पूर्वभागः - चतुर्विंशतितमोऽध्यायः
पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.
सूत उवाच ।
क्रोष्टोरेकोऽभवत् पुत्रो वज्रवानिति विश्रुतः ।
तस्य पुत्रोऽभवतच्छान्तिः कुशिकस्तत्सुतोऽभवत् ॥२४.१
उशद्गोरभवत् पुत्रो नाम्ना चित्ररथो बली ।
अथ चैत्ररथिर्लोके शशबिन्दुरिति स्मृतः ॥२४.२
तस्य पुत्रः पृथुयशा राजाऽभूद् धर्मतत्परः ।
पृथुकर्मा च तत्पुत्रस्तस्मात् पृथुजयोऽभवत् ॥२४.३
पृथुकीर्तिरभूत् तस्मात् पृथुदानस्ततोऽभवत् ।
पृथुश्रवास्तस्य पुत्रस्तस्यासीत् पृथुसत्तमः ॥२४.४
उशनास्तस्य पुत्रोऽभूच्छतेषुस्तत्सुतोऽभवत् ।
तस्याभूद् रुक्मकवचः परावृतश्च तत्सुतः ॥२४.५
परावृतः सुतो जज्ञे यामघो लोकविश्रुतः ।
तस्माद् विदर्भः संजज्ञे विदर्भात् क्रथकैशिकौ ॥२४.६
रोमपादस्तृतीयस्तु बभ्रुस्तस्यात्मजो नृपः ।
धृतिस्तस्याभवत् पुत्रः संन्तस्तस्याप्यभूत् सुतः ॥२४.७
संन्तस्य पुत्रो बलवान् नाम्ना विश्वसहः स्मृतः ।
तस्य पुत्रो महावीर्यः प्रजावान् कौशिक स्मृतः ।२४.८
अभूत् तस्य सुतो धीमान् सुमन्तुस्तत्सुतोऽनलः ।
कैशिकस्य सुतश्चेदिश्चैद्यास्तस्याभवन् सुताः ॥२४.९
तेषां प्रधानो द्युतिमान् वपुष्मांस्तत्सुतोऽभवत् ॥
वपुष्मतो बृहन्मेधा श्रीदेवस्तत्सुतोऽभवत् ॥२४.१०
तस्य वीतरथो विप्रा रुद्रभक्तो महाबलः ।
क्रथस्याप्यभवत् कुन्ती वृष्णी तस्याभवत् सुतः ॥२४.११
तस्मान्नवरथो नाम बभुव सुमहाबलः ।.
कदाचिन्मृगयां यातो दृष्ट्वा राक्षसमूर्जितम् ॥२४.१२
दुद्राव महातविष्टो भयेन मुनिपुंगवाः ।
अन्वधावत संक्रुद्धो राक्षसस्तं महाबलः ॥२४.१३
दुर्योधनोऽग्निसंकाशः शूलासक्तमहाकरः ।
राजा नवरथो भीत्या नातिदूरादवस्थितम् ॥२४.१४
अपश्यत् परमं स्थानं सरस्वत्या सुगोपितम् ॥
स तद्वेगेन महता संप्राप्य मतिमान् नृपः ॥२४.१५
ववन्दे शिरसा दृष्ट्वा साक्षाद् देवीं सरस्वतीम् ।
तुष्टाव वाग्भिरिष्टाभिर्बद्धाञ्जलिरमित्रजित् ॥२४.१६
पपात दण्डवद् भूमौ त्वामहं शरणं गतः ।
नमस्यामि महादेवीं साक्षाद् देवीं सरस्वतीम् ॥२४.१७
वाग्देवतामनाद्यन्तामीश्वरीं ब्रह्मचारिणीम् ।
नमस्ये जगतां योनिं योगिनीं परमां कलाम् ॥२४.१८
हिरण्यगर्भमहिषीं त्रिनेत्रां चन्द्रशेखराम् ।
नमस्ये परमानन्दां चित्कलां ब्रह्मरूपिणीम् ॥२४.१९
पाहि मां परमेशानि भीतं शरणमागतम् ॥
एतस्मिन्नन्तरे क्रुद्धो राजानं राक्षसेश्वरः ॥२४.२०
हन्तुं समागतः स्थानं यत्र देवी सरस्वती ।
समुद्यम्य तदा शूलं प्रवेष्टुं बलदर्पितः ॥२४.२१
त्रिलोकमातुस्तत्स्थानं शशाङ्कादित्यसंन्निभम् ॥
तदन्तरे महद्भूतं युगान्तादित्यसन्निभम् ॥२४.२२
शूलेनोरसि निर्भिद्य पातयामास तं भुवि ।
गच्छेत्याह महाराज न स्थातव्यं त्वया पुनः ॥२४.२३
इदानीं निर्भयस्तूर्णं स्थानेऽस्मिन् राक्षसो हतः ।
ततः प्रणम्य हृष्टात्मा राजा नवरथः पराम् ॥२४.२४
पुरीं जगाम विप्रेन्द्राः पुरंदरपुरोपमाम् ।
स्थापयामास देवेशीं तत्र भक्तिसमन्वितः ॥२४.२५
ईजे च विविधैर्यज्ञैर्होमैर्देवीं सरस्वतीम् ॥
तस्य चासीद् दशरथः पुत्रः परमधार्मिकः ॥२४.२६
देव्या भक्तो महातेजाः शकुनिस्तस्य चात्मजः ।
तस्मात् करम्भः संभूतो देवरातोऽभवत् ततः ॥२४.२७
ईजे स चाश्वमेधेन देवक्षत्रश्च तत्सुतः ।
मधुस्तस्य तु दायादस्तस्मात् कुरुवशोऽभवत् ॥२४.२८
पुत्रद्वयमभूत् तस्य सुत्रामा चानुरेव च ।
अनोस्तु पुरुकुत्सोऽभूदंशुस्तस्य च रिक्थभाक् ॥२४.२९
अथांशोःरन्धको नाम विष्णुभक्तः प्रतापवान् ।
महात्मा दाननिरतो धनुर्वेदविदां वरः ॥२४.३०
स नारदस्य वचनाद् वासुदेवार्चने रतः ।
शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रुतम् ॥२४.३१
तस्य नाम्ना तु विख्यातं सात्त्वतं नाम शोभनम् ।
प्रवर्तते महाशास्त्रं कुण्डादीनां हितावहम् ॥२४.३२
सात्त्वतस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः ।
पुण्यश्लोको महाराजस्तेन वै तत्प्रवर्तितम् ॥२४.३३
सात्त्वतः सत्त्वसंपन्नः कौशल्यां सुषुवे सुतान् ।
अन्धकं वै महाभोजं वृष्णिं देवावृधं नृपम् ॥२४.३४
ज्येष्ठं च भजमानाख्यं धनुर्वेदविदां वरम् ।
तेषां देवावृधो राजा चचार परमं तपः ॥२४.३५
पुत्रः सर्वगुणोपेतो मम भूयादिति प्रभुः ।
तस्य बभ्रुरिति ख्यातः पुण्यश्लोकोऽभवन्नृपः ॥२४.३६
धार्मिको रूपसंपन्नस्तत्त्वज्ञानरतः सदा ।
भजमानस्य मृञ्जय्यां भजमानाद्विजज्ञिरे ॥२४.३७
तेषां प्रधानौ विख्यातौ निमिः कृकण एव च ।
महाभोजकुले जाता भोजा वैमातृकास्तथा ॥२४.३८
वृष्णेः सुमित्रो बलवाननमित्रस्तिमिस्तथा ।
अनमित्रादभून्निघ्नो निघ्नस्य द्वौ बभूवतुः ॥२४.३९
प्रसेनस्तु महाभागः सत्राजिन्नाम चोत्तमः ।
अनमित्राच्छिनिर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात् ॥२४.४०
सत्यवान् सत्यसंपन्नः सत्यकस्तत्सुतोऽभवत् ॥
सात्यकिर्युयुधानस्तु तस्यासङ्गोऽभवत् सुतः ॥२४.४१
कुणिस्तस्य सुतो धीमांस्तस्य पुत्रो युगंधरः ।
माद्र्या वृष्णेः सुतो जज्ञे वृष्णेर्वै यदुनन्दनः ॥२४.४२
जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकश्च हि ।
श्वफल्कः काशिराजस्यसुतां भार्यामविन्दत ॥२४.४३
तस्यामजनयत् पुत्रमक्रूरं नाम धार्मिकम् ।
उपमङ्गुस्तथा मङ्गुरन्ये च बहवः सुताः ॥२४.४४
अक्रूरस्य स्मृतः पुत्रो देववानिति विश्रुतः ।
उपदेवश्च पुण्यात्मा तयोर्विश्वप्रमाथिनौ ॥२४.४५
चित्रकस्याभवत् पुत्रः पृथुर्विपृथुरेव च ।
अश्वग्रीवः सुबाहुश्च सुपार्श्वकगवेषणौ ॥२४.४६
अन्धकात् कास्यदुहिता लेभे च चतुरः सुतान् ।
कुकुरं भजमानं च शमीकं बलगर्वितम् ॥२४.४७
कुकुरस्य सुतो वृष्णिर्वृष्णेस्तु तनयोऽभवत् ।
कपोतरोमा विपुलस्तस्य पुत्रो विलोमकः ॥२४.४८
तस्यासीत् तुम्बुरुसखा विद्वान् पुत्रस्तलः किल ।
स्थीयते तस्यनाम्नातु तयोरानकदुन्दुभिः ॥२४.४९
स गोवर्धनमासाद्य तताप विपुलं तपः ।
वरं तस्मै ददौ देवो ब्रह्मा लोकमहेश्वरः ॥२४.५०
वंशस्य चाक्षयां कीर्ति ज्ञानयोगमनुत्तमम् ।
गुरोरप्यधिकं विप्राः कामरूपित्वमेव च ॥२४.५१
स लब्ध्वा वरमव्यग्रो वरेण्यं वृषवाहनम् ।
पूजयामास गानेन स्थाणुं त्रिदशपूजितम् ॥२४.५२
तस्य गानरतस्याथ भगवानम्बिकापतिः ।
कन्यारत्नं ददौ देवो दुर्लभं त्रिदशैरपि ॥२४.५३
तया स सङ्गतो राजा गानयोगमनुत्तमम् ।
अशिक्षयदमित्रघ्नः प्रियां तां भ्रान्तलोचनाम् ॥२४.५४
तस्यामुत्पादयामास सुभुजं नाम शोभनम् ।
रूपलावण्यसंपन्नां ह्रीमतीमपि कन्यकाम् ॥२४.५५
ततस्तं जननी पुत्रं बाल्ये वयसि शोभनम् ।
शिक्षयामास विधिवद् गानविद्यां च कन्यकाम् ॥२४.५६
कृतोपनयनो वेदानधीत्य विधिवद् गुरोः ।
उद्ववाहात्मजां कन्यां गन्धर्वाणां तु मानसीम् ॥२४.५७
तस्यामुत्पादयामास पञ्च पुत्राननुत्तमान् ।
वीणावादनतत्त्वज्ञान् गानशास्त्रविशारदान् ॥२४.५८
पुत्रैः पौत्रैः सपत्नीको राजा गानविशारदः ।
पूजयामास गानेन देवं त्रिपुरनाशनम् ॥२४.५९
ह्रीमती चापि या कन्या श्रीरिवायतलोचना ।
सुबाहुर्नाम गन्धर्वस्तामादाय ययौ पुरीम् ॥२४.६०
तस्यामप्यभवन् पुत्रा गन्धर्वस्य सुतेजसः ।
सुषेणधीरसुग्रीवसुभोजनरवाहनाः ॥२४.६१
अथासीदभिजित् पुत्रो वीरस्त्वानकदुन्दुभेः ।
पुनर्वसुश्चाभिजितः संबभूवाहुकस्ततः ॥२४.६२
आहुकस्योग्रसेनश्च देवकश्च द्विजोत्तमाः ।
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥२४.६३
देववानुपदेवश्च सुदेवो देवरक्षितः ।
तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ॥२४.६४
वृकदेवोपदेवा च तथान्या देवरक्षिता ।
श्रीदेवा शान्तिदेवा च सहदेवा च सुव्रता ॥२४.६५
देवकी चापि तासां तु वरिष्ठाऽभूत् सुमध्यमा ।
उग्रसेनस्य पुत्रोऽभून्न्यग्रोधः कंस एव च ॥२४.६६
सुभूमी राष्ट्रपालश्च तुष्टिमाञ्छङ्कुरेव च ।
भजमानादबूत् पुत्रः प्रख्यातोऽसौ विदूरथः ॥२४.६७
तस्य सूरसमस्तस्मात् प्रतिक्षत्रस्ततोऽभवत् ।
स्वयंभोजस्ततस्तस्माद् हृदिकः शत्रुतापनः ॥२४.६८
कृतवर्माऽथ तत्पुत्रो देवलस्तत्सुतः स्मृतः ।
स शूरस्तत्सुतो धीमान् वसुदेवोऽथ तत्सुतः ॥२४.६९
वसुदेवावन्महाबाहुर्वासुदेवो जगद्गुरुः ।
बभूव देवकीपुत्रो देवैरभ्यर्थितो हरिः ॥२४.७०
रोहिणी च महाभागा वसुदेवस्य शोभना ।
असूत पत्नी संकर्षं रामं ज्येष्ठं हलायुधम् ॥२४.७१
स एव परमात्माऽसौ वासुदेवो जगन्मयः ।
हलायुधः स्वयं साक्षाच्छेषः संकर्षणः प्रभुः ॥२४.७२
भृगुशापच्छलेनैव मानयन् मानुषीं तनुम् ।
बभूत तस्यां देवक्यां रोहिण्यामपि माधवः ॥२४.७३
उमादेहसमुद्भूता योगनिद्रा च कौशीकी ।
नियोगाद् वासुदेवस्य यशोदातनया ह्यभूत् ॥२४.७४
ये चान्ये वसुदेवस्य वासुदेवाग्रजाः सुताः ।
प्रागेव कंसस्तान् सर्वान् जघान मुनिपुंगवाः ॥२४.७५
सुषेणश्च तथोदायी भद्रसेनो महाबलः ।
ऋजुदासो भद्रदासः कीर्तिमानपि पूर्वजः ॥२४.७६
हतेष्वेतेषु सर्वेषु रोहिणी वसुदेवतः ।
असूत रामं लोकेशं बलभद्रं हलायुधम् ॥२४.७७
जातेऽथ रामे देवानामादिमात्मानमच्युतम् ।
असूत देवकी कृष्णं श्रीवत्साङ्कितवक्षसम् ॥२४.७८
रेवती नाम रामस्य भार्यासीत् सुगुणान्विता ।
तस्यामुत्पादयामास पुत्रौ द्वौ निशितोल्मुकौ ॥२४.७९
षोडशस्त्रीसहस्त्राणि कृष्णस्याक्लिष्टकर्मणः ।
बभूवुरात्मजास्तासु शतशोऽथ सहस्त्रशः ॥२४.८०
चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः ।
चारुश्रवाश्चारुयशाः प्रद्युम्नः शंख एव च ॥२४.८१
रुक्मिण्यां वासुदेवस्य महाबलपराक्रमाः ।
विशिष्टाः सर्वपुत्राणां संबभूवुरिमे सुताः ॥२४.८२
तान् दृष्ट्वा तनयान् वीरान् रौक्मिणेयाञ्जनार्दनात् ।
जाम्बवत्यब्रवीत् कृष्णं भार्या तस्य शुचिस्मिता ॥२४.८३
मम त्वं पुण्डरीकाक्ष विशिष्टं गुणवत्तमम् ।
सुरेशसदृशं पुत्रं देहि दानवसूदन ॥२४.८४
जात्बवत्या वचः श्रुत्वा जगन्नाथः स्वयं हरिः ।
समारेभे तपः कर्त्तुं तपोनिधिररिंदमः ॥२४.८५
तच्छृणुध्वं मुनिश्रेष्ठा यथाऽसौ देवकीसुतः ।
दृष्ट्वा लेभे सुतं रुद्रं तप्त्वा तीव्रं महत् तपः ॥२४.८६
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुर्विंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP