संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः| नवमोऽध्यायः कूर्मपुराणम् पूर्वभागः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशतितमोऽध्यायः विंशतितमोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः नवविंशतितमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षड्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टत्रिंशत्तमोऽध्यायः नवत्रिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्वारिंशत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षड्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः नवचत्वारिंशात्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाषत्तमोऽध्यायः द्विपञ्चाषत्तमोऽध्यायः त्रिपञ्चाषत्तमोऽध्यायः पूर्वभागः - नवमोऽध्यायः पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे. Tags : kurmapuranpuranकूर्मपुराणपुराणसंस्कृत नवमोऽध्यायः Translation - भाषांतर सूत उवाचएतच्छ्रुत्वा तु वचनं नारदाद्या महर्षयः ।प्रणम्य वरदं विष्णुं पप्रच्छुः संशयान्विता ॥९.१मुनयः ऊचुःकथितो भवता सर्गो मुख्यादीनां जनार्दन ।इदानीं संशयं चेममस्माकं छेत्तुमर्हसि ॥९.२कथं स भगवानीशः पूर्वजोऽपि पिनाकधृक् ।पुत्रत्वमगच्छंभुर्ब्रह्मणोऽव्यक्तजन्मनः ॥९.३कथं च भगवाञ्जज्ञे ब्रह्मा लोकपितामहः ।अण्डजो जगतामीशस्तन्नो वक्तुमिहार्हसि ॥९.४श्रीकूर्म उवाच ।श्रृणुध्वमृषयः सर्वे शंकरस्यामितौजसः ।पुत्रत्वं ब्रह्मणस्तस्य पद्मयोनित्वमेव च ॥९.५अतीतकल्पावसाने तमोभूतं जगत्त्रयम् ।आसीदेकार्णवं सर्वं न देवाद्या न चर्षयः ॥९.६तत्र नारायणो देवो निर्जने निरुपप्लवे ।आश्रित्य शेषशयनं सुष्वाप पुरुषोत्तमः ॥९.७सहस्रशीर्षा भूत्वा स सहस्राक्षः सहस्रपात् ।सहस्रबाहुः सर्वज्ञश्चिन्त्यमानो मनीषिभिः ॥९.८पीतवासा विशालाक्षो नीलजीमूतसन्निभः ।महाविभूतिर्योगात्मा योगिनां हृदयालयः ॥९.९कदाचित् तस्य सुप्तस्य लीलार्थं दिव्यमद्भुतम् ।त्रैलोक्यसारं विमलं नाभ्यां पङ्कजमुद्वभौ ॥९.१०शतयोजनविस्तीर्णं तरुणादित्यसन्निभम् ।दिव्यगन्धमयं पुण्यं कर्णिकाकेसरान्वितम् ॥९.११तस्यैवं सुचिरं कालं वर्तमानस्य शार्ङ्गिणः ।हिरण्यगर्भो भगवांस्तं देशमुपचक्रमे ॥९.१२स तं करेण विश्वात्मा समुत्थाप्य सनातनम् ।प्रोवाच मधुरं वाक्यं मायया तस्य मोहितः ॥९.१३अस्मिन्नेकार्णवे घोरे निर्जने तमसावृते ।एकाकी को भवाञ्छेते ब्रूहि मे पुरुषर्षभ ॥९.१४तस्य तद् वचनं श्रुत्वा विहस्य गरुडध्वजः ।उवाच देवं ब्रह्माणं मेघगम्भीरनिःस्वनः ॥९.१५भो भो नारायणं देवं लोकानां प्रभवाव्ययम् ।महायोगीश्वरं मां त्वं जानीहि पुरुषोत्तमम् ॥९.१६मयि पश्य जगत् कृत्स्नं त्वां च लोकपितामहम् ।सपर्वतमहाद्वीपं समुद्रैः सप्तभिर्वृतम् ॥९.१७एवमाभाष्य विश्चात्मा प्रोवाच पुरुषं हरिः ।जानन्नपि महायोगी को भवानिति वेधसम् ॥९.१८ततः प्रहस्य भगवान् ब्रह्मा वेदनिधिः प्रभुः ।प्रत्युवाचाम्बुजाभाक्षं सस्मितं श्लक्ष्णया गिरा ॥९.१९अहं धाता विधाता च स्वयंभूः प्रपितामहः ।मय्येव संस्थितं विश्वं ब्रह्माऽहं विश्वतोमुखः ॥९.२०श्रुत्वा वाचं स भगवान् विष्णुः सत्यपराक्रमः ।अनुज्ञाप्याथ योगेन प्रविष्टो ब्रह्मणस्तनुम् ॥९.२१त्रलोक्यमेतत् सकलं सदेवासुरमानुषम् ।उदरे तस्य देवस्य दृष्ट्वा विस्मयमागतः ॥९.२२तदास्य वक्त्रान्निष्क्रम्य पन्नगेन्द्रनिकेतनः ।अजातश्मश्रुर्भगवान् पितामहमथाब्रवीत् ॥९.२३भवानप्येवमेवाद्य शाश्वतं हि ममोदरम् ।प्रविश्य लोकान् पश्यैतान् विचित्रान् पुरुषर्षभ ॥९.२४ततः प्रह्लादनीं वाणी श्रुत्वा तस्याभिनन्द्य च ।श्रीपतेरुदरं भूयः प्रविवेश कुशध्वजः ॥९.२५तानेव लोकान् गर्भस्थानपश्यत् सत्यविक्रमः ।पर्यटित्वाथ देवस्य ददृशेऽन्तं न वै हरेः ॥९.२६ततो द्वाराणि सर्वाणि पिहितानि महात्मना ।जनार्दनेन ब्रह्माऽसौ नाभ्यां द्वारमविन्दत ॥९.२७तत्र योगबलेनासौ प्रविश्य कनकाण्डजः ।उज्जहारात्मनो रूपं पुष्कराच्चतुराननः ॥९.२८विरराजारविन्दस्थः पद्मगर्भसमद्युतिः ।ब्रह्मा स्वयंभूर्भगवान् जगद्योनिः पितामहः ॥९.२९समन्यमानो विश्वेशमात्मानं परमं पदम् ।प्रोवाच पुरुषं विष्णुं मेघगम्भीरया गिरा ॥९.३०कृतं किं भवतेदानीमात्मनो जयकाङ्क्षया ।एकोऽहं प्रबलो नान्यो मां वै कोऽभिभविष्यति ॥९.३१श्रुत्वा नारायणो वाक्यं ब्रह्मणो लोकमन्त्रिणः ।सान्त्वपूर्वमिदं वाक्यं बभाषे मधुरं हरिः ॥९.३२भवान् धाता विधाता च स्वयंभूः प्रपितामहः ।न मात्सर्याभियोगेन द्वाराणि पिहितानि मे ॥९.३३किन्तु लीलार्थमेवैतन्न त्वां बाधितुमिच्छया ।को हि बाधितुमन्विच्छेद् देवदेवं पितामहम् ॥९.३४न तेऽन्यथाऽवमन्तव्यं मान्यो मे सर्वथा भवान् ।सर्वमन्वय कल्याणं यन्मयाऽपहृतं तव ॥९.३५अस्माच्च कारणाद् ब्रह्मन् पुत्रो भवतु मे भवान् ।पद्मयोनिरिति ख्यातो मत्प्रियार्थं जगन्मय ॥९.३६ततः स भगवान् देवो वरं दत्त्वा किरीटिने ।प्रहर्षमतुलं गत्वा पुनर्विष्णुमभाषत ॥९.३७भवान् सर्वात्मकोऽनन्तः सर्वेषां परमेश्वरः ।सर्वभूतान्तरात्मा वै परं बह्म सनातनम् ॥९.३८अहं वै सर्वलोकानामात्मा लोकोमहेश्वरः ।मन्मयं सर्वमेवेदं ब्रह्माऽहं पुरुषः परः ॥९.३९नावाभ्यां विद्यते ह्यन्यो लोकानां परमेश्वरः ।एका मूर्तिर्द्विधा भिन्ना नारायणपितामहौ ॥९.४०तेनैवमुक्तो ब्रह्माणं वासुदेवोऽब्रवीदिदम् ।इयं प्रतिज्ञा भवतो विनाशाय भविष्यति ॥९.४१किं न पश्यसि योगेशं ब्रह्माधिपतिमव्ययम् ।प्रधानपुरुषेशानं वेदाहं परमेश्वरम् ॥९.४२यं न पश्यन्ति योगीन्द्राः सांख्या अपि महेश्वरम् ।अनादिनिधनं ब्रह्म तमेव शरणं व्रज ॥९.४३ततः क्रुद्धोऽम्बुजाभाक्षं ब्रह्मा प्रोवाच केशवम् ।भवान्न नूनमात्मानं वेद्मि तत्परमाक्षरम् ॥९.४४ब्रह्माणं जगतामेकमात्मानं परमं पदम् ।नावाभ्यां विद्यते ह्यन्यो लोकानां परमेश्वरः ॥९.४५संत्यज्य निद्रां विपुलां स्वमात्मानं विलोकय ।तस्य तत्क्रोधजं वाक्यं श्रुत्वा विष्णुरभाषत ॥९.४६मामैवं वद कल्याण परिवादं महात्मनः ।न मेह्यविदितं ब्रह्मन् नान्यथाऽहं वदामि ते ॥९.४७किन्तु मोहयति ब्रह्मन् भवन्तं पारमेश्वरी ।मायाशेषविशेषाणां हेतुरात्मसमुद्भवा ॥९.४८एतावदुक्त्वा भगवान् विष्णुस्तूष्णीं बभूव ह ।ज्ञात्वा तत् परमं तत्त्वं स्वमात्मानं महेश्वरम् ॥९.४९कुतोह्यपरिमेयात्मा भूतानां परमेश्वरः ।प्रसादं ब्रह्मणे कर्तुं प्रादुरासीत्ततो हरः ॥९.५०ललाटनयनोऽनन्तो जटामण्डलमण्डितः ।त्रिशूलपाणिर्भगवांस्तेजसां परमो निधिः ॥९.५१दिव्यां विशालां ग्रथितां ग्रहैः सार्केन्दुतारकैः ।मालामत्यद्भुताकारां धारयन्पादलम्बिनीम् ॥९.५२तं दृष्ट्वा देवमीशानं ब्रह्मा लोकपितामहः ।मोहितो माययात्यर्थं पीतवासलमब्रवीत् ॥९.५३क एष पुरुषोऽनन्तः शूलपाणिस्त्रिलोचनः ।तेजोराशिरमेयात्मा समायाति जनार्दन ॥९.५४तस्य तद्वचनं श्रुत्वा विष्णुर्दानवमर्दनः ।अपश्यदीश्वरं देवं ज्वलन्तं विमलेऽम्भसि ॥९.५५ज्ञात्वा तं परमं भावमैश्वरं ब्रह्मभावनम् ।प्रोवाचोत्थाय भगवान् देवदेवं पितामहम् ॥९.५६अयं देवो महादेवः स्वयंज्योतिः सनातनः ।अनादिनिधनोऽचिन्त्यो लोकानामीश्वरो महान् ॥९.५७शंकरः शंभुरीशानः सर्वात्मा परमेश्वरः ।भूतानामधिपो योगी महेशो विमलः शिवः ॥९.५८एष धाता विधाता च प्रधानपुरुषेश्वरः ।यं प्रपश्यन्ति यतयो ब्रह्मभावेन भाविताः ॥९.५९सृजत्येष जगत् कृत्स्नं पाति संहरते तथा ।कालो भूत्वा महादेवः केवलो निष्कलः शिवः ॥९.६०ब्रह्माणं विदधे पूर्वं भवन्तं यः सनातनः ।वेदांश्च प्रददौ तुभ्यं सोऽयमायाति शंकरः ॥९.६१अस्यैव चापरां मूर्ति विश्वयोनिं सनातनीम् ।वासुदेवाभिधानां मामवेहि प्रपितामह ॥९.६२किं न पश्यसि योगेशं ब्रह्माधिपतिमव्ययम् ।दिव्यं भवतु ते चक्षुर्येन द्रक्ष्यसि तत्परम् ॥९.६३लब्ध्वा शैवं तदा चक्षुर्विष्णोर्लोकपितामहः ।बुबुधे परमेशानं पुरतः समवस्थितम् ॥९.६४स लब्ध्वा परमं ज्ञानमैश्वरं प्रपितामहः ।प्रपेदे शरणं देवं तमेव पितरं शिवम् ॥९.६५ओंकारं समनुस्मृत्य संस्तभ्यात्मानमात्मना ।अथर्वशिरसा देवं तुष्टाव च कृताञ्जलिः ॥९.६६संस्तुतस्तेन। भगवान् ब्रह्मणा परमेश्वरः ।अवाप परमां प्रीतिं व्याजहार स्मयन्निव ॥९.६७मत्समस्त्वं न संदेहो मद्भक्तश्च यतो भवान् ।मयैवोत्पादितः पूर्वं लोकसृष्ट्यर्थमव्ययम् ॥९.६८त्वमात्मा ह्यादिपुरुषो मम देहसमुद्भवः ।वरं वरय विश्वात्मन् वरदोऽहं तवानघ ॥९.६९स देवदेववचनं निशम्य कमलोद्भवः ।निरीक्ष्य विष्णुं पुरुषं प्रणम्याह वृषध्वजम् ॥९.७०भगवन् भूतभव्येश महादेवाम्बिकापते ।त्वामेव पुत्रमिच्छामि त्वया वा सदृशं सतम् ॥९.७१मोहितोऽस्मि महादेव मायया सूक्ष्मया त्वया ।न जाने परमं भावं याथातथ्येन ते शिव ॥९.७२त्वमेव देव भक्तानां भ्राता माता पिता सुहृत् ।प्रसीद तव पादाब्जं नमामि शरणागतः ॥९.७३स तस्य वचनं श्रुत्वा जगन्नाथो वृषध्वजः ।व्याजहार तदा पुत्रं समालोक्य जनार्दनम् ॥९.७४यदर्थितं भगवता तत्करिष्यामि पुत्रक ।विज्ञानमैश्वरं दिव्यमुत्पत्स्यति तवानघ ॥९.७५त्वमेव सर्वभूतानामादिकर्ता नियोजितः ।तथा कुरुष्व देवेश मयां लोकपितामह ॥९.७६एष नारायणोऽनन्तो ममैव परमा तनुः ।भविष्यति तवेशानो योगक्षेमवहो हरिः ॥९.७७एवं व्याहृत्य हस्ताभ्यां प्रीतात्मा परमेश्वरः ।संस्पृश्य देवं ब्रह्माणं हरिं वचनमब्रवीत् ॥९.७८तृष्टोऽस्मि सर्वथाऽहंते भक्त्या तव जगन्मय ।वरं वृणीष्वं न ह्यावां विभिन्नौ परमार्थतः ॥९.७९श्रुत्वाऽथ देववचनं विष्णुर्विश्वजगन्मयः ।प्राह प्रसन्नया वाचा समालोक्य चतुर्मुखम् ॥९.८०एष एव वरः श्लाघ्यो यदहं परमेश्वरम् ।पश्यामि परमात्मानं भक्तिर्भवतु मे त्वयि ॥९.८१तथेत्युक्त्वा महादेवः पुनर्विष्णुमभाषत ।भवान् सर्वस्य कार्यस्य कर्ताह़मधिदैवतम् ॥९.८२त्वन्मयं मन्मयं चैव सर्वमेतन्न संशयः ।भवान् सोमस्त्वहं सूर्यो भवान् रात्रिरहं दिनम् ॥९.८३भवान् प्रकृतिरव्यक्तमहं पुरुष एव च ।भवान् ज्ञानमहं ज्ञाता भवान् मायाहमीश्वरः ॥९.८४भवान् विद्यात्मिका शक्तिः शक्तिमानहमीश्वरः ।योऽहं सनिष्कलो देवः सोऽपि नारायणः परः ॥९.८५एकीभावेन पश्यन्ति योगिनो ब्रह्मवादिनः ।त्वामनाश्रित्य विश्वात्मन् न योगी मामुपैष्यति ।पालयैतज्जगत् कृत्स्नं सदेवासुरमानुषम् ॥९.८६इतीदमुक्त्वा भगवाननादिःस्वमायया मोहितभूतभेदःजगाम जन्मर्द्धिविनाशहीनंधामैकमव्यक्तमनन्तशक्तिः ॥९.८७इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे नवमोऽध्यायः ॥ ९ ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP