पूर्वभागः - सप्तत्रिंशत्तमोऽध्यायः
पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.
मार्कण्डेय उवाच ।
कथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम् ।
आर्षेण तु विधानेन यथा दृष्टं यथा श्रुतम् ॥३७.१
प्रयागतीर्थयात्रार्थी यः प्रयाति नरः क्वचित् ।
बलीवर्दं समारूढः श्रृणु तस्यापि यत्फलम् ॥३७.२
नरके वसते घोरे समाः कल्पशतायुतम् ।
ततो निवर्त्तते घोरो गवां क्रोधो हि दारुणः ॥३७.३
सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः ।
यस्तु पुत्रांस्तथा बालान् अन्नहीनान्प्रमुञ्चति ॥३७.४
यथात्मानं तथा सर्वान् दानं विप्रेषु दापयेत् ।
ऐश्वर्याल्लोभमोहाद् वा गच्छेद् यानेन यो नरः ॥३७.५
निष्फलं तस्य तत् तीर्थं तस्माद्यानं विवर्जयेत् ।
गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति ॥३७.६
आर्षेण तु विधानेन यथा विभवविस्तरम् ।
न स पश्यति तं घोरं नरकं तेन कर्मणा ॥३७.७
उत्तरान् स कुरून् गत्वा मोदते कालमव्ययम् ।
वटमूलं समाश्रित्य यस्तु प्राणान् परित्यजेत् ॥३७.८
सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति ।
तत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥३७.९
लोकपालाश्च सिद्धाश्च पितरो लोकसंमताः ।
सनत्कुमारप्रमुखास्तथा ब्रह्मर्षयोऽपरे ॥३७.१०
नागाः सुपार्णाः सिद्धाश्च तथा नित्यं समासते ।
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ॥३७.११
गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् ।
प्रयागं राजशार्दूल त्रिषु लोकेषु विश्रुतम् ॥३७.१२
तत्राभिषेकं यः कुर्यात् संगमे शंसितव्रतः ।
तुल्यं फलवाप्नोति राजसूयाश्वमेधयोः ॥३७.१३
न मातृवचनात् तात न लोकवचनादपि ।
मतिरुत्क्रमणीया ते प्रयागगामनं प्रति ॥३७.१४
दश तीर्थ सहस्राणि षष्टिकोट्यस्तथापराः ।
तेषां सान्निध्यमत्रैव तीर्थानां कुरुनन्दन ॥३७.१५
या गतिर्योगयुक्तस्य सत्त्वस्थस्य मनीषिणः ।
सा गतिस्त्यजतः प्राणान् गङ्गायमुनसंगमे ॥३७.१६
न ते जीवन्ति लोकेऽस्मिन् यत्र तत्र युधिष्ठिर ।
ये प्रयागं न संप्राप्तास्त्रिषु लोकेषु विश्रुतम् ॥३७.१७
एवं दृष्ट्वा तु तत् तीर्थं प्रयागं परमं पदम् ।
मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥३७.१८
कम्बलाश्वतरौ नागौ यमुनादक्षिणे तटे ।
तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः ॥३७.१९
तत्र गत्वा नरः स्थानं महादेवस्य धीमतः ।
आत्मानं तारयेत् पूर्वं दशातीतान् दशापरान् ॥३७.२०
कृत्वाऽभिषेकं तु नरः सोऽश्वमेधफलं लभेत् ।
स्वर्गलोकमवाप्नोति यावदाहूतसंप्लवम् ॥३७.२१
पूर्वपार्श्वे तु गङ्गायास्त्रैलोक्येख्यातिमान् नृप ।
अवचः सर्वसामुद्रः प्रतिष्ठानं च विश्रुतम् ॥३७.२२
ब्रह्मचारी जितक्रोधस्त्र्रिरात्रं यदि तिष्ठति ।
सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ॥३७.२३
उत्तरेण प्रतिष्ठानं भागीरथ्यास्तु सव्यतः ।
हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥३७.२४
अश्वमेधफलं तत्र स्मृतमात्रात् तु जायते ।
यावच्चन्द्रश्च सूर्यश्च तावत् स्वर्गे महीयते ॥३७.२५
उर्वशीपुलिने रम्ये विपुले हंसपाण्डुरे ।
परित्यजतियः प्राणान् श्रृणु तस्यापि यत् फलम् ॥३७.२६
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
आस्ते स पितृभिः सार्द्धं स्वर्गलोके नराधिप ॥३७.२७
अथं संध्यावटे रम्ये ब्रह्मचारी समाहितः ।
नरः शुचिरुपासीत ब्रह्मलोकमवाप्नुयात् ॥३७.२८
कोटितीर्थं समाश्रित्य यस्तु प्राणान् परित्यजेत् ।
कोटिवर्षसहस्राणि स्वर्गलोके महीयते ॥३७.२९
यत्र गङ्गा महाभागा बहुतीर्थतपोवना ।
सिद्धंक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा ॥३७.३०
क्षितौ तारयते मर्त्त्यान् नागांस्तारयतेऽप्यधः ।
दिवि तारयते देवांस्तेन त्रिपथा स्मृता ॥३७.३१
यावदस्थीनि गङ्गायां तिष्ठन्ति पुरुषस्य तु ।
तावद् वर्षसहस्त्राणि स्वर्गलोके महीयते ॥३७.३२
तीर्थानां परमं तीर्थं नदीनां परमा नदी ।
मोक्षदा सर्वभूतानां महापातकिनामपि ॥३७.३३
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ।
गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे ॥३७.३४
सर्वेषामे भूतानां पापोपहतचेतसाम् ।
गतिमन्वेषमाणानां नास्ति गङ्गासमा गतिः ॥३७.३५
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् ।
माहेश्वरात् परिभ्रष्टा सर्वपापहरा शुभा ॥३७.३६
कृते तु नैमिषं तीर्थं त्रेतायां पुष्करं परम् ।
द्वापरे तु कुरुक्षेत्रं कलौ गङ्गां विशिष्यते ॥३७.३७
गङ्गामेव निषेवन्ते प्रयागे तु विशेषतः ।
नान्यत् कलियुगोद्भूतं मलं हन्तुं सुदुष्करम् ॥३७.३८
अकामो वा सकामो वा गङ्गायां यो विपद्यते ।
स मृतो जायते स्वर्गे नरकं च न पश्यति ॥३७.३९
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP