन्ते परं पदम् ॥३१.४५

प्रायागं नैमिषं पुण्यं श्रीशैलोऽथ महालयः ।
केदारं भद्रकर्णं च गया पुष्करमेव च ॥३१.४६

कुरुक्षेत्रं रुद्रकोटिर्नर्मदाहाटकेश्वरम् ।
शालिग्रामं च पुष्पाग्रं वंशं कोकामुखं तथा ।३१.४७

प्रभासं विजयेशानं गोकर्णं शङ्कुकर्णकम् ।
एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह ॥३१.४८

न यास्यन्ति परं मोक्षं वाराणस्यां यथा मृताः ।
वाराणस्यां विशेषेण गङ्गा त्रिपथगामिनी ॥३१.४९

प्रविष्टा नाशयेत् पापं जन्मान्तरशतैः कृतम् ।
अन्यत्र सुलभा गङ्गा श्राद्धं दानं तथा जपः ॥३१.५०

व्रतानि सर्वमेवैतद् वाराणस्यां सुदुर्लभम् ।
यजेत जुहुयान्नित्यं ददात्यर्चयतेऽमरान् ॥३१.५१

वायुभक्षश्च सततं वाराणस्यां स्तितो नरः ।
यदि पापो यदि शठो यदि वाऽधार्मिको नरः ॥३१.५२

वाराणसीं समासाद्य पुनाति सकुलत्रयं ।
वाराणस्यां महादेवं येऽर्चयन्ति स्तुवन्ति वै ॥३१.५३

सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः ।
अन्यत्र यागज्ज्ञानाद्वा संन्यासादथवाऽन्यतः ॥३१.५४

प्राप्यते तत् परं स्थानं सहस्रेणैव जन्मना ।
ये भक्ता देवदेवेशे वाराणस्यां वसन्ति वै ॥३१.५५

ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना ।
यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना ॥३१.५६

अविमुक्तं समासाद्य नान्यद् गच्छेत् तपोवनम् ।
यतो मया न मुक्तं तदविमुक्तं ततः स्मृतम् ॥३१.५७

तदेव गुह्यं गुह्यानामेतद् विज्ञाय मुच्यते ।
ज्ञानध्यानाभिनिष्ठानां परमानन्दमिच्छताम् ॥३१.५८

या गतिर्विहिता सुभ्रु साविमुक्ते मृतस्य तु ।
यानि कान्यविमुक्तानि देवैरुक्तानि नित्यशः ॥३१.५९

पुरी वाराणसी तेभ्यः स्थानेभ्यो ह्यधिकाशुभा ।
यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः ॥३१.६०

व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तकम् ।
यत् तत् परतरं तत्त्वमविमुक्तमिति श्रुतम् ॥३१.६१

एकेन जन्मना देवि वाराणस्यां तदाप्नुयात् ।
भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्द्धनि ॥३१.६२

यथाऽविमुक्तादित्ये वाराणस्यां व्यवस्थितम् ।
वरणायास्तथा चास्या मध्ये वाराणसी पुरी ॥३१.६३

तत्रैव संस्थितं तत्त्वं नित्यमेवाविमुक्तकम् ।
वाराणस्याः परं स्थानं न भूतं न भविष्यति ॥३१.६४

यत्र नारायणो देवो महादेवादिवेश्वरात् ।
तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ॥३१.६५

उपासते मां सततं देवदेवः पितामहः ।
महापातकिनो ये च ये तेभ्यः पापकृत्तमाः ॥३१.६६

वाराणसीं समासाद्य ते यान्ति परमां गतिम् ।
तस्मान्मुमुक्षुर्नियतो वसेच्चामरणान्तिकम् ॥३१.६७

वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते ।
किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसः ॥३१.६८

ततो नैव चरेत् पापं कायेन मनसा गिरा ।
एतद् रहस्यं वेदानां पुराणानां द्विजोत्तमाः ॥३१.६९

अविमुक्ताश्रयं ज्ञानं न कश्चिद् वेत्ति तत्त्वतः ।
देवतानामृषीणां च श्रृण्वतां परमेष्ठिनाम् ॥३१.७०

देव्यै देवेन कथितं सर्वपापविनाशनम् ।
यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः ॥३१.७१

यथेश्वराणां गिरिशः स्थानानां चैतदुत्तमम् ।
यैः समाराधितो रुद्रः पूर्वस्मिन्नेव जन्मनि ॥३१.७२

तं विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम् ।
कलिकल्मषसंभूता येषामुपहता मतिः ॥३१.७३

न तेषां वेदितुं शक्यं स्थानं तत् परमेष्ठिनः ।
ये स्मरन्ति सदा कालं विन्दन्ति च पुरीमिमाम् ॥३१.७४

तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ।
यानि चेह प्रकुर्वन्ति पातकानि कृतालयाः ॥३१.७५

नाशयेत् तानि सर्वाणि देवः कालतनुः शिवः ।
आगच्छतामिदं स्थानं सेवितुं मोक्षकाङ्‌क्षिणाम् ॥३१.७६

मृतानां च पुनर्जनम् न भूयो भवसागरे ।
तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ॥३१.७७

योगी वाप्यथवाऽयोगी पापी वा पुण्यकृत्तमः ।
न वेदवचनात् पित्रोर्न चैव गुरुवादतः ॥३१.७८

मतिरुत्क्रमणीया स्यादविमुक्तागतिं प्रति ॥३१.७९

सूत उवाच
इत्येवमुक्त्वा भगवान् व्यासो वेदविदां वरः ।
सहैव शिष्यप्रवरैर्वाराणस्यां चचार ह ॥३१.८०

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वंविभागे एकत्रिशोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP