संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः| सप्तचत्वारिंशत्तमोऽध्यायः कूर्मपुराणम् पूर्वभागः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशतितमोऽध्यायः विंशतितमोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः नवविंशतितमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षड्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टत्रिंशत्तमोऽध्यायः नवत्रिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्वारिंशत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षड्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः नवचत्वारिंशात्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाषत्तमोऽध्यायः द्विपञ्चाषत्तमोऽध्यायः त्रिपञ्चाषत्तमोऽध्यायः पूर्वभागः - सप्तचत्वारिंशत्तमोऽध्यायः पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे. Tags : kurmapuranpuranकूर्मपुराणपुराणसंस्कृत सप्तचत्वारिंशत्तमोऽध्यायः Translation - भाषांतर सूत उवाच ।केतुमाले नराः कालाः सर्वे पनसभोजनाः ।स्त्रियश्चोत्पलपत्राभा जीवन्ति च वर्षायुतम् ॥४७.१भद्राश्वे पुरुषाः शुक्लाः स्त्रियश्चन्द्रांशुसन्निभाः ।दश वर्षसहस्राणि जीवन्ते आम्रभोजनाः ॥४७.२रम्यके पुरुषा नार्यो रमन्ति रजतप्रभाः ।दशवर्षसहस्राणि शतानि दश पञ्च च ॥४७.३जीवन्ति चैव सत्त्वस्था न्यग्रोधफलभोजनाः ।हिरण्मये हिरण्याभाः सर्वे च लकुचाशनाः ॥४७.४एकादशसहस्त्राणि शतानि दश पञ्च च ।जीवन्ति पुरुषा नार्यो देवलोकस्थिता इव ॥४७.५त्रयोदशसहस्राणि शतानि दश पञ्च च ।जीवन्ति कुरुवर्षे तु श्यामाङ्गाः क्षीरभोजनाः ॥४७.६सर्वे मिथुनजाताश्च नित्यं सुखनिषेविताः ।चन्द्रद्वीपे महादेवं यजन्ति सततं शिवम् ॥४७.७तथा किंपुरुषे विप्रा मानवा हेमसन्निभाः ।दशवर्षहस्राणि जीवन्ति प्लक्षभोजनाः ॥४७.८यजन्ति सततं देवं चतुर्मूर्ति चतुर्मुखम् ।ध्याने मनः समाधाय सादरं भक्तिसंयुताः ॥४७.९तथा च हरिवर्षे तु महारजतसन्निभाः ।दशवर्षसहस्राणि जीवन्तीक्षुरसाशिनः ॥४७.१०तत्र नारायणं देवं विश्वयोनिं सनातनम् ।उपासते सदा विष्णुं मानवा विष्णुभाविताः ॥४७.११तत्र चन्द्रप्रभं शुभ्रं शुद्धस्फटिकसन्निभम् ।विमानं वासुदेवस्य पारिजातवनाश्रितम् ॥४७.१२चतुर्द्धारमनोपम्यं चतुस्तोरणसंयुतम् ।प्राकारैर्दशभिर्युक्तं दुराधर्षं सुदुर्गमम् ॥४७.१३स्फाटिकैर्मण्डपैर्युक्तं देवराजगृहोपमम् ।स्वर्णस्तम्भसहस्त्रैश्च सर्वतः समलंकृतम् ॥४७.१४हेमसोपानसंयुक्तं नानारत्नोपशोभितम् ।दिव्यसिंहासनोपेतं सर्वशोभासमन्वितम् ॥४७.१५सरोभिः स्वादुपानीयैर्नदीभिश्चोपशोभितम् ।नारायणपरैः शुद्धैर्वेदाध्ययनतत्परैः ॥४७.१६योगिभिश्च समाकीर्णं ध्यायद्भिः पुरुषं हरिम् ।स्तुवद्भिः सततं मन्त्रैर्नमस्यद्भिश्च माधवम् ॥४७.१७तत्र देवादिदेवस्य विष्णोरमिततेजसः ।राजानः सर्वकालं तु महिमानं प्रकुर्वते ॥४७.१८गायन्ति चैव नृत्यन्ति विलासिन्यो मनोरमाः ।स्त्रियो यौवनशालिन्यः सदा मण्डनतत्पराः ॥४७.१९इलावृते पद्मवर्णा जम्बूरसफालशिनः ।त्रयोदशसहस्राणि वर्षाणां वै स्थिरायुषः ॥४७.२०भारते तु स्त्रियः पुंसो नानावर्णाः प्रकीर्त्तिताः ।नानादेवार्च्चने युक्ता नानाकर्माणि कुर्वते ॥४७.२१परमायुः स्मृतं तेषां शतं वर्षाणि सुव्रताः ।नवयोजनसाहस्रं वर्षमेतत् प्रकीर्त्तितम् ॥४७.२२कर्मभूमिरियं विप्रा नराणामधिकारिणाम् ।महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥४७.२३विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ।इन्द्रद्वीपः कसेरुक्मान् ताम्रवर्णो गभस्तिमान् ॥४७.२४नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ।अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ॥४७.२५योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरः ।पूर्वे किरातास्तस्यान्ते पशिचमे यवनास्तथा ॥४७.२६ब्राह्मणाः क्षत्रिया वैश्याः मध्ये शूद्रास्तथैव च ।इज्यायुद्धवणिज्याभिर्वर्तयन्त्यत्र मानवाः ॥४७.२७स्रवन्ते पावना नद्यः पर्वतेभ्यो विनिः सृताः ।शतद्रुश्चन्द्रभागा च सरयूर्यमुना तथा ॥४७.२८इरावती वितस्ता च विपाशा देविका कुहूः ।गोमती धूतपापा च बाहुदा च दृषद्वती ॥४७.२९कौशिकी लोहिता चैव हिमवत्पादनिः सृताः ।वेदस्मृतिर्वेदवती व्रतघ्नी त्रिदिवा तथा ॥४७.३०वर्णाशा वन्दना चैव सचर्मण्यवती सुरा ।विदिशा वेत्रवत्यापि पारियात्राश्रयाः स्मृताः ॥४७.३१नर्मदा सुरसा शोण दशार्णा च महानदी ।मन्दाकिनी चित्रकूटा तामसी च पिशाचिका ॥४७.३२चित्रोत्पला विपाशा च मञ्जुला वालुवाहिनी ।ऋक्षवत्पादजा नद्यः सर्वपापहरा नृणाम् ॥४७.३३तापी पयोष्णी निर्विन्ध्या शीघ्रोदा च महानदी ।वेण्या वैतरणी चैव बलाका च कुमुद्वती ॥४७.३४तथा चैव महागैरी दुर्गा चान्तः शिला तथा ।विन्ध्यपादप्रसूतास्तु सद्यः पुण्यजलाः शुभाः ॥४७.३५गोदावरी भीमरथी कृष्णा वेणा च वश्यता ।तुङ्गभद्रा सुप्रयोगा कावेरी च द्विजोत्तमाः ॥४७.३६दक्षिणापथनद्यस्तु सह्यपादाद्विनिः सृताः ।ऋतुमाला ताम्रपर्णी पुष्पवत्युत्पलावती ॥४७.३७मलयान्निःसृता नद्यः सर्वाः शीतजलाः स्मृताः ।ऋषिकुल्या त्रिसामा च गन्दमादनगामिनी ॥४७.३८रूपा पालासिनी चैव ऋषिका वंशधारिणी ।शुक्तिमत्पादसंजाताः सर्वपापहरा नृणाम् ॥४७.३९आसां नद्युपनद्यश्च शतशो द्विजपुंगवाः ।सर्वपापहराः पुण्याः स्नानदानादिकर्मसु ॥४७.४०तास्विमे कुरुपाञ्चाला मध्यदेशादयो जनाः ।पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ॥४७.४१पुण्ड्राः कलिङ्गामगधा दाक्षिणात्याश्चकृत्स्नशः ।तथापरान्ताः सौराष्ट्राः शूद्राभीरास्तथाऽर्बुदाः ॥४७.४२मालका मालपाश्चैव पारियात्रनिवासिनः ।सौवीराः सैन्धवा हूणा माल्याः बाल्यनिवासिनः ॥४७.४३माद्रा रामास्तथैवान्ध्राः पारसीकास्तथैव च ।आसां पिबन्ति सलिलं वसन्ति सरितां सदा ॥४७.४४चत्वारि भारते वर्षे युगानि कवयोऽब्रुवन् ।कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित् ॥४७.४५यानि किंपुरुषाद्यानि वर्षाण्यष्टौ महर्षयः ।न तेषु शोको नायासो नोद्वेगः क्षुद्भयं न च ॥४७.४६स्वस्थाः प्रजा निरातङ्काः सर्वदुः खविवर्जिताः ।रमन्ते विविधैर्भावैः सर्वाश्च स्थिरयौवनाः ॥४७.४७इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP